All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
नानालिङ्गाध्यायः (16/18)
स्त्रीविशेषे विजानीयात् प्राज्ञो दोहदसंयुते ।शकलूर्देवताभेदे स्त्रियां पुंसि त्वधीयते ॥ १८०१ ॥
4.1801 · p. 204
अनुष्टुप्
वनस्पतिविशेषेऽथ शब्दप्राट् शिष्यके द्वयोः ।त्रि तु शाब्देऽथ शतपाच्छताङ्घ्रौ त्रि स्त्रियां पुनः ॥ १८०२ ॥
4.1802 · p. 204
अनुष्टुप्
ज्ञेया शतपदी कर्णजलौकायामथ द्वयोः ।मत्स्ये स्याच्छकली त्रिस्तु शकलेन समायुते ॥ १८०३ ॥
4.1803 · p. 204
अनुष्टुप्
शारदस्तु पुमान् पीतमुद्गे संवत्सरेऽपि च ।त्रिस्त्वधृष्टे च शुद्धे च शरत्पक्वादिकेषु च ॥ १८०४ ॥
4.1804 · p. 204
अनुष्टुप्
शारस्य दातर्यपि च रभसोऽप्रतिभेऽपि च ।प्रत्यग्रे च स्त्रियां तु स्यात् सप्तपर्णाख्यपादपे ॥ १८०५ ॥
4.1805 · p. 204
अनुष्टुप्
शारदी तोयपिप्पल्यामप्यथो शार्वरं नपि ।स्यादन्धतमसे त्रिस्तु धातुकेऽथ त्रि शार्करः ॥ १८०६ ॥
4.1806 · p. 204
अनुष्टुप्
शर्करावति नप् तु स्याद् योनोवर्गसमुत्थयोः ।साम्नोर्माध्वीकसंज्ञे तु मधुमद्ये पुमानयम् ॥ १८०७ ॥
4.1807 · p. 204
अनुष्टुप्
दुग्धे फेने च रभसः प्रोक्तवाञ्छब्दवित्तमः ।शाण्डिल्यस्त्वृषिभेदे ना स्याद्विले पावकान्तरे ॥ १८०८ ॥
4.1808 · p. 205
अनुष्टुप्
शण्डिलस्य त्वपत्ये द्वे गोत्रे स्त्री तत्र शाण्डिली ।शारिका तु स्त्रियां शारीसंज्ञे पक्ष्यन्तरे तथा ॥ १८०९ ॥
4.1809 · p. 205
अनुष्टुप्
वाद्यवादनदण्डे च शाकटस्तु त्रि हिंसके ।शालेयस्तु पुमाञ्ज्ञेयो मिश्रेयासंज्ञभेषजे ॥ १८१० ॥
4.1810 · p. 205
अनुष्टुप्
चाणक्यमूलकेऽप्याह कश्चित् क्षेत्रे तु भेद्यवत् ।शाल्युद्भवोचिते क्ली तु चर्मपर्णीसमाह्वये ॥ १८११ ॥
4.1811 · p. 205
अनुष्टुप्
शार्ङ्गाष्ठं स्याल्लताभेदे शार्ङ्गाष्ठा तु स्त्रियामियम् ।प्रसिद्धे स्थावरे दासीषडश्रादिपदैरथ ॥ १८१२ ॥
4.1812 · p. 205
अनुष्टुप्
श्यामलोऽश्वत्थवृक्षे ना कार्ष्ण्ये च त्रि तु तद्वति ।श्यामिका मृगभेदे स्त्री श्यामला षोडशाङ्गुला ॥ १८१३ ॥
4.1813 · p. 205
अनुष्टुप्
श्वेतबिन्दुरिति प्रोक्तं लक्षणं तस्य सा तथा ।ज्ञेया हेममले ना तु श्यामाकाह्वयधान्यके ॥ १८१४ ॥
4.1814 · p. 205
अनुष्टुप्
श्यामकः शाकटस्तु स्यात् पुमान् पलशतात्मनः ।तुलासंज्ञस्य मानस्य विंशत्यात्मकभारके ॥ १८१५ ॥
4.1815 · p. 205
अनुष्टुप्
