कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

छन्दस्

chandasक्ली · neut.

In 18 kośas: 34 synonym verses, 13 as a nānārtha head word, 33 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.249 · p. 15
स्वाध्यायः श्रुतिराम्नायश्छन्दो वेदस्त्रयी पुनः ।ऋग्यजुःसामवेदाः स्युरथर्वा तु तदुद्धृतिः ॥ २४९ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.155 · p. 15
शिक्षा कल्पो व्याकरणं छन्दो ज्योतिर्निरुक्तयः ॥ २५० ॥षडङ्गानि धर्मशास्त्रं स्यात्स्मृतिर्धर्मसंहिता ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable)
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.24 · p. 52
छन्दोऽभिप्राय आकूतं मतभावाशया अपि ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.115 · p. 55
औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा ।कक्षोपमानमर्चा तु प्रतेर्मा यातना निधिः ॥ १४६३ ॥छाया छन्दः कायो रूपं बिम्बं मानकृती अपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.22
गायत्रीप्रमुखं छन्दो हव्यपाके चरुः पुमान् ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.9 · p. 2
वेदः श्रुतिस्तथाम्नायः स्वाध्यायश्छन्द आगमः ।वेदान्तश्च रहस्यं च बुधैरुपनिषन्मता ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चमोपदेशः Bālaprabodhikā 5.81 · p. 73
अथर्वणेति वेदे तु पुरोहितमितीर्यते ।वेदाश्चत्वार एवन्तच्छन्दो ब्रह्मविनिर्मितम् ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चमोपदेशः Bālaprabodhikā 5.82 · p. 73
विद्याश्चतुर्दश प्रोक्ता शिक्षा व्याकरणं ततः ।कल्पो निरुक्तं छन्दश्व ज्योतिषामयनं मतम् ।वेदाङ्गान्यङ्गिभिश्च स्यात् स्मृत्यान्वयगणेन च ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.91 · p. 78
सा तु प्राविसमत्युद्भ्यः स्युश्छन्दांस्येकविंशतिः ।स्त्रियां पङ्क्तिः सैव विराट् त्रिष्टुप् तृष्टुबुभे समे ॥ ९१ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.107 · p. 246
परिक्रिया परीसर्पो विधुरम् विकले त्रिषु ।आकूतच्छन्दसी छन्दभावौ यत्तूपमन्त्रणम् ॥ १०७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.33 · p. 442
निगमश्च पुनः क्लीबे छन्दो ब्रह्माथ बह्वृचः ।ऋग्वेदः पुंस्यथ क्लीबे यजुः सामापि न द्वयोः ॥ ३३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.36 · p. 442
छन्दो नासा दृक् श्रुतिश्च हस्तौ वदनमित्यपि ।पादौ श्रुतेस्तदर्थानि शाखाभेदः पुनश्च षण् ॥ ३६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.31 · p. 4
प्रमादोऽनवधानत्वं पुंस्याधिः स्यान्मनोव्यथा ।अभिप्रायाशयच्छन्दा आकूतच्छन्दसी मतम् ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.67 · p. 60
ओंकारो वेदादिः प्रणवो वेदस्त्वृषिर्निगमः ।आम्नाय-स्वाध्यायागमाः श्रुतिः[39a] छन्दः ॥ ६७ ॥
metre not recognised
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.82 · p. 63
शिक्षा कल्पश्छन्दो व्याकरणं ज्योतिषं निरुक्तं च ।[41a] वेदाङ्गान्यथ शिक्षां पठन्विदन्भवति शिक्षकस्त्रितये ॥ ८२ ॥
गीतिः
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.94 · p. 65
ओजं स्याद्विषमं स्थानं युक्समं समुदीर्यते ।प्रस्तारः स्यात्कलान्यासः छन्दो वृत्तं नपुंसके ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.
