कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कम्र

kamraवि · adj.

In 12 kośas: 17 synonym verses, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.435 · p. 21
कामुकः कमिता कम्रोऽनुकः कामयिताऽभिकः ।कामनः कमरोऽभीकः पञ्चभद्रस्तु विप्लुतः ॥ ४३४ ॥व्यसनी हर्षमाणस्तु प्रमना हृष्टमानसः ।विकुर्वाणो विचेतास्तु दुरन्तर्विपरो मनाः ॥ ४३५ ॥
अनुष्टुप्
genderविadj.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1445 · p. 55
चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे ।वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च ॥ १४४४ ॥साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे ।काम्यं कम्रं कमनीयं सौम्यं च मधुरं प्रियम् ॥ १४४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.40
मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः ॥ २३ ॥कम्रः कामयिताभीकः कमनः कामनोऽभिकः ।
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.381 · p. 44
जैवातृकः स्यादायुष्मान् बलवानंसलो मतः ।जाबालः स्यादजाजीवः कम्रः कामी च कामुकः ॥ ३८१ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.38 · p. 218
कम्रः कामयिताभीकः कामनः कमनोभिकः ।कामिः कामी च कमुको लुब्धे लोलुपलोलुभौ ॥ ३८ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.63 · p. 7
आद्यूनः स्यादौदरिक उदरे प्रसितो हि यः ।भवन्ति पात्रेसमिताः भोक्तुमेव क्षमा हि ये ॥उदुम्बरकृमिः स स्याद्य उदुम्बरजन्तुवत् ।कामुकः कमिता कम्रोऽनुकः कामयिताभिकः ॥कामनः कमनः कामी कमराभीक-रामिलाः ।हर्षुलः पञ्चभद्रस्तु व्यसनी विप्लुतोऽपि सः ॥ ६३ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.61 · p. 18
मनोरमं मञ्जुल-मञ्जु-वल्गु-काम्यानि सौम्यं मधुरं च हारि ।स्याच्छोभनं चारु च साधु कम्रंरम्यं सुरूपं सुषमं च दृश्यम् ॥ ६१ ॥
उपजातिः
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 177 · p. 85
कान्तं च कमनं कम्रं कमनीयं मनोहरम् ।अभिरामं रमणीयं रम्यं सौम्यं च सुन्दरम् ॥ १७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.333 · p. 93
बन्धुरं चाभिरामं स्यात्सुषमं साधुसुन्दरे ।मनोहारि? काम्यकम्रे कमनीयमनोरमे ॥ ३३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.96 · p. 113
कम्रोऽभिकः कामयिता कमितानुक इत्यपि ।व्यसनी विप्लुतः पञ्चभद्रो हृष्टमना अथ ॥ ९६ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.649 · p. 110
कामुके कमनः कम्रः कमिताभीक इत्यपि ।कामी कामयिता चाथ विधेये निभृतोऽपि च ॥ ६४९ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.657 · p. 87
कमिता कामुकः कम्रः कामनः कमनोऽनुकः ॥ ६५७ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2624 · p. 423
मनोज्ञं मधुरं रम्यमऽभिरामं मनोरमम् ।कमनीयं प्रियं काम्यं कम्रञ्च सुषमं पुनः ॥ २६२४ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.29 · p. 160
मत्ते शौण्डोत्कटक्षीवा अविनीते समुद्यतः ।कामुके कमिताभीकः कम्रः कामयिताभिकः ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.67 · p. 193
कामनः कमनः कम्रः कमरः कमितापि च ।कामयिताऽभिक-भीकावन्तर्दुर्विपरो मनाः ॥ ६७ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.45 · p. 253
रम्यं रमणीयं सौम्यं सोमं बन्धुर-बन्धुरे ।नम्रेऽपि कमनीयं स्यात् काम्यं कम्रं मनोरमम् ॥ ४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णी (wrong syllable)
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.35 · p. 203
कामुकः कमिताभीकः कम्रः कामयिताभिकः ।तृष्णक्तु गर्धनो गृध्नुः लिप्सुर्लुब्धोऽभिलाषुकः ॥ ३५ ॥
अनुष्टुप्
genderविadj.

कम्र as a meaning in nānārtha verses

  • कोषकल्पतरु कमनकामेऽप्यशोके कमनोऽन्यवत्तु कम्रेऽभिरूपे धमनस्तु वह्नौ । आध्मापके क्रूरतरेऽन्यलिङ्गः स्त्रियां हरिद्राद्रुतिवाचकश्च ॥ १९ ॥ Koṣakalpataru 6.21.19
  • कोषकल्पतरु कामिन्कम्रेऽन्यवद्भृङ्गिरिटौ तु सूर्ये चर्मी तथा चर्मलसत्करेऽपि । वाग्ग्मी तु वाचस्पतिवक्तृवाची स्वामी भवेदीश्वरषण्मुखार्थः ॥ ८१ ॥ Koṣakalpataru 6.21.81
  • कोषकल्पतरु रागिन्अर्थी विवादिन्यपि सेवके च स्याद्याचकेऽसौ कथितश्च पुंसि । रागी तु रक्ते परवच्च कम्रे ध्वजी तु शैले रथविप्रयोश्च ॥ ८२ ॥ Koṣakalpataru 6.21.82
  • कोषकल्पतरु कामचारिन्स्याद्व्योमचा[25a]री सुरपक्षिवाची स्यात्कामचारी चटके च कम्रे । स्वच्छन्दचारिण्यथ पृष्ठशृङ्गी भीमे च षण्ढे चलिते च दंशे । कारंधमी तु धातूक्तितत्परे कांस्यकारे च । अन्तेवासी शिष्ये चाण्डाले प्रान्तगे परवत् ॥ ६८ ॥ Koṣakalpataru 6.21.68
  • कोषकल्पतरु संप्रयोगिन्प्रचलाकी तु भुजंगे कथितो ज्ञैश्चित्रमेखले तद्वत् । कम्रे तु संप्रयोगी मदने स्यात्संप्रयोजके तद्वत् ॥ ६९ ॥ Koṣakalpataru 6.21.69
  • कोषकल्पतरु कामलस्यात्कामलो निर्जलदेशवाची । कम्रेऽपि भेद्ये कुसुमाकरे ना । रम्ये च दक्षे त्रिषु पेशलः स्या- द्गोकीलो ना मुसले हलेऽपि ॥ ३३ ॥ Koṣakalpataru 6.28.33
  • कोषकल्पतरु उषऋषिर्वसिष्ठादिषु दीधितौ च वेदे च ना बाणसुतारजन्योः । उषाथ कम्रे त्रिषु गुग्गुलौ ना झषस्तु वैसारिणि पुंसि दिष्टः ॥ ४४ ॥ Koṣakalpataru 6.30.44