शाकटीनापराभिख्ये यत् तु मानं व्यवस्थितम् ।उक्ता(द्) दशगुणं तस्मात् तथा दशगुणं हि यत् ॥ १८१६ ॥
4.1816 · p. 205
अनुष्टुप्
तस्माच्च यद्दशगुणं तस्मिन् क्ली भेद्यवत् पुनः ।शकटेः शकटस्यापि सम्बन्धिन तथा स्मरेत् ॥ १८१७ ॥
4.1817 · p. 205
अनुष्टुप्
वाहके शकटस्याथ शाकटी स्त्रीति बुध्यताम् ।अर्थे निदानकारेण प्रयुक्ते शाकरस्तु ना ॥ १८१८ ॥
4.1818 · p. 205
अनुष्टुप्
वृषभे शक्वरीसंज्ञच्छन्दसि त्वेतदीरितम् ।क्ली त्रिस्तु शक्वरीयोगिन्यथ स्याच्छाम्बरं त्रिषु ॥ १८१९ ॥
4.1819 · p. 206
अनुष्टुप्
शम्बरेण हि सम्बद्धे शाम्बरी तु स्त्रियामियम् ।मायायामथ पुल्लिँङ्गः श्रावकः कण्ठजे गुणे ॥ १८२० ॥
4.1820 · p. 206
अनुष्टुप्
गायकानां गुणश्चायं यो दूराच्छ्रावयेद्ध्वनिम् ।स स्यात् त्रिस्तु भवेच्छ्रोतृश्रापयित्रोरथ द्वयोः ॥ १८२१ ॥
4.1821 · p. 206
अनुष्टुप्
व्याघ्रे सिंहे च शार्दूलो ना भागोत्तरवर्धिनाम् ।हिङ्वादीनां दशानां स्याच्चूर्णेऽथो पुंसि शाबरः ॥ १८२२ ॥
4.1822 · p. 206
अनुष्टुप्
लोध्रे क्ली त्वपराधे च पापे च शबरस्य तु ।सम्बन्धिान त्रि ना तु स्यान्मासि श्रावणिके तथा ॥ १८२३ ॥
4.1823 · p. 206
अनुष्टुप्metre not read in every lineimpossible sign sequence: सम्बन्धिान त्रिnearly अनुष्टुप्
श्रावणः श्रावणी तु स्त्री पौर्णमास्यां हि या भवेत् ।श्रवणाह्वयनक्षत्रयुक्ता तस्यां तथा भवेत् ॥ १८२४ ॥
4.1824 · p. 206
अनुष्टुप्
मुण्डीसंज्ञकभैषज्यस्तम्बेऽथ रभसोऽपठीत् ।दध्या(दि ? ली)संज्ञके वल्लिभेदेऽथ श्रवणस्य यत् ॥ १८२५ ॥
4.1825 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 द (syllables merged)
सम्बन्धि तत्र त्रिः शीतगुणे तु शिशिरः पुमान् ।त्रि तु तद्वति शैखाख्ये त्वृतुभेदे नृशण्डयोः ॥ १८२६ ॥
4.1826 · p. 206
अनुष्टुप्
शिखरोऽस्त्री गिरेः शृङ्गे वृक्षाग्रे रभसः पुनः ।पक्वदाडिमबीजाभमाणिक्यशकलेऽभ्यधात् ॥ १८२७ ॥
4.1827 · p. 206
अनुष्टुप्
पुलकेऽपि स एवाह भेद्यलिङ्गं तु बोधत ।वर्तुले यत् त्विदं प्रोक्तं कैश्चिच्छोभनवाचकः ॥ १८२८ ॥
4.1828 · p. 206
अनुष्टुप्
बुधैः शिखरशब्दोऽयमित्यसत् तदमूलकम् ।शिशुकस्तु द्वयोर्बाले शिंशुमारे तथैव च ॥ १८२९ ॥
4.1829 · p. 206
अनुष्टुप्
उलूपीसंज्ञके चापि जलजन्तौ पुमान् पुनः ।द्रुमभेदे स्त्रियां तु स्याच्छिशुका +++++ ॥ १८३० ॥
