नीच
nīcaवि · adj.In 20 kośas: 42 synonym verses, 7 as a nānārtha head word, 41 as a meaning of another word.
दोषैकदृक्पुरोभागी कर्णेजपस्तु दुर्जनः ।पिशुनः सूचको नीचो द्विजिह्वो मत्सरी खलः ॥ ३८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
genderपुंmasc.
उन्माथः कूटयन्त्रं स्याद्विवर्णस्तु पृथग्जनः ।इतरः प्राकृतो नीचः पामरो बर्बरश्च सः ॥ ९३२ ॥
अनुष्टुप्
genderपुंmasc.
दीर्घायते समे तुङ्गमुच्चमुन्नतमुद्धुरम् ॥ १४२८ ॥प्रांशूच्छ्रितमुदग्रं च न्यङ्नीचं ह्रस्वमन्थरे ।खर्वं कुब्जं वामनं च विशालं तु विशङ्कटम् ॥ १४२९ ॥पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् ।स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद्गुरुः ॥ १४३० ॥
अनुष्टुप्
genderविadj.
विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः ।निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने ।न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते ॥ ७० ॥
अनुष्टुप्
genderविadj.
दुर्जनः पिशुनः क्षुद्रो नीचः कर्णेजपः खलः ।दोषग्राही पुरोभागी द्विजिह्वो मत्सरी मतः ॥ ३४६ ॥
अनुष्टुप्
genderपुंmasc.
genderविadj.
प्रोक्तांशैः परमो नीचस्थिता संख्यादयः क्रमात् ।
genderपुंmasc.
भागेषु परमोच्चस्थानीचसूर्यादयोऽपि च ।
genderपुंmasc.
पाश्चात्या यवना नीचास्तुरुष्का अपि हिन्दुकाः ।म्लेच्छास्तु वाह्लिकाः कीर्णा अजात्यास्तु प्रकीर्तिताः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
वार्त्तावहो वैवधिको भारवाहस्तु भारिकः ।भारवाडथ नीचस्तु विवर्णः पामरेतरौ ॥ ३० ॥
अनुष्टुप्
genderविadj.
कर्णेजपः सूचकः स्यान्नीचः कुरवदुर्जनौ ।पिशुनोऽथ नृशंसः स्यात्क्रूरो घातुक इत्यथ ॥ ८८ ॥
अनुष्टुप्
genderविadj.
त्रिविधा अनुदात्तस्तु निघातो नीच इत्यपि ।उच्चैरुदात्तः स्वरितः समवृत्तिरथो हलः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
पार्परं करुणस्तु स्यात्कृ(?)स्ताहः कण्टकद्रुमः ।बृहत्पुष्प *[श्च] नीचश्च मल्लिकापुष्प-कुब्जकौ ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
डिङ्गरः किंकरो गोप्य-परजात-परैधिताः ।प्रेष्यः श्लिकुश्चाथ नीचो विवर्णश्च पृथग्जनः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
द्विजिह्वो मत्सरी नीचः पुरोभागी तु दोषदृक् ।खलानां तु समूहे स्तः खल्या च खलिनी स्त्रियौ ॥क्रुद्धस्तु रुषितो रुष्टश्चक्षाणस्तु कलिप्रियः ।रोषणः क्रोधनः क्रोधी कोपनोऽमर्षणः सुरुट् ॥ ५६ ॥
अनुष्टुप्
genderविadj.
ह्रस्वयल्लँघयन्द्राघयंश्च तत्तत्कराः स्मृताः ।खर्वं कुब्जं वामनं च न्यङ् नीचं मन्थरं तथा ॥ ८३ ॥
metre not recognised
genderविadj.
नीचं द्राविडभूषार्हं पैत्तलं पित्तहेतुकम् ।राजरीत्यां ब्रह्मरीतिः स्वर्णरीतिर्महेश्वरी ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
उच्चैरुच्चावचं तुङ्गमुच्चमुन्नतमुच्छ्रितम् ।नीचं न्यगातनं कुब्जं नीचैर्ह्रस्वं नयेत्परम् ॥ १५८ ॥
अनुष्टुप्
genderविadj.
