कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्वरित

svaritaपुं · masc.

In 4 kośas: 3 synonym verses, 2 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.44 · p. 443
त्रिविधा अनुदात्तस्तु निघातो नीच इत्यपि ।उच्चैरुदात्तः स्वरितः समवृत्तिरथो हलः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.17 · p. 3
उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः ।ज्योतिषं व्याकृतिः शिक्षा कल्पश्छन्दो निरुक्तकम् ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.37 · p. 86
विसर्गस्त्वभिनिष्ठानः परे त्रिष्वनुनासिकः ।नीचोऽनुदात्तो निहत उदात्तः स्वरितोऽपि च ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1918 · p. 214
द्वे तु चाषसमाख्ये स्यात् पक्षिभेदेऽथ पुंस्ययम् ।स्वरितः स्वरभेदे स्यादुच्चनीचद्वयात्मके ॥ १९१८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1919 · p. 214
त्रि तु तद्वत्यपि स्याच्च स्वर्गते स्व(रस?सर)स्तु ना ।भ्रातरि क्ली तु दिवसे गेहे चाथ द्वयोरयम् ॥ १९१९ ॥
अनुष्टुप्metre not read in every line
doubtful