4.1830 · p. 207
अनुष्टुप्metre not read in every line
शिथिलं त्वदृढे त्रि स्याच्छिथिली तु स्त्रियामियम् ।वम्रिकासदृशे पिङ्गवर्णे कीटान्तरे भवेत् ॥ १८३१ ॥
4.1831 · p. 207
अनुष्टुप्
अयोमले तु शिङ्घाणं क्लीबलिङ्गं प्रतीयताम् ।नासामले तु स पुमान् शिखण्डस्तु पुमानयम् ॥ १८३२ ॥
4.1832 · p. 207
अनुष्टुप्
मयूरपिञ्छे स्त्री तु स्याच्छिखायां हि शिखण्ड्यसौ ।शिखण्डी तु द्वयोर्ज्ञेयो मयूरेऽपि च कुक्कुटे ॥ १८३३ ॥
4.1833 · p. 207
अनुष्टुप्
शिखण्डिनी तु स्त्री यूथ्यां गुञ्जायां च पुमान् पुनः ।कलायसंज्ञे धान्येऽपि रभसः प्रोक्तवानमुम् ॥ १८३४ ॥
4.1834 · p. 207
अनुष्टुप्
ऋषिभेदे क्वचिच्चापि पुरुषे भारतश्रुते ।शिखण्डवति तु त्रि स्याच्छिखरी तु पुमान् गिरौ ॥ १८३५ ॥
4.1835 · p. 207
अनुष्टुप्
अपामार्गसमाख्ये च स्तम्बे रभस उक्तवान् ।तरौ च स्त्री तु विज्ञेया छन्दस्यत्यष्टिसंज्ञके ॥ १८३६ ॥
4.1836 · p. 207
अनुष्टुप्
वृत्तभेदे शिखरिणी मार्जितासंज्ञके तथा ।संस्कृते तक्रभेदे स्याच्छीतकस्त्वलसे त्रिषु ॥ १८३७ ॥
4.1837 · p. 207
अनुष्टुप्
ज्वालाभेदे शीतिका स्त्री शीकरस्तु पुमानयम् ।वाताद्य(स्ते) स्नेह(कणे) हस्त्यायुर्वेदिनः पुनः ॥ १८३८ ॥
4.1838 · p. 207
metre not recognised
हस्तिहस्तसमुद्भूतदानवारिण्यधीयते ।गुणे च शवले शीतगुणे च स्यात् त्रिषु त्वयम् ॥ १८३९ ॥
4.1839 · p. 207
अनुष्टुप्
गुणयोरेतयोरेकयुक्ते स्याच्छीतलस्तु ना ।चम्पकाख्ये पुष्पतरौ तथा शीतगुणे त्रि तु ॥ १८४० ॥
4.1840 · p. 207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
तद्वत्यथ स्त्रियां रक्तवर्णायां गवि शीतला ।श्रीफलस्तु पुमान् बिल्वे श्रीफली तु स्त्रियामियम् ॥ १८४१ ॥
4.1841 · p. 207
अनुष्टुप्
नील्याख्यायामोषधौ स्यादामलक्यां तु शब्दवित् ।रभसोऽथ श्रीधनः स्याद् बुद्धे ना क्ली तु दध्न्यदः ॥ १८४२ ॥
4.1842 · p. 208
अनुष्टुप्
श्रीपर्णं त्वग्निमन्थाख्यस्थावरे कमले च नप् ।श्रीपर्णी तु स्त्रियां वृक्षे कार्ष्मर्ये कट्फलेऽपि च ॥ १८४३ ॥
4.1843 · p. 208
अनुष्टुप्
शीर्षण्यं तु शिरस्त्राणे योधानां शीर्षकाह्वये ।केशे तु विशदे त्रि स्यान्मुख्ये मूर्धभवेऽपि च ॥ १८४४ ॥
4.1844 · p. 208
अनुष्टुप्
अवैदिकास्तु शब्दज्ञम्मन्याः केचिदधीयते ।तालव्योष्मादिरस्त्रीति शु(षु ? षि)रध्वनिरस्य ते ॥ १८४५ ॥
