कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मृग

mṛgaपुं · masc.

In 24 kośas: 57 synonym verses, 12 as a nānārtha head word, 76 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.48 · p. 5
वृषो गजोऽश्वः प्लवगः क्रौञ्चोऽब्जं स्वस्तिकः शशी ।मकरः श्रीवत्सः खड्गी महिषः सूकरस्तथा ॥ ४७ ॥श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोऽपि च ।कूर्मो नीलोत्पलं शङ्खः फणी सिंहोऽर्हतां ध्वजाः ॥ ४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.109 · p. 8
मृगशीर्षं मृगशिरो मार्गश्चान्द्रमसं मृगः ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1218 · p. 47
भद्रो मन्द मृगो मिश्रश्चतस्रो गजजातयः ॥ १२१८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.108 · p. 49
मृगः कुरङ्गः सारङ्गो वातायुहरिणावपि ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.8
मृगे कुरङ्गवातायुहरिणाजिनयोनयः ।ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.55
संवीक्षणं विचयनं मार्गणं मृगणा मृगः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.44 · p. 6
चन्द्रिका कौमुदी ज्योत्स्ना तथा चन्द्रातपः स्मृतः ।मण्डलं बिम्बमाख्यातं हृदये लाञ्छनं मृगः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.215 · p. 26
भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः ।वनप्रचारसारूप्यसत्त्वभेदोपलक्षिताः ॥ २१५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.230 · p. 28
एणः कुरङ्गो हरिणो मृगः स्यात्सारङ्ग ऋष्यः पृषतो रुरुश्च ।न्यङ्कुस्तथा रङ्कुरिति प्रसिद्धा,वातप्रमीशम्बरकृष्णसाराः ॥ २३० ॥
इन्द्रवज्रा
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त नक्षत्रनामानि Gaṇitanāmamālā 1.4 · p. 1
रोहिणं रोहिणी ब्राह्मं प्राजापत्यं च धातृभम् ।मृगशीर्षं मृगशिरं सौम्यं मृगश्च शोभनम् ॥ ४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मृ (wrong syllable)
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.39 · p. 3
तथैव विबुधैः प्रोक्तो नक्रश्च मकरो मृगः ।घटकुंभश्च कलशो मत्स्यो मीनो झषो मतः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त चरस्थिरद्विस्वभावसंज्ञा Gaṇitanāmamālā 25.106 · p. 6
राशयश्चरसंज्ञोक्ता मृगाजतुलकर्कटा ॥ १०६ ॥
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त नृचतुष्पदजलकीटसरीसृपसंज्ञा Gaṇitanāmamālā 30.115 · p. 7
गोसिंहाजमृगाद्यर्द्धं धनुरन्त्यं चतुष्पदा ।कीटस्तु कर्कटो राशिर्वृश्चिकोऽपि सरीसृपः ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त सूर्यादीनामुच्चसंज्ञा Gaṇitanāmamālā 33.120 · p. 7
अजवृषमृगावालाकर्कमीनतुलाधिपाः ॥ १२० ॥
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त सूर्यादीनां नीचसंज्ञा Gaṇitanāmamālā 34.121 · p. 7
तुलालिकर्कमीनेषु मृगकन्याक्रियेषु च ॥ १२१ ॥
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.383 · p. 62
श्यामला ललिता गन्धधूलिरामोदिनीत्यपि ।मृगः सहस्रवेधी स्यान्मार्गो मृगमदोऽपि च ॥ ३८३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.142 · p. 104
विमानेऽथ वराङ्गः स्याद्वारणो मृग इत्यपि ।हस्ती दन्तावलो दन्ती सिन्धुरो दीर्घमारुतः ॥ १४२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.151 · p. 105