शौण्डीरो गर्वितः स्तब्धो मानी चाहंयुरुद्धतः ।उद्ग्रीव उद्धरो दृप्तः नीचश्च पिशुनोऽधमः ॥ १६८ ॥
अनुष्टुप्
genderविadj.
सभ्यसज्जनसाध्वार्या दुर्जनः पिशुनः समः ।खले नीचो द्विजिह्वोऽपि मत्सरी सूचकस्तथा ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
नीचकर्णेजपौ दोषैकदृक् चौरस्तु तस्करः ।पाटच्चरस्तेनदस्युपरिमोषिमलिम्लुचाः ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
अवद्यः कुत्सितो नीचोऽप्यधमः पण्ड इत्यपि ।निरर्थके तु किंपाकः किञ्जोलञ्जः कुटिप्रियः ॥ ६८२ ॥
अनुष्टुप्
genderविadj.
सरसं स्वादु रुचिरं निःशोध्यमनवस्करम् ।असारे फल्गु कलनं निःसारे नीचमङ्कनम् ॥ ६८४ ॥
अनुष्टुप्
genderविadj.
वर्तुले निस्तु(स्त?)लं खर्वे ह्रस्वन्यङ्नीचवामनाः ।आनते कुञ्चितं जिह्ममूर्मिमद्वृजिनं मतम् ॥ ६९४ ॥
अनुष्टुप्
genderविadj.
अन्ते जघन्यं चरमं पश्चिमं नीचमित्यपि ।उल्बणं च स्फुटं स्पष्टेऽप्येकाकी त्वेक एककः ॥ ७०१ ॥
अनुष्टुप्
genderविadj.
सर्वज्ञो मांसविक्रेता शस्त्री स्याच्छस्त्रकारकः ।मालश्चण्डालको म्लेच्छो नीचोऽस्पृश्योऽथ पञ्चमः ।तद्भेदाः शृङ्खलाः कालाः यावनाः प्रांशुका नराः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
इतरः प्राकृतो नीचः पामरश्च पृथग्जनः ।पुलिन्दः शम्बरो भिल्लः किरातश्च वनेचरः ॥ ६९ ॥
अनुष्टुप्
genderविadj.
कर्णेजपश्च पिशुनो द्विजिह्वो दुर्जनः खलः ।पापो धूर्तः शठः क्रूरः क्षुद्रो नीचोऽधमोऽनृजुः ॥ ७४ ॥
अनुष्टुप्
genderविadj.
उच्चं प्रांशून्नतं तुङ्गं निम्नं नीचं न्यगानतम् ।विवरं कुहरं छिद्रं रन्ध्रं गर्तावटौ बिलम् ॥ ९२ ॥
अनुष्टुप्
genderविadj.
स्याद्दरिद्रस्तथा दुःस्थः क्षुद्रो दुर्विधदुर्गतौ ।कीकटोऽकिञ्चनो निःस्वो दीनो नीचोऽपि कथ्यते ॥ ५३० ॥
अनुष्टुप्
genderविadj.
अथ कर्णेजपः क्षुद्रो द्विजिह्वो दुर्जनः खलः ।प्रखलः पिशुनो नीचः स्यान् मत्सरी च सूचकः ॥ ५६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्स (wrong syllable)
genderपुंmasc.
इतरः पामरो नीचः प्राकृतश्च पृथग्जनः ।विवर्णो बर्बरश्चेति नामानि विलसन्ति वै ॥ १५८० ॥
अनुष्टुप्
genderपुंmasc.
न्यग्नीचं मन्थनं कुब्जं खर्वं च वामनं पुनः ।ह्रस्वं च सप्त नामानि नीचार्थे प्रथयन्ति वै ॥ २५९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderविadj.