4.1845 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अर्थे वदन्ति विवरं रभसस्तु नखाह्वये ।भेषजेऽप्यपठीद्वाद्यभेदे त्वजय उक्तवान् ॥ १८४६ ॥
4.1846 · p. 208
अनुष्टुप्
पाशादिके छिद्रयुक्ते पुनस्त्रिरिति चोक्तवान् ।एतच्चासाम्प्रतं यस्मात् (तालव्योष्मादिरेव ?) हि ॥ १८४७ ॥
4.1847 · p. 208
metre not recognised
वैदिका अनुमन्यन्ते तस्य चार्थाः पृथक् कृताः ।शुनकस्वृषिभेदे ना शुनि द्वे (तु नृलिङ्गकः ?) ॥ १८४८ ॥
4.1848 · p. 208
अनुष्टुप्metre not read in every line
मर्त्यजात्यन्तरे विप्राच्छूद्रायां व्यभिचारतः ।जाते शूलवति त्वेतत् त्रिरथो शृङ्खला त्रयी ॥ १८४९ ॥
4.1849 · p. 208
अनुष्टुप्
कटिसूत्रे भवेत् पुसां पादबन्धनवस्तुनि ।अपि स्याद्दन्तिनां ना तु शृङ्गारः स्याद्रसान्तरे ॥ १८५० ॥
4.1850 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 पु (wrong syllable)
नवानां नाट्यविख्यातरसानामुज्ज्वलाह्वये ।गजमण्डनभेदे च क्लीबं तु रभसोऽपठीत् ॥ १८५१ ॥
4.1851 · p. 208
अनुष्टुप्
लम्पटे चापि सिन्दूरचूर्णे चाथ नपुंसकम् ।शृङ्गाटं यन्त्रभेदे च योधानां स्याच्चतुष्पथे ॥ १८५२ ॥
4.1852 · p. 208
अनुष्टुप्
पुल्लिँङ्गं तु विजानीयात् स्तम्बे सलिलसम्भवे ।दन्तबीज इति ख्याते शृङ्गारी तु पुमानयम् ॥ १८५३ ॥
4.1853 · p. 209
अनुष्टुप्
पूगवृक्षे सुवेषे तु त्रिरथो श्लेष्मलः पुमान् ।गोधूमधान्ये त्रिषु तु श्लेष्मवच्छ्लेष्मकारिणोः ॥ १८५४ ॥
4.1854 · p. 209
अनुष्टुप्
श्लेष्मघ्नी तु स्त्रियामुक्ता पिण्यामल्ल्योर्मनीषिणा ।रभसेन त्रिषु त्वेष श्लेष्मणो हन्तरि स्मृतः ॥ १८५५ ॥
4.1855 · p. 209
अनुष्टुप्
शैलूषस्तु नटे द्वे स्यात् कितवे च पुमान् पुनः ।शण्डजातौ च बिल्वे च शैशवं तु नपुंसकम् ॥ १८५६ ॥
4.1856 · p. 209
अनुष्टुप्
शिशुत्वेऽप्युभयोः साम्नोरुच्चतागीतयोस्त्रि तु ।शिशुसम्बन्धिनि क्ली तु शैलेयं तार्क्ष्यशैलके ॥ १८५७ ॥
4.1857 · p. 209
अनुष्टुप्
कालानुसार्यसंज्ञे च धातुभेदे तथैव तत् ।सिन्धूत्थलवणे द्वे तु मधुपे स्यात् त्रिषु त्वतः ॥ १८५८ ॥
4.1858 · p. 209
अनुष्टुप्
शैवली शैवलवति स्त्री तु शैवलिनी धुनौ ।शैलाटस्तु द्वयोः सिंहे किराते च पुमान् पुनः ॥ १८५९ ॥
4.1859 · p. 209
अनुष्टुप्