न तिष्ठन्ति गजाः सस्याद्गन्धहस्ती ततः पुनः ।चतुर्विधा गजा भद्रो मन्द्रो मिश्रो मृगोऽपि च ॥ १५१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.12 · p. 236
तथा चानुनयोऽथ स्यान्मृगया मृगणा मृगः ।स्यान्मार्गणा मृगो घातेऽप्याघातश्च विघातकः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.185 · p. 400
स्त्रियां भूम्न्येव बहुला अग्न्यर्थाद्देवतं च तत् ।प्रजापत्यर्थदेवत्यं रोहिण्यथ मृगः पुमान् ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.84 · p. 35
मृगो मार्गोऽथैतदूर्ध्वं ताराः सौम्येन्वकेल्वलाः ।जातेऽत्र मार्गशिरसस्तथा मृगशिरा अपि ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.108 · p. 38
जूकस्तुलाथ कौर्पी वृश्चिकनामाऽश्वितौ क्षिकौ धनुषि ।आकोकेरो मकरो मृगोऽथ हृद्द्रुग्घटोऽथ मीनोऽन्त्यः ॥ १०८ ॥
गीतिः
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.28 · p. 191
मृगः कुरङ्गः सारङ्गोऽजिनयोनिः कुरंगमः ।मृडीकः किं च वातायुः प्रियाक्षश्च मरूकवत् ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.38 · p. 192
गवयः स्याद्वनगवो गोसदृक्षोऽश्ववारणः ।पशुस्तिर्यञ्चलिः सर्वे वनजाः पशवो मृगाः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.14 · p. 199
गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च तौ ।मृगा महामृगा मत्स्याः प्रतुदा विष्किरास्तथा ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.5 · p. 253
दन्तावलानां संनाहे गुडा स्त्रीपुंसयोर्मता ।कल्पना सज्जना चाथ कुमारा गजपालकाः ॥भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः ।बृंहितं गर्जितं क्लीबे गजस्यान्नं विधा स्त्रियाम् ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ प्रकीर्णवर्गः Koṣakalpataru 3.4.42 · p. 34
अन्वेषणान्वेक्षण-मार्गणानिसंवीक्षणं स्यान्मृगणा मृगश्च ।गवेषणं ना विचयोऽथ षण्ढेसंस्थानमाहुः किल संनिवेशे ॥ ४२ ॥
उपजातिः
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.13 · p. 95
कुरङ्गकोकौ वटकोऽपि भावेवाकोत्तरो रल्ल[222a]क-नक्तकौ च ।न्युङ्खोऽपि साम्नः प्रणवेषु शङ्खो-ऽकम्बौ मृगापाङ्ग-सवङ्ग-मङ्गाः ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 कु (wrong syllable)
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.135 · p. 25
पर्येषणा परीच्छा च मृगतान्वेषणा मृगः ।चान्द्रायणं च चन्द्रव्रतं प्राजापत्यं तु कृच्छ्रकम् ॥ १३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.167 · p. 29
वेगदण्डश्च वेदण्डो हस्तनासश्च पेचकी ।भद्रो मन्द्रो मृग इति गजाः संस्कारजास्तथा ॥ १६७ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 127 · p. 64
वरटा वारली हंसी कोक ईहामृगो वृकः ।हरिणो मृगश्च पृषतः तदङ्कः शर्वरीकरः ॥ १२७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.105 · p. 18
बाहुला रोहिणी ब्राह्मी मृगशीर्षं मृगस्तथा ।मार्गो मृगशिरश्चान्द्रमसं चाथेल्वलाः पुनः ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.136 · p. 69
मिश्रो मन्दो मृगो भद्रश्चतुर्धा गज उच्यते ।बालः स्यात्पञ्चवर्षोऽसौ स्यात्पोतो दशहायनः ॥ १३६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.198 · p. 76