सुमनस् अप्सरस् इत्येताभ्यां विरहितमुज्झितमित्यर्थः । अस् अन्ते यस्य तदिदमसन्तं पुंसि भवेदित्यर्थः । अयमङ्गिराः चन्द्रमाः स्थूलशिराः । पुरूरवाः उच्चैःश्रवाः दुर्वासाः पृथुयशा इत्यादयः । सुमनसोऽप्सरसश्च स्त्र्यधिकारात्स्त्रियां प्रवृत्तिः । इमाः सुमनसः कुसुमानि । इमा अप्सरसो देवस्त्रियः । द्व्यच्कमसन्तं नपुंसकं भवति । इदमोजः तेजः वर्चः शिरः यशः छन्दः श्रोतः चेतः पयः तपः अम्भः । जरस्शब्दस्यापि नपुंसकता स्यादित्यत आहान्यत्र वै जरसः । नपुंसकात्प्रकृताच्च पुंल्लिङ्गादन्यस्मिन् जरस् शब्दो भवति । स्त्रियाम् । इयं जरा वृद्धभावः ।पुंसि क्षुरखुरबिन्द्विक्षुपायुमणिकीलकेलिबलयः ।निघसङ्घोद्घोपघ्नौघविघ्नघर्मार्घवर्णाश्च ॥ २५ ॥
metre not recognisedimpossible sibilant cluster: जरस्शब्दस्यापि
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.169 · p. 26
धर्मशास्त्रं स्मृतिः शिक्षा कल्पो व्याकरणं तथा ।ज्योतिश्छन्दो निरुक्तिश्च षडङ्गानि यथाक्रमम् ॥ १६९ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.20 · p. 4
छन्दः शिक्षा व्याकरणं निरुक्तं ज्योतिषं तथा ।कल्पश्चेति प्रणीतानि वेदाङ्गानि महात्मभिः ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.162 · p. 46
स्यादुरःसूत्रिका चाथ छन्दः शतसरे पुमान् ।द्वात्रिंशत्सरहारे तु गुच्छ इत्यभिधीयते ॥ १६२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.144 · p. 33
ऋग्वेदश्च यजुर्वेदः सामवेदोऽप्यथर्वणः ।शिक्षा कल्पो व्याकरणं छन्दोज्योतिर्निरुक्तयः ॥ १४४ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.359 · p. 47
वेदानां पञ्चनामानि स्वाध्यायश्च श्रुतिस्तथा ।आम्नायो नाम विख्यातं छन्दो वेदस्त्रयी पुनः ॥ ३५९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.362 · p. 47
षडङ्गानि तु वेदस्य शिक्षा च कल्पसंज्ञकः ।व्याकरणं तथा छन्दो ज्योतिर्निरुक्तिरेव च ॥ ३६२ ॥
metre not recognised
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2513 · p. 407
अभिप्रायस्तथा भाव आकूतमाऽऽशये मतम् ।छन्दश्चेति हि नामानि मन्यन्ते विदुषां गणे ॥ २५१३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.352 · p. 25
वेद आम्नायनिगमौ छन्दो ब्रह्म श्रुतिः स्त्रियाम् ।अथ वेदविधिर्यः स्यात् त्रयीधर्मस्तु स स्मृतः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.354 · p. 25
च्छन्दश्चेति षडङ्गानि वेदानां वैदिको विदुः ।वेदादिः प्रणवो ब्रह्माक्षर उङ्कार ईरितः ।अथेतिहासो व्यासादिरचितो भारतादिकः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.44 · p. 113
गायत्री जगती त्रिष्टुवनुष्टुवुष्णिगादिकम् ।च्छन्दश्च्छन्दोविशेषाः स्युरुक्थ उक्थादयः परे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्टु (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.9 · p. 250
कल्मषमभिप्राये तु छन्दो ना छन्दसा षणा ।चतुरश्चतुरको द्वौ नेत्रगोचर ईरितौ ॥ ९ ॥
metre not recognised
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.15 · p. 3
ओंकारः प्रणवो ब्रह्मच्छन्दसी तु श्रुतिस्त्रयी ।निगमो वेद आम्नाय आगमानुश्रवावपि ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.17 · p. 3
उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः ।ज्योतिषं व्याकृतिः शिक्षा कल्पश्छन्दो निरुक्तकम् ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1227 · p. 150
छन्दांसि गायत्र्यादीनि कुण्डी त्वस्त्री कमण्डलुः ।ज्ञानमाद्यमुपज्ञा स्यात् परमान्नं तु पायसम् ॥ १२२७ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव धीवर्गः Trikāṇḍaśeṣa 1.5.2 · p. 20
वाचा छन्दस्तु निगमः साम्न्युक्थं स्वरपत्तनम् ।ब्रह्माक्षरं स्यादोंकारः प्रश्नदूती प्रहेलिका ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.27 · p. 85