देवले शुक्लकाचे च रभसेनेदमीरितम् ।अथ क्ली शोभनं हेम्नि धातोरर्थे च शोभ(ने ? तेः) ॥ १८६० ॥
4.1860 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
त्रि तु स्यात् सुन्दरे क्ली तु शोधनं शुद्धिकर्मणि ।अना तु शोधयत्यर्थे शोधना ना तु शोधनः ॥ १८६१ ॥
4.1861 · p. 209
अनुष्टुप्
अङ्कोलवृक्षे स्त्री तु स्यात् सम्मार्जन्यां हि शोधनी ।त्रिस्तु स्यात् साधने शुद्धेः शोषकस्तु पुमानयम् ॥ १८६२ ॥
4.1862 · p. 209
अनुष्टुप्
वास्तुदेवविशेषे स्यात् कोष्ठश्रेणौ हि पश्चिमे ।आरभ्य दक्षिणात् कोष्ठात् कोष्ठे तिष्ठति सप्तमे ॥ १८६३ ॥
4.1863 · p. 209
अनुष्टुप्
यस्तत्र त्रिः पुनः शोष्ट्टशोषयित्रोरथो पुमान् ।करञ्जभेदे षड्ग्रन्थः पङ्ग्रन्था तु स्त्रियामियम् ॥ १८६४ ॥
4.1864 · p. 209
अनुष्टुप्
भेषजे पिप्पलीमूलसंज्ञे स्यादपरे पुनः ।आहुः शुक्लवचायां तां वचामात्रे परे विदुः ॥ १८६५ ॥
4.1865 · p. 210
अनुष्टुप्
शठ्यां चाथ षडश्रा स्त्री स्यादागलकपादपे ।प्रसिद्धे चापि शार्ङ्गाष्ठादासीप्रभृतिभिः पदैः ॥ १८६६ ॥
4.1866 · p. 210
अनुष्टुप्
स्थाव(रैः स्री ? रे त्रि) तु षट्कोणे षाडवस्तु पुमानयम् ।गतिप्रभेदे स्यादम्लमधुरोन्मिश्रिते रसे ॥ १८६७ ॥
4.1867 · p. 210
अनुष्टुप्metre not read in every line
एतद्रससमायुक्तं यत् तत्रायं त्रिषु स्मृतः ।षाण्मासी तु स्त्रियां श्राद्धे कर्तव्ये मासि सप्तमे ॥ १८६८ ॥
4.1868 · p. 210
अनुष्टुप्
प्रेतस्य त्रि तु सम्बद्धे षण्मास्याः पाष्ठिकं तु नप् ।व्रतभेदे षष्ठकालभोजने च प्रवर्तते ॥ १८६९ ॥
4.1869 · p. 210
अनुष्टुप्
भेद्यवत् तु क्रतुहृतषष्ठाहभववस्तुनि ।सर्वज्ञो ना महादेवे बुद्धेऽप्येकेऽथ भेद्यवत् ॥ १८७० ॥
4.1870 · p. 210
अनुष्टुप्
सर्ववेदिन्यथो पुंसि समयो नपि चापरे ।सङ्केताचारसिद्धान्तकालेषु शपथे तथा ॥ १८७१ ॥
4.1871 · p. 210
अनुष्टुप्
क्रियाकारे चाजयस्तु ब्रूते निर्देशसम्पदोः ।भाषायां च वयं त्वेनं ब्रूमहे सङ्गमे नरि ॥ १८७२ ॥
4.1872 · p. 210
अनुष्टुप्
सङ्गरस्तु प्रतिज्ञायां क्रियाकारे च नापदि ।युद्धे विषे तु रभसः क्लीबं तु स्याच्छमीफले ॥ १८७३ ॥
4.1873 · p. 210
अनुष्टुप्
सगरस्तु पुमान् पूर्वराजभेदे नपि त्वदः ।व्योम्नि त्रिर्गरलेन स्यात् सहितेऽथ नृलिङ्गकः ॥ १८७४ ॥
4.1874 · p. 210
अनुष्टुप्
सन्नाह्यः कुञ्जरे युद्धयोग्येऽथो भेद्यलिङ्गकः ।सन्नद्धव्ये स्पन्दनं तु क्ली किञ्चिच्चलनेऽथ ना ॥ १८७५ ॥