वामने खर्वह्रस्वौ च नीचको नीच इत्यपि ।खरणाः स्यात् खरणसो द्वितयं तीक्ष्णनासिके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्व (wrong syllable)
genderविadj.
नीचे निहीनहीनापसदजान्मपृथग्जनाः ।विवर्णः प्राकृतक्षुल्लक्षुल्लकेतरपामराः ।भृत्ये भुजिष्यदासेयदासेरपरिचारकाः ॥
अनुष्टुप्
genderविadj.
वामने ह्रस्वखर्वन्यङ्नीचा नीचैस्तथाव्ययम् ।आनते स्यादवाग्रन्तु भवेदवनतोऽपि च ॥
अनुष्टुप्
genderविadj.
न्यङ्नीचौ प्रह्वविनताववाग्रावनतौ समौ ।कुटिलमरालं वक्रं वेल्लितमाविद्धवृजिनभुग्नानि ॥ १६३६ ॥
अनुष्टुप्metre not read in every line
genderविadj.
विसर्गस्त्वभिनिष्ठानः परे त्रिष्वनुनासिकः ।नीचोऽनुदात्तो निहत उदात्तः स्वरितोऽपि च ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
नीचे तु हीनापशदपामरेतरबर्बराः ।नैकृतः स्यान्नैकृतिकः शठः कौनृतिकोऽनृजुः ॥ २२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्नै (wrong syllable)
genderविadj.
अपि दुस्स्थक्रूरदीननीचदुर्गतदुर्विधाः ।मार्गणः स्याद्याचनको याचकोऽर्थी वनीपकः ॥ ६० ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 द्या (wrong syllable)
genderविadj.
प्रांशूच्चमुन्नतं तुङ्गमुदग्रं तूच्छ्रिताग्रकम् ।न्यङ्नीचह्रस्वखर्वास्तु वामने दीर्घमायते ॥ ८१ ॥
अनुष्टुप्
genderविadj.
नीच as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् पृथग्जनभूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ ॥ १०५ ॥ Amarakośa 3.3.105
- नामलिङ्गानुशासनम् इतरउदारो दातृमहतोरितरस्त्वन्यनीचयोः ॥ १९२ ॥ Amarakośa 3.3.192
- धरणिकोश पृथग्जनप्रयोजनं कार्यहेत्वोरायोधनं रणे हतौ । पृथग्जनौ नीचमूर्खौ आत्मयोनी विधिस्मरौ ॥ Dharaṇikośa 19.1.22
- कोषकल्पतरु क्षुल्लकतक्षक उक्तो नागे स्थपतावल्पे तु निःस्वे च । नीचे कनीयसि स्या- त्परलिङ्गः क्षु[250a]ल्लकस्तद्वत् ॥ ३८ ॥ Koṣakalpataru 6.1.38
- कोषकल्पतरु न्यच्चोचेऽथ नीचनिम्न- कार्त्स्नेषु न्यग्विशेष्यनिघ्नः स्यात् । भारत्यां भाषायां वचने प्रोक्ता स्त्रियां वाक् च ॥ ९ ॥ Koṣakalpataru 6.5.9
- कोषकल्पतरु वेरटविकटे जाततरुणिमनि मिश्रितनीचेषु वेरटः परवत् । बदरीफले तु चरमे त्रिकूट उक्तः सुवेलाद्रौ ॥ ३६ ॥ Koṣakalpataru 6.10.36
