कामिन्
kāminपुं · masc.In 16 kośas: 20 synonym verses, 5 as a nānārtha head word, 8 as a meaning of another word.
हंसेषु तु मरालाः स्युः सारसे दीर्घजानुकः ॥ १९१ ॥गोनर्दो मैथुनी कामी श्येनाक्षो रुक्तमस्तकः ।
अनुष्टुप्
genderपुंmasc.
जैवातृकः स्यादायुष्मान् बलवानंसलो मतः ।जाबालः स्यादजाजीवः कम्रः कामी च कामुकः ॥ ३८१ ॥
अनुष्टुप्
genderविadj.
रासभस्तु स्वरोऽनश्वो धूमकण्ठो महास्वनः ।रामुकश्चिरमेषी च कामिनी चक्रकन्धरः ॥ ३१८ ॥
अनुष्टुप्
genderपुंmasc.
कम्रः कामयिताभीकः कामनः कमनोभिकः ।कामिः कामी च कमुको लुब्धे लोलुपलोलुभौ ॥ ३८ ॥
अनुष्टुप्
genderविadj.
जीवो जितेन्द्रियः कामी दद्रुघ्नस्तु प्रपुन्नटः ।चक्रमर्दः प्रपुन्नाटः पुन्नाटः शुकनासिकः ॥ ५३० ॥
अनुष्टुप्
genderपुंmasc.
ह्रस्वाङ्गो जीवदो वृद्धिप्रदो धीरस्तु दुर्द्धरः ।गोपर्यायपतिः कामी गोरक्षो गोपतिश्च सः ॥ ५३६ ॥
अनुष्टुप्
genderपुंmasc.
भूरिप्रेमा द्वन्द्वचारी रथाङ्गो राविषोऽपि च ।कामी सहायो गोनर्दः कान्तोऽथ मणितारकः ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
अभव्यः स च हंसः स्यादथ लक्ष्मणसारसौ ।लक्ष्मणो रसिकः कामी काकुवाक्कामिवल्लभः ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
रथाङ्गनामा कामी च चक्रीवांश्च कुरंकरः ।क्रुङ् क्रौञ्चस्तस्य तु स्त्री स्यात्क्रुञ्चाथ स्याद्बकोटकः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
चलचञ्चुस्तथाङ्गारभोजी लट्वा तु पेचकः ।पुच्छाधोभागरक्तोऽथ कामी गृहकपोतकः ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
आद्यूनः स्यादौदरिक उदरे प्रसितो हि यः ।भवन्ति पात्रेसमिताः भोक्तुमेव क्षमा हि ये ॥उदुम्बरकृमिः स स्याद्य उदुम्बरजन्तुवत् ।कामुकः कमिता कम्रोऽनुकः कामयिताभिकः ॥कामनः कमनः कामी कमराभीक-रामिलाः ।हर्षुलः पञ्चभद्रस्तु व्यसनी विप्लुतोऽपि सः ॥ ६३ ॥
अनुष्टुप्
genderविadj.
कान्तेष्टौ दयितः प्रीतः प्रियः कामी च कामुकः ।वल्लभोऽसुपतिः प्रेयान् विटश्च रमणो वरः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
शालीनः शारदोऽधृष्टेऽप्यहंयुः स्यादहंकृते ।कामनः कामुकः कामी[62] कमरोऽभीक एव च ॥ ९५ ॥
अनुष्टुप्
genderविadj.
कामुके कमनः कम्रः कमिताभीक इत्यपि ।कामी कामयिता चाथ विधेये निभृतोऽपि च ॥ ६४९ ॥
अनुष्टुप्
genderविadj.
सारसो लक्ष्मणः कामी मैथुनी रक्तमस्तकः ।श्येनाक्षश्चापि श्येनास्यो गोनर्दो दीर्घजानुकः ॥ २४०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
genderपुंmasc.