4.1875 · p. 210
अनुष्टुप्
तिमिशाख्यद्रुमे क्ली तु स्यन्दनं स्रवणे जले ।रथे तु ना स्यन्दनी तु स्त्रीलिङ्गा स्याद्ग्रहभ्रमे ॥ १८७६ ॥
4.1876 · p. 210
अनुष्टुप्
स्पर्शनं तु नपि स्पृष्टौ दाने च प(त ? व)ने तु ना ।अना तु स्पर्शयत्यर्थे स्पर्शना परिकीर्तिता ॥ १८७७ ॥
4.1877 · p. 211
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सर्गकं त्वतिबाले स्याद् (बध्नी ? दध्नि) यत्रोप्तमात्रकम् ।संयावनं तत्र भेद्यलिङ्गं तु स्रष्टरि स्मृतम् ॥ १८७८ ॥
4.1878 · p. 211
metre not recognisednearly अनुष्टुप्
अथात्र रभसः प्राह पुल्लिँङ्गे वचनं यथा ।नालिकेरस्य सस्याभमणौ खङ्गे च सस्यकः ॥ १८७९ ॥
4.1879 · p. 211
अनुष्टुप्
भागवृत्तिकृता तूक्तं सस्यसम्पन्नवस्तुषु ।व्रीहिशाल्यादिकेष्वेव स्थावरेप्वत्र भेद्यवत् ॥ १८८० ॥
4.1880 · p. 211
अनुष्टुप्
यत् त्विदं गुणसम्पन्ने जयादित्येन भाषितम् ।अतिलोकतया तस्य विरसत्वादुपेक्षितम् ॥ १८८१ ॥
4.1881 · p. 211
अनुष्टुप्
संहितं तु त्रि संश्लिष्टे संहिता तु स्त्रियामियम् ।शास्त्रग्रन्थजातिभेदे वेदभागेऽपि च क्वचित् ॥ १८८२ ॥
4.1882 · p. 211
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्थ (wrong syllable)
अतीव सन्निकर्षे च वर्णानां क्ली तु सामनि ।षष्ठे च नवमे चैव स्वादिष्ठावर्गगीतके ॥ १८८३ ॥
4.1883 · p. 211
अनुष्टुप्
सप्तकस्तु पुमान् सङ्घे सप्तानां क्ली तु सप्तकम् ।मृगयाक्षादिषु स्त्री तु सप्तकी काञ्चिदामनि ॥ १८८४ ॥
4.1884 · p. 211
अनुष्टुप्
सप्तमं तु त्रि सप्तानां पूरणे सप्तमी पुनः ।स्यात् सप्तमविभक्तौ च दुर्गादेव्यास्तिथावपि ॥ १८८५ ॥
4.1885 · p. 211
अनुष्टुप्
सङ्कोचने तु सङ्कोचः पुमान् क्लीबं तु कुङ्कुमे ।सम्बाधस्तु भगे स्त्रीणां पुमान् मेढ्रे च सज्जनः ॥ १८८६ ॥
4.1886 · p. 211
अनुष्टुप्
कारायां सङ्कटेऽन्ये तु सङ्कटे त्रिषु मन्वते ।संस्कृतं त्वाहितोत्कर्षे कृत्रिमे निर्मलीकृते ॥ १८८७ ॥
4.1887 · p. 211
अनुष्टुप्
त्रिषु स्याल्लक्षणोपेते भाषाभेदे तु पण्डिताः ।नपुंसकं विजानन्ति संसर्पस्तु पुमानयम् ॥ १८८८ ॥
4.1888 · p. 212
अनुष्टुप्
अहीनक्रतुभेदे स्यात् संसृप्तौ च नपि त्वदः ।महासर्पसमाख्येषु सामसु स्याद्दशस्वपि ॥ १८८९ ॥
4.1889 · p. 212
अनुष्टुप्