- कोषकल्पतरु निकृतनीचेऽप्यथ विकृतं स्यादसंस्कृते रोगितेऽश्लीले । संस्कृतमग्र्ये कृतके लक्षणयुक्तेऽप्यलंकृते पक्वे ॥ ९३ ॥ Koṣakalpataru 6.16.93
- कोषकल्पतरु जनपरे महर्लोकत ईरितोऽपि लोकेऽत्र लोकेऽपि जनश्च नीचे । जनी स्नुषायां स्याज्जनने घनस्तु मेघे दृढे विस्तृतिसान्द्रयोश्च । दृढेऽप्ययोमुद्गरके * गात्रे वाद्ये पुनर्मध्यमनृत्यकेऽन्त्ये ॥ ८४ ॥ Koṣakalpataru 6.21.84
- कोषकल्पतरु पृथग्जननीचे च मूर्खेऽथ कृ[20b]तौ च हेतौ प्रयोजनं स्याद्बलिदानवे तु । वैरोचनः स्यात्सुगतेऽर्कपुत्रे विरोचनस्त्वग्निरवीन्दुषु स्यात् ॥ ६ ॥ Koṣakalpataru 6.21.6
- कोषकल्पतरु पामरशुण्ठीमुस्तकयोस्तु नागरमिदं सम्भोगबन्धान्तरे पौरे स्याच्चतुरेऽन्यवद्गतरुजि स्याद्वागरो वारके । शाणे निर्नरके मुमुक्षुबुधयोः स्याद्भ्रामरं प्रस्तरे क्षौद्रे चाप्यथ पामरस्त्रिषु खले नीचे तथा कीर्त्तितः ॥ ३८ ॥ Koṣakalpataru 6.27.38
- कोषकल्पतरु खलनीचेऽधमे चाथ गलस्तु कण्ठे भवेत्तथा सर्जरसे नृलिङ्गः । चलोऽनिले कम्पगतोऽन्यवत्स्या- द्दलं तु पर्णे भवति स्त्रियां न ॥ ५० ॥ Koṣakalpataru 6.28.50
- नानार्थार्णवसंक्षेप अन्त्यअथाभिधेयलिङ्गः स्यादर्भो बाले तथाल्पके । अन्यस्त्वसदृशे भिन्नेऽप्यन्त्योऽन्तभवनीचयोः ॥ १ ॥ Nānārthārṇavasaṃkṣepa 2.4.1
- नानार्थार्णवसंक्षेप जाल्मजाल्मो नीचे च निर्बुद्धौ स्तब्धेऽनालोच्यकारिणि । जात्यो मुख्ये कुलीने च चारौ ज्यायस्तु पूर्वजे ॥ ९ ॥ Nānārthārṇavasaṃkṣepa 2.4.9
- नानार्थार्णवसंक्षेप खलनीचे क्रूरे दुर्जने च पुंश्चल्यां तु स्त्रियां खला । फलग्रहणदेशे तु क्षेत्रस्य क्ली नरि त्वमुम् ॥ ३११ ॥ Nānārthārṇavasaṃkṣepa 2.5.311
- नानार्थार्णवसंक्षेप क्षुल्लकमूर्खे च कामुके चाथ कनीयांस्तु जघन्यजे । युवतरे चाल्पतरे क्षुल्लकस्त्वल्पनीचयोः ॥ २१ ॥ Nānārthārṇavasaṃkṣepa 3.4.21
- नानार्थार्णवसंक्षेप दुर्विधसदेवासत्कृतं सभ्यैर्यत् तत्राप्यथ दुर्विधः । नीचे दरिद्रे दोषज्ञः पुनर्भिषजि पण्डिते ॥ २५ ॥ Nānārthārṇavasaṃkṣepa 3.4.25
- नानार्थार्णवसंक्षेप पामरप्रत्यर्थी त्ववगन्तव्यः शात्रवप्रतिवादिनोः । पामरस्तु भवेदज्ञे नीचे च रभसः पुनः ॥ ४१ ॥ Nānārthārṇavasaṃkṣepa 3.4.41
