सितोपला
sitopalāस्त्री · fem.In 7 kośas: 7 synonym verses.
गुड इक्षुरसक्वाथः शर्करा तु सितोपला ॥ ४०२ ॥सिता च मधुधूलिस्तु खण्डस्तद्विकृतिः पुनः ।मत्स्यण्डी फाणितं चापि रसालायां तु भार्जिता ॥ ४०३ ॥शिखरिण्यथ यूर्यूषो रसो दुग्धं तु सोमजम् ।गोरसः क्षीरमूधस्यं स्तन्यं पुंसवनं पयः ॥ ४०४ ॥
अनुष्टुप्
genderस्त्रीfem.
विकाराः खण्डजाश्चाथ सिकता तु सितोपला ।अहिच्छत्रो पलाकास्याद्विकारा इक्षुजा अमी ॥ २२० ॥
अनुष्टुप्
genderस्त्रीfem.
मीनाण्डी मधुधूलिस्तु खण्डः स्यात्पिण्डश[132a]र्करा ।शर्करा सिकता श्वेताहिच्छत्रा च सितोपला ॥ ८४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
गुडक्वाथौ समावीक्षुरसः स्याच्छर्करा पुनः ।सितोपला सिता तुल्ये मधुधूलिस्तु खण्डकः ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
खण्डस्तु मधुधूलिः स्यान्मत्स्यण्डी फाणितं वरा ।सितोपला शर्करा च सिताथेक्षुरसो गुडः ॥ ५५ ॥
अनुष्टुप्
genderस्त्रीfem.
गोधूमचूर्णः समिता यवक्षोदस्तु चिक्कसः ।गुड इक्षुरसक्वाथः सितोपला तु शर्करा ॥ ६०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderस्त्रीfem.
सितोपला मधुधूलौ खण्डो वर्गद्वितीयखः ।फाणिते स्यात्तु मत्स्याण्डी मत्स्यण्डिश्च मत्स्यण्ड्यपि ॥ ४६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable); pāda 4, syllable 5 म (wrong syllable)
genderस्त्रीfem.