विष्णुगुप्तश्च कौण्डिल्यश्चाणक्यो द्रोमिनोंऽशुलः ।वात्स्यायनो मल्लनागः कामी पङ्किल इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
अनुकः कमनः कामः कामी च कामिरित्यपि ।आश्रवो विनयग्राही विधेयः वचने स्थितः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderविadj.
शुभंयुः शुभसंयुक्ते शुभंयश्चाप्यहंकृति ।अहंयोऽहंयुसंयुक्तः, कामुके कामि-कामिनौ ॥ ६६ ॥
अनुष्टुप्
genderविadj.
विलासी कामुकः कामी स्त्रीपरो रतिलम्पटः ॥ १४१ ॥
genderपुंmasc.
सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः ।दार्वाघाटे शतपत्रो लक्ष्मणा सारसप्रिया ॥ ३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
genderपुंmasc.
कम्रेऽन्यवद्भृङ्गिरिटौ तु सूर्येचर्मी तथा चर्मलसत्करेऽपि ।वाग्ग्मी तु वाचस्पतिवक्तृवाचीस्वामी भवेदीश्वरषण्मुखार्थः ॥ ८१ ॥
इन्द्रवज्रा
meaningsकम्र
doubtful
त्रि तु वाग्विकले द्वे तु कामी सारसपक्षिणि ।त्रि तु कामवति स्त्री तु कामिनी ललनान्तरे ॥ २०३ ॥
अनुष्टुप्
कामिन् as a meaning in nānārtha verses
- धरणिकोश मधुकरअवस्करौ गुह्यगूथौ अपस्करं रथाङ्गकम् । सहचरः सखा झिञ्टी दण्डधारो यमे नृपे । मधुकरौ कामिभृङ्गौ विभाकरोऽग्निसूर्ययोः ॥ Dharaṇikośa 26.1.22
- नानार्थार्णवसंक्षेप हर्षुलत्रिः पुनः कपिलाक्षेऽथ ह(र्ष ? र्षु)लो ना बुधग्रहे । द्वे पुनः शिल्पिनि मृगे भेद्यलिङ्गं तु कामिनि ॥ २०२२ ॥ Nānārthārṇavasaṃkṣepa 4.2022
- शब्दरत्नावली उषसर्पे विभीतके तार्क्ष्ये चक्रे कर्षे भवेत्पुमान् । क्लीबे खौवर्चले तुत्थे इन्द्रियेऽपि निगद्यते ॥ उषा स्त्री बाणकन्यायां कामिगुग्गुलयोः पुमान् । ऊषा च रात्रिशेषे स्यादुषाऽव्ययमपीष्यते ॥ Śabdaratnāvalī 7.31.3
- त्रिकाण्डशेष अभीकशक्रार्कपर्णयोश्चार्कोऽभीकस्त्वभयकामिनोः । रूपकान्तिकयोश्चाङ्कोऽलिमकौ भेककोकिलौ ॥ २ ॥ Trikāṇḍaśeṣa 3.3.2
- त्रिकाण्डशेष वर्णाटवर्कराटः कटाक्षे च स्त्रीणां स्तननखक्षते । अद्रप्रेषणयोर्विष्टिर्वर्णाटौ कामिगायनौ ॥ १०३ ॥ Trikāṇḍaśeṣa 3.3.103
- त्रिकाण्डशेष रागिन्यक्षे चन्द्रे च राजा स्यात् रक्तः कामी च रागिणौ । गोपित्ते रोचना कूटशाल्मलौ रोचनः पुमान् ॥ २५६ ॥ Trikāṇḍaśeṣa 3.3.256
- त्रिकाण्डशेष विषयिन्वर्ष्माकारेऽपि विषयी कामिनि क्लीबमिन्द्रिये । वृक्षादनी स्थाद्वन्दायां स्त्रियां कुठारके पुमान् ॥ २६१ ॥ Trikāṇḍaśeṣa 3.3.261
- वैजयन्ती हर्षुलसुकृतं शोभने धर्मे हर्षुलो मृगकामिनोः । Vaijayantī 7.5.94