आद्यून
ādyūnaवि · adj.In 10 kośas: 10 synonym verses.
genderविadj.
genderविadj.
आद्यूनः स्यादौदरिको भक्षको घस्मरोऽद्मरः ।तमसेचनकं प्राहुस्तृप्तिर्यस्य न जायते ॥ ३५० ॥
अनुष्टुप्
genderविadj.
भक्षकः स्यादथ पुनर्विजिगीषाविवर्जिते ।आद्यूनः स्यादौदरिकोऽप्यथ स्वोदरपूरके ॥ ३३ ॥
अनुष्टुप्
genderविadj.
आद्यूनः स्यादौदरिक उदरे प्रसितो हि यः ।भवन्ति पात्रेसमिताः भोक्तुमेव क्षमा हि ये ॥उदुम्बरकृमिः स स्याद्य उदुम्बरजन्तुवत् ।कामुकः कमिता कम्रोऽनुकः कामयिताभिकः ॥कामनः कमनः कामी कमराभीक-रामिलाः ।हर्षुलः पञ्चभद्रस्तु व्यसनी विप्लुतोऽपि सः ॥ ६३ ॥
अनुष्टुप्
genderविadj.
आद्यूनः पेट्टिकश्चापि विजिगीषाविवर्जितः ।सर्वान्नीनः सर्वभक्षी शाष्कुलः पिशितादनः ॥ ८९ ॥
अनुष्टुप्
genderविadj.
आद्यून औदरिकरश्च बुभुक्षापीडितो जनः ।सर्वान्नभक्षकश्चैवं सर्वान्नीनश्च कथ्यते ॥ ६४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
स्यादौदरिक आद्यूनो विजयेच्छाविवर्जिते ।आत्मम्भरिर्भवेत् कुक्षिम्भरिः स्वोदरपूरके ॥
अनुष्टुप्
genderविadj.
स्यादौदरिक आद्यूनो विहीनो विजिगीषया ।सर्वान्नीनस्तु सर्वान्नभुक् परान्नः परान्नभुक् ॥ १६४६ ॥
अनुष्टुप्
genderविadj.
आद्यूनः स्यादौदरिको विमुक्तो विजिगीषया ।ह्रिणो ह्रीतो लज्जितः स्यादन्वेष्टा तीक्ष्णसाधनैः ॥ ५१ ॥
अनुष्टुप्
genderविadj.