कुरङ्गमृगसारङ्गा वातायुहरिणावपि ।तद्भेदा रङ्कुगोकर्णन्यङ्कुचीनादयो मताः ॥ १९८ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.123 · p. 17
ग्रहायणी मृगशिरो मृगशीर्षे मृगोऽपि च ।स्त्रीक्लीबयोर्मृगशिरा रोहिणी च पुरातना ॥ १२३ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त चतुःपदमरीचिः Pañcatattvaprakāśa 1.3.130 · p. 10
गन्धर्वोऽश्वो हरिर्वाजी तुरङ्गः सैन्धवोऽर्कजः ।एणः कुरङ्गो हरिणो मृगः श्वसनवाहनः ॥ १३० ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.16 · p. 43
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.150 · p. 16
सौराष्ट्रिको ब्रह्मपुत्रः काकोलो दरदोऽपि च ।मृगः कुरङ्गो हरिण एणः सारङ्ग एव च ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.37 · p. 6
शूकरो श्येनको वज्रं मृगः छागः सुलाञ्छनम् ।नन्द्यावर्तश्च कुम्भश्च कूर्मो नीलोत्पलं ततः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.95 · p. 15
चान्द्रमसं तथा मार्गः मृगश्च तदनन्तरम् ।इल्वलास्तु मृगशिरः शिरःस्थाः पञ्चतारकाः ॥ ९५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable); pāda 3, syllable 4 स्तु (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2204 · p. 361
भद्रो मन्दो मृगो मिश्रश्चेति चतस्रो जातयः ।महाकायस्य मन्यन्ते विश्वे च वर्त्तयन्ति ताः ॥ २२०४ ॥
metre not recognised
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2336 · p. 378
ख्यातो मृगः कुरङ्गश्च सारङ्गो हरिणः पुनः ॥ २३३६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.58 · p. 174
मार्गणं मृगणा मार्गो भवेद्विचयनं मृगः ।संवीक्षणञ्चापि हृतद्रव्यतात्पर्ययाचने ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.16 · p. 178
बहुलाश्च मृगशीर्षे मृगमार्गौ मृगाच्छिरः ।मृगशिराऽपि शीर्षस्तारकास्तस्य त्विल्वलाः ॥ १६ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.203 · p. 205
सिताभश्चापि, कस्तूर्यां नाभिवन्मृगनाभिजा ।मृगनाभिर्मृगमदो मृगः स्यान्मद इत्यपि ॥ २०३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.349 · p. 217
विनोदे स्यात् कुतुकं कौतुकं च कुतूहलम् ।कौतूहलं, पापर्द्धौ तु मृगव्यं मृगया मृगः ॥ ३४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.190 · p. 25
मृगशीर्षं मृगशिरो मृगः पुंस्याग्रहायणी ।इन्वकास्तच्छिरोदेशे तारका इल्वलाः स्त्रियः ॥ १९० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.680 · p. 87
श्वाविट् शल्योऽस्य लोम्नि स्त्री शलली शललं शलम् ।मृगः कुरङ्गो वातायुरेणो हरिण इत्यपि ॥ ६८० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1255 · p. 153
भिक्षा च याचना शंसा शासनं विचयो मृगः ।मार्गः परीष्टिरन्विष्टं मृगणान्वेषणा तथा ॥ १२५५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1806 · p. 219
हेरम्बः कृष्णशृङ्गश्च मृगस्तु वलनो लिगुः ।वारणः पेचकी कुम्भी मदवाही महामृगः ॥ १८०६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1807 · p. 219
भद्रा मन्दा मृगाश्चेति त्रिविधा गजजातयः ।अर्वती च प्रसूस्तुल्ये रक्तदृष्टिस्तु कोकिलः ॥ १८०७ ॥
अनुष्टुप्
genderपुंmasc.