- नानार्थार्णवसंक्षेप वक्तव्यवर्णाटो गायने चित्रकरे स्त्रीकृतजीवने । वक्तव्यः कुत्सिते नीचेऽप्यधीनकथनीययोः ॥ ४८ ॥ Nānārthārṇavasaṃkṣepa 3.4.48
- नानार्थार्णवसंक्षेप वराटखड्गभेदेऽपि चैरण्डबीजाभपुलकावलौ । नीचेऽथ द्वे कपर्दाख्यजलजन्तौ त्रिषु त्वयम् ॥ १५८९ ॥ Nānārthārṇavasaṃkṣepa 4.1589
- नानार्थार्णवसंक्षेप पृथग्जनपुरुभोजास्तु मेघे च गिरौ चाथ पृथग्जनः । मूर्खे नीचे तथा पोटगलस्तु नडसंज्ञके ॥ ९३ ॥ Nānārthārṇavasaṃkṣepa 6.93
- नानार्थार्णवसंक्षेप अपशदत्रिषु त्वपशदो नीचे द्वे तु षट्सु नृजातिषु । वर्णानामानुलोम्येन जातास्वथ पराक्रमे ॥ ३६ ॥ Nānārthārṇavasaṃkṣepa 6.36
- नानार्थार्णवसंक्षेप पारावततद्युक्तार्थे च नीचे च क्ली तु (वर्मेऽपि ?) शाखिनः । अत्रोक्तस्य फले द्वे तु कपोते गृहवर्तिनि ॥ ३७३ ॥ Nānārthārṇavasaṃkṣepa 6.373
- परमानन्दीयनाममाला न्यक्न्यग्नीचकार्त्स्न्ययोर्निम्ने पोऽम्भःपाने च पातरि । समीरमार्गयोः प्रौढे पूस्तु देहपुरोरपि ॥ ३० ॥ Paramānandīyanāmamālā 1.30
- शब्दरत्नावली क्षण्णकक्षण्णकः स्त्रीषु नीचेऽल्पे कुशिको मुनिसर्जयोः । कुषाकुर्वानरेर्केऽऽग्नौ परोत्तापिनि तु त्रिषु ॥ Śabdaratnāvalī 7.1.54
- शब्दरत्नावली जम्बुकजम्बुको वरुरो नीचे शृगाले तर्कभेदके । जतुकाऽजिनपत्रायां क्लीबं स्यात् हिङ्गुयावयोः ॥ Śabdaratnāvalī 7.1.75
- शब्दरत्नावली टुण्टुकटुण्टुकः श्योणाकतरौ स्वल्पे नीचेऽपि पक्षिणि । डिम्बिका कामुकी नीरविम्बशोणकभूरुहे ॥ Śabdaratnāvalī 7.1.81
- शब्दरत्नावली शोठशोठो मूर्खेऽलसे धूर्ति नीचे पापरतेऽपि च । षष्ठी रेमवतीतिथ्योः षण्णाञ्च पूरणे त्रिषु ॥ Śabdaratnāvalī 7.12.8
- शब्दरत्नावली काण्डकाण्डं बाणे तरुस्कन्धे स्तम्बे नीचेऽपि कुत्सिते । नाडी व्रणान्तरे वृक्षभेदे महसि न स्त्रियाम् ॥ Śabdaratnāvalī 7.13.3
- शब्दरत्नावली वामनवर्ष्म देहे प्रमाणेऽतिसुन्दरेऽपि च न द्वयोः । वाजी पक्षिशराश्वेषु वर्त्म नेत्रच्छदाध्वनोः ॥ वामनो दिग्गजे विष्णौ तथाङ्कोठद्रुमे पुमान् । अस्त्री रोगप्रभेदेऽपि त्रिषु स्यान्नीचखर्वयोः ॥ Śabdaratnāvalī 7.20.74