सञ्जयस्तु पुमाञ्ज्ञेयः पुरुषे भारतश्रुते ।क्लीबं तु सामभेदे स्यादिन्द्रन्नरऋचि स्थिते ॥ १८९० ॥
4.1890 · p. 212
अनुष्टुप्
विश्वाधनानीत्यारभ्य तथाहीनमखान्तरे ।सहस्रं पुनरस्त्री स्याच्छतानां दशके भवेत् ॥ १८९१ ॥
4.1891 · p. 212
अनुष्टुप्
बहुन्यपि सहायस्तु द्वे सख्यौ त्रि तु सेवके ।सर्वौघस्तु पुमान् राज्ञां सर्वसन्नहनेऽथ नप् ॥ १८९२ ॥
4.1892 · p. 212
अनुष्टुप्
मधुभेदे समासानां भेदाल्लिङ्गादि योजयेत् ।समङ्गस्तु त्रि मङ्गेन सहितेऽथ नृलिङ्गकः ॥ १८९३ ॥
4.1893 · p. 212
अनुष्टुप्
प्राणिद्यूते समङ्गा तु स्त्री नमस्कारिकाह्वये ।आनूपवल्लिस्तम्बे स्यात् क्षुद्रेऽथ सचिवः पुमान् ॥ १८९४ ॥
4.1894 · p. 212
अनुष्टुप्
मन्त्रिणि स्यात् सहाये च चेटे चेत्यथ संवृतम् ।क्लीबं संवरणे वर्णधर्मभेदे च तत् त्रि तु ॥ १८९५ ॥
4.1895 · p. 212
अनुष्टुप्
तद्वतिच्छादिते चाथ सवत्तं क्लीबलिङ्गकम् ।सोमाभिषवणे स्नाने काण्डेऽथो शाकटायनः ॥ १८९६ ॥
4.1896 · p. 212
अनुष्टुप्
आह कालविशेषेऽमुं स्यात् प्रातः सवनादिषु ।यज्ञस्य ना तु यागेऽथ वनेन सहिते त्रिषु ॥ १८९७ ॥
4.1897 · p. 212
अनुष्टुप्
संहारो नरकस्य स्याद् भेदे संहरणे च ना ।स्यान्महाप्रलये चाथ स्त्री संहारी कर ++ ॥ १८९८ ॥
4.1898 · p. 212
अनुष्टुप्metre not read in every line
सरकोऽस्त्री मणौ शीथुपाने चषकशीथुनोः ।भेद्यवत् तु भवेत् साधु सर्तर्यथ सगोत्रवाक् ॥ १८९९ ॥
4.1899 · p. 213
अनुष्टुप्
एकगोत्रे द्वयोस्त्रिस्तु गोत्रेण सहितेऽथ नप् ।सहजं स्यात् स्वभावे क्लीपुंस्येनं रभसोऽभ्यधात् ॥ १९०० ॥
4.1900 · p. 213
अनुष्टुप्
सहोत्पन्ने विजानीयात् सग(र्ह्यं ? र्भ्यं) चापि भेद्यवत् ।अथात्र धीरैः सन्दष्टशब्दः पुंसि प्रकीर्तितः ॥ १९०१ ॥
4.1901 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गाथकानां कण्ठदोषभेदे सम्मिश्ररूपके ।त्रिस्तु सन्दंशनस्य स्यात् कर्मभूते तथैव च ॥ १९०२ ॥
4.1902 · p. 213
अनुष्टुप्
यमकस्य प्रभेदे च सरटस्तु द्वयोरयम् ।कृकलासे स्त्रियां तु स्यात् सरटी नीलिकाह्वये ॥ १९०३ ॥
4.1903 · p. 213
अनुष्टुप्
लोहभेदेऽथ सरलः पूतिकाष्ठाह्वयद्रुमे ।पुमान् विदग्धे तु त्रि स्यादृजौ च प्रियवादिनि ॥ १९०४ ॥
4.1904 · p. 213
अनुष्टुप्
पुनर्हर्षः समाचष्टे सरण्डस्तु पुमानयम् ।तृणानां समवायेऽथ कृमिजात्यन्तरे द्वयोः ॥ १९०५ ॥
