कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हर्षुल

harṣulaवि · adj.

In 3 kośas: 1 synonym verse, 3 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.63 · p. 7
आद्यूनः स्यादौदरिक उदरे प्रसितो हि यः ।भवन्ति पात्रेसमिताः भोक्तुमेव क्षमा हि ये ॥उदुम्बरकृमिः स स्याद्य उदुम्बरजन्तुवत् ।कामुकः कमिता कम्रोऽनुकः कामयिताभिकः ॥कामनः कमनः कामी कमराभीक-रामिलाः ।हर्षुलः पञ्चभद्रस्तु व्यसनी विप्लुतोऽपि सः ॥ ६३ ॥
अनुष्टुप्
genderविadj.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.2022 · p. 223
त्रिः पुनः कपिलाक्षेऽथ ह(र्ष ? र्षु)लो ना बुधग्रहे ।द्वे पुनः शिल्पिनि मृगे भेद्यलिङ्गं तु कामिनि ॥ २०२२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.2023 · p. 223
हर्षशीले हासशीले हरणं तु नपुंसकम् ।नाट्यप्रसिद्धे करणसंज्ञे चेष्टान्तरे तथा ॥ २०२३ ॥
अनुष्टुप्
doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.94 · p. 264
सुकृतं शोभने धर्मे हर्षुलो मृगकामिनोः ।