अगः शुचिश्च चन्द्रे तु खगो मृग इतीर्यते ।राजा वृष्णिस्तथाऽऽकाशे नाकशब्दः प्रकीर्तितः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मुद्रानिघण्टु Tantrābhidhāna 12.8 · p. 68
-----------------------------------काममुद्रा पराख्याता शिवस्य दशमुद्रिकाः ।लिङ्गयोनित्रिशूलाक्षमालेष्टाभीमृगाह्वयः ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
उत्पलिनी Utpalinī · व्याडि Utpalinī 32 · p. 49
मृगो बिन्दुः पृषंश्चैव पृषतश्च प्रकीर्तितः ॥ ३२ ॥
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.11 · p. 65
गवलश्च परस्वांश्च महिषः स्यादरण्यजः ।मृगः प्लावी भीरुचेता वननो मरुको लिगुः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.121 · p. 93
भिक्षा च सनिरक्ली स्यान्मार्गणा तु गवेषणा ।पर्येषणा परीच्छा च मृगणान्वेषणा मृगः ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.62 · p. 109
मदबृन्दः कुषी कंबुः शुण्डालः षष्टिहायनः ।भद्रो मन्द्रो मृग इति गजाः संकरजास्तथा ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.20
पशवोऽपि मृगा वेगः प्रवाहजवयोरपि ॥ २० ॥
अनुष्टुप्
meaningsपशु
धरणिकोश Dharaṇikośa · धरणिदास गश्लोकः Dharaṇikośa 3.3.3 · p. 24
मृगः पशौ कुरङ्गे च मृगयामृगशीर्षयोः ।हस्तिजातिप्रभेदे च मृगी स्त्रीभेदवाचिका ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ गान्ताः Koṣakalpataru 6.3.93 · p. 163
मृगः पशौ वारणजातिभे[262b]देनक्षत्रभेदे मृगयार्थनासु ।मृगी तु कान्ताभिदि शंभुशुक्र-मुनिप्रपातेषु भृगुः प्रदिष्टः ॥ ९३ ॥
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 2, syllable 1 न (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1021 · p. 130
क्लीबं तु मोहने ना तु पश्वन्वेषणयोर्मृगः ।मृगशीर्षाख्यनक्षत्रे तद्युक्ते कालमात्रके ॥ १०२१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1022 · p. 130
मकराह्वयराशौ च विदुः सांवत्सरा अमुम् ।द्वे तु हस्तिविशेषे च कुरङ्गेऽप्यथ भेद्यवत् ॥ १०२२ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास भकारादयः Paramānandīyanāmamālā 5.20.339 · p. 204
मोघाथ पटलावृक्षे मोधं निष्फलदीनयोः ।मृगो नक्षत्रभेदे स्यात्कुरङ्गेऽथ मृगी स्त्रियाम् ॥ ३३९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश गान्ताः Śabdaratnāvalī 7.3.17 · p. 192
मार्गो मासे मृगमदे पथि चान्वेषणेऽपि च ।मृगः पशौ च हरिणे हस्तितारकभेदयोः ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश गान्ताः Śabdaratnāvalī 7.3.18 · p. 192
अन्वेषणे च याच्ञायां मृगीकान्तान्तरेऽपि च ।युगो हलरथाङ्गे ना कृतादिषु नपुंसकम् ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1981 · p. 241
मृगस्तु हरिणे सौम्ये नक्षत्रेऽन्वेषणे गजे ।मार्गो मृगशिरोमासान्वेषणाध्वसु याचने ॥ १९८१ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.66 · p. 114
भुजङ्गो भुजगे षिड्गे जामदग्न्यतटौ भृगुः ।मृगोऽन्विष्टौ च मार्गस्तु मासान्वेषणवर्त्मसु ॥ ६६ ॥
अनुष्टुप्
उत्पलिनी Utpalinī · व्याडि Utpalinī 49 · p. 50
मृगशीर्षे हस्तिजातौ मृगः पशुकुरङ्गयोः ॥ ४९ ॥
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.47 · p. 217
मृगस्तु मृगशीर्षेऽपि मोक्षो मृत्यौ मरुद्गिरौ ।यन्ता हस्तिपके सूते यज्ञोऽग्न्यात्महरीष्टिषु ॥ ४७ ॥
अनुष्टुप्

मृग as a meaning in nānārtha verses