4.1905 · p. 213
अनुष्टुप्
स्तम्बजं तु क्लीबलिङ्गमुशीरे भेद्यवत् पुनः ।स्तम्बजातेऽथ पुंसि स्यात् स्रवणः कतकाह्वये ॥ १९०६ ॥
4.1906 · p. 213
अनुष्टुप्
वृक्षे क्ली तु स्रुतौ क्ली तु सलज्जं स्यात् सुगन्धिके ।स्तम्बे दमनकाख्ये स्याल्लज्जावति तु भेद्यवत् ॥ १९०७ ॥
4.1907 · p. 213
अनुष्टुप्
समुद्रस्तु पुमानब्धौ छन्दस्युत्कृतिसंज्ञके ।आकाशे च तथा सङ्ख्याभेदे चैवंविधः स च ॥ १९०८ ॥
4.1908 · p. 213
अनुष्टुप्
शताद्दशगुणं या स्यात् सङ्ख्या यत्र त्रयोदश(?) ।शाश्वतस्तु नपि प्राह समुद्रं देहलक्षणे ॥ १९०९ ॥
4.1909 · p. 213
अनुष्टुप्
त्रिस्तु स्यान्मुद्रया युक्ते समुद्गस्तु पुमानयम् ।सम्पुटे त्रिस्तु सहिते मुद्गेनाथ नपुंसकम् ॥ १९१० ॥
4.1910 · p. 214
अनुष्टुप्
शरस्यारोपणे चापे सन्धानं काञ्जिकादिनः ।अभिषुत्यां काञ्जिके च श्लेषणे चाथ सा स्त्रियाम् ॥ १९११ ॥
4.1911 · p. 214
अनुष्टुप्
सन्धानी रूप्यशालायां वार्ताक्याश्च तथान्तरे ।गिरिप्रियासमाख्येऽथ भेद्यवत् सन्धिसाधने ॥ १९१२ ॥
4.1912 · p. 214
अनुष्टुप्
समानस्तु पुमान् वायुभेदे देहान्तरस्थिते ।त्रिस्तु साध्वेकतुल्येषु मानेन सहिते तथा ॥ १९१३ ॥
4.1913 · p. 214
अनुष्टुप्
सज्जनस्तु पुमान् साधौ कुलीने भेद्यलिङ्गकम् ।क्लीबं तु रभसो ब्रूत उपरक्षणघट्टयोः ॥ १९१४ ॥
4.1914 · p. 214
अनुष्टुप्
स्त्रियां तु सज्जना हस्तिकल्पनायामथो पुमान् ।सर्षपस्त्वोषधीभेदे तुन्तुभाख्ये स्त्रियां पुनः ॥ १९१५ ॥
4.1915 · p. 214
अनुष्टुप्
सर्षपी फलिनीसंज्ञवृक्षे व्याध्यन्तरे तथा ।स्वस्तिकस्तु पुमान् गेहवास्तुविन्यसनान्तरे ॥ १९१६ ॥
4.1916 · p. 214
अनुष्टुप्
त्रिकोणसंज्ञके चापि स्त्रीणां स्याद्भूषणान्तरे ।सुनिषण्णाह्वये शाकस्तम्बे पङ्कसमुद्भवे ॥ १९१७ ॥
4.1917 · p. 214
अनुष्टुप्
द्वे तु चाषसमाख्ये स्यात् पक्षिभेदेऽथ पुंस्ययम् ।स्वरितः स्वरभेदे स्यादुच्चनीचद्वयात्मके ॥ १९१८ ॥
4.1918 · p. 214
अनुष्टुप्
त्रि तु तद्वत्यपि स्याच्च स्वर्गते स्व(रस?सर)स्तु ना ।भ्रातरि क्ली तु दिवसे गेहे चाथ द्वयोरयम् ॥ १९१९ ॥
4.1919 · p. 214
अनुष्टुप्metre not read in every line
सवर्णो ब्राह्मणाज्जाते क्षत्त्रियायां विवाहतः ।मर्त्यजात्यन्तरे त्रिस्तु मर्त्ये स्यादेकवर्णके ॥ १९२० ॥
4.1920 · p. 214
अनुष्टुप्