- शब्दरत्नावली पृथग्जनप्रसाधनी स्त्री कङ्कत्यां क्लीबन्तु सिद्धिवेशयोः । पयस्विनी विभावर्य्यां धेनौ नद्यामपि स्त्रियाम् ॥ पुण्यजनः सज्जने स्याद्यक्षराक्षसयोरपि । पृण्यजनस्तु पुंसि स्यान्नीचे मूर्खे च पापिनि ॥ फलकी मीनभेदे ना त्रिषु स्यात्फलकान्विते । वार्वकी वे विचित्राश्वपर्ण्यजीवशरान्विषु (?) ॥ भूतात्मा पुंसि भूतेशे देहे बुद्धे विधातरि । महाधनं महामूल्यसुवर्णसिह्लकादिषु ॥ महासेनः कुमारे स्यान्महासैन्यपतौ पुमान् । मदयित्नुः स्मरे शौण्डे पुमान्मद्ये तु न द्वयोः ॥ महामुनिः कुम्भयोनिबुद्धयोः क्लीबमोषधे । मातुलानी तु भङ्गायां कलायं मातुलस्त्रियाम् ॥ Śabdaratnāvalī 7.20.118
- शब्दरत्नावली खर्वखर्वं संख्याभिदि क्लीबं नीचे स्यात्त्रिषु वामने ॥ Śabdaratnāvalī 7.23.3
- शब्दरत्नावली अन्त्यअर्थ्यो बुधे जतुन्यर्थ्यं न्याय्ये चाप्यभिधेयवत् ॥ अन्त्यो ना मुस्तके नीचे भवेदन्तभवे त्रिषु । अर्घ्यं वाच्यवदर्घ्यार्थेऽप्यर्घयोग्ये नपुंसकम् ॥ Śabdaratnāvalī 7.26.3
- शब्दरत्नावली खलदेहे क्लीबं कष्टकार्या स्त्रियां कुलिरुदाहृता । खलं भूस्थानकल्लेषु वाच्यवत्क्रूरनीचयोः ॥ Śabdaratnāvalī 7.28.9
- शब्दरत्नावली ह्रस्वहव आज्ञाह्वानयज्ञे ह्रस्वः स्यात्खर्वनीचयोः । Śabdaratnāvalī 7.29.24
- त्रिकाण्डशेष क्षुल्लकनीचेऽपि क्षुल्लको मूर्धत्राणौ नाकौ च खोलकः । चौरोन्दुरू च खनकौ गोलकौ मणिजारजौ ॥ १७ ॥ Trikāṇḍaśeṣa 3.3.17
- त्रिकाण्डशेष अधरनाकेऽतिगन्धद्रव्ये च स्यादऽस्रं रुधिराश्रुणोः । प्रस्तावेऽवसरो वर्षे चौष्ठे नीचेऽपि चाधरः ॥ ३२७ ॥ Trikāṇḍaśeṣa 3.3.327
- वैजयन्ती खलअर्धे गुडविकारे च खण्डोऽस्त्री खण्डिते त्रिषु । खलं भूस्थानकल्केषु खलो नीचः खलेत्वरी ॥ २५ ॥ Vaijayantī 6.5.25
- वैजयन्ती क्षुल्लकद्वौ कनिष्ठकनीयांसौ यून्यत्यल्पेऽनुजेऽपि च । क्षुल्लका नीचनिः स्वाल्पाः कलितो ज्ञातबद्धयोः ॥ ९ ॥ Vaijayantī 7.4.9
- वैजयन्ती दुर्विधदुर्विधो निर्धने नीचे निहतो न्यक्स्वरे हते । निर्ग्रन्थः श्रमणे निस्स्वे निरस्तस्तु निराकृते ॥ १३ ॥ Vaijayantī 7.4.13
- वैजयन्ती पृथग्जनअग्निरुद्रौ पशुपती नाशावज्ञे पराभवौ । रक्षः सन्तौ पुण्यजनौ नीचमूर्खौ पृथग्जनौ ॥ २६ ॥ Vaijayantī 8.1.26
- वैजयन्ती पारावतनीचे व्रीहाविन्द्रनीले प्राणनाथो यमे प्रिये । पुण्डरीकं सितच्छत्रे कुष्ठभेदे सितांबुजे ॥ १६ ॥ Vaijayantī 8.5.16