आथर्वणं पौरोहितं वेदाश्चत्वार एव ते ।छन्दो ब्रह्म श्रुतिर्वेदोऽप्यथ विद्याश्चतुर्दश ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रो (wrong syllable)
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.28 · p. 85
शीक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।ज्योतिषामयनं चेति वेदांगान्यंगिभिः सह ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.452
छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास सार्धश्लोकः Dharaṇikośa 31.2.7 · p. 221
ओजो बलमवष्टम्भ ओजो रश्मिप्रकाशयोः ।छन्दः पद्ये च वेदे च छन्दश्छन्दानुवर्तनम् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ सान्ताः Koṣakalpataru 6.31.99 · p. 381
विष्णौ बुधे ब्रह्मणि चाथ पापे-ऽपराध आगोऽथ पुरीषदीप्त्योः ।रूपेऽपि वर्चोऽथ सुधांशुपुत्रेपुमांश्च वेदे त्वभिलाषके च ॥ ९९ ॥
उपजातिः
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ सान्ताः Koṣakalpataru 6.31.100 · p. 381
छन्दो यदृच्छाचरणे च पद्य-भेदेऽप्यदन्तस्तु पुमान्समार्थः ।एनोऽपराधे कलुषे मन[89b]स्तुचित्ते धियां पुंसि भवेन्न रोदः ॥ १०० ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 10 न (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.52 · p. 25
वृक्षपत्रेऽप्यथच्छन्दो वंशेऽभिप्रायवाञ्छयोः ।ज्वरस्तु व्याधिमात्रे च हरकोपसमुद्भवे ॥ ५२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.23 · p. 35
भृङ्गाख्यगन्धद्रव्येऽथच्छद्मस्खलितयोश्छलम् ।छन्दः श्रुतीच्छापद्येषु सामगानां विशेषके ॥ २३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.24 · p. 35
अनूहसामग्रन्थेऽथच्छद्म सद्मनि कैतवे ।छदिस्तु पटले गेहे जन्म तूत्पत्तितोययोः ॥ २४ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास छकारादयः Paramānandīyanāmamālā 5.12.190 · p. 186
छिद्रं व्याजे बिले गर्ते छन्दोऽभिप्रायतन्त्रयोः ।श्रुतौ पद्येच्छयोश्चापि छाया बिम्बार्कयोषयोः ॥ १९० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश दान्ताः Śabdaratnāvalī 7.18.2 · p. 228
अब्दः सम्वत्सरे मेघे युस्तके च पयोनिधौ ॥अन्दूर्भूषणभेदे स्यान्निगडेऽपि भवेत् स्त्रियाम् ।कन्दोऽस्त्री शस्यमूले स्याच्छूरणे जलदे पुमान् ॥कुन्दो मुकुन्दे निधिभिद्भूमिष्वस्त्री तु माथ्यके ।क्षोदः स्यात्पेषणे पुंसि सन्धाने च रजस्यपि ॥गदो विष्णुभ्रातरि स्याद्व्याधौ ना चायुधे गदा ।छदः पक्षे च पत्रे च ग्रन्थिपर्णे तमालके ॥छन्दोऽभिप्रायवशयोर्वेदकिन्यामनीषयोः(?) ।नन्दिर्ना नन्दिकेश्वरद्युताङ्गानन्दयोरपि ॥नदी स्त्रियान्तु सरिति शोणादौ नदः पुमान् ।नन्दाहलिञ्जरगोर्योस्तु तिथिभेदेऽपि च स्त्रियाम् ॥पुमान्नरपतौ गोपभेदानन्दनिधिष्वपि ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 श्व (wrong syllable)nearly अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1923 · p. 234
छन्दः पद्यश्रूतीच्छासु च्छद्म सद्मनि कैतवे ।छिद्रं तु रन्ध्रावसरापदेशेष्वथ संहतौ ॥ १९२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्रू (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.445 · p. 250
तैजसे कंस्यपात्रे च गुत्सः स्तबकहारयोः ।छन्दः पद्यश्रुतीच्छासु तरो वेगे बलेऽपि च ॥ ४४५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.24 · p. 216
वशाभिप्राययोश्छंदो जूर्णी रविहविर्भुजौ ।टंकौ प्रमाणगर्वौ च डिंबः प्लीहखगांडयोः ॥ २४ ॥
अनुष्टुप्
doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 6.3.9 · p. 224
छन्दः श्रुतीच्छापद्येषु च्छिद्रं रंध्रापराधयोः ।जालं गवाक्ष आनाये क्षारके कपटे गणे ॥ ९ ॥
अनुष्टुप्

छन्दस् as a meaning in nānārtha verses