अभीक
abhīkaवि · adj.In 14 kośas: 11 synonym verses, 7 as a nānārtha head word, 2 as a meaning of another word.
कामुकः कमिता कम्रोऽनुकः कामयिताऽभिकः ।कामनः कमरोऽभीकः पञ्चभद्रस्तु विप्लुतः ॥ ४३४ ॥व्यसनी हर्षमाणस्तु प्रमना हृष्टमानसः ।विकुर्वाणो विचेतास्तु दुरन्तर्विपरो मनाः ॥ ४३५ ॥
अनुष्टुप्
genderविadj.
मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः ॥ २३ ॥कम्रः कामयिताभीकः कमनः कामनोऽभिकः ।
अनुष्टुप्
genderविadj.
कान्तः स्यात्कमिता पतिर्वरयिता भर्ता च भोक्ता धवो,रुच्याभीकवराभिकाश्च रमणः प्राणाधिनाथोऽनुगः ।सूनुः सन्ततिरात्मजश्च तनुजः पुत्रः प्रसूतिः सुतः,तुक् तोकं तनयश्च नन्दन इति प्राज्ञैरपत्यं स्मृतम् ॥ ४९७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कम्रः कामयिताभीकः कामनः कमनोभिकः ।कामिः कामी च कमुको लुब्धे लोलुपलोलुभौ ॥ ३८ ॥
अनुष्टुप्
genderविadj.
आद्यूनः स्यादौदरिक उदरे प्रसितो हि यः ।भवन्ति पात्रेसमिताः भोक्तुमेव क्षमा हि ये ॥उदुम्बरकृमिः स स्याद्य उदुम्बरजन्तुवत् ।कामुकः कमिता कम्रोऽनुकः कामयिताभिकः ॥कामनः कमनः कामी कमराभीक-रामिलाः ।हर्षुलः पञ्चभद्रस्तु व्यसनी विप्लुतोऽपि सः ॥ ६३ ॥
अनुष्टुप्
genderविadj.
शालीनः शारदोऽधृष्टेऽप्यहंयुः स्यादहंकृते ।कामनः कामुकः कामी[62] कमरोऽभीक एव च ॥ ९५ ॥
अनुष्टुप्
genderविadj.
कामुके कमनः कम्रः कमिताभीक इत्यपि ।कामी कामयिता चाथ विधेये निभृतोऽपि च ॥ ६४९ ॥
अनुष्टुप्
genderविadj.
कामयिताऽभिकोऽभीकः कमरश्चापि कथ्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 यि (wrong syllable)
genderविadj.
मत्ते शौण्डोत्कटक्षीवा अविनीते समुद्यतः ।कामुके कमिताभीकः कम्रः कामयिताभिकः ॥
अनुष्टुप्
genderविadj.
नाथः कामयिता पतिर्वरयिता कभ्रो धवः कामनोभर्ता प्राणसमः प्रियः सहचरः कान्तोऽभिकः कामुकः ।प्राणेशः कमितानुगो रतिगुरुर्नेता वरो वल्लभोनिर्वेष्टा परिणायकश्च कमनोऽभीकश्च सध्य्रङ् सुहृत् ॥ १०४९ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कामुकः कमिताभीकः कम्रः कामयिताभिकः ।तृष्णक्तु गर्धनो गृध्नुः लिप्सुर्लुब्धोऽभिलाषुकः ॥ ३५ ॥
अनुष्टुप्
genderविadj.
इति संज्ञान्तरं तस्य पुनः पुष्पे नपुंसकम् ।त्रिस्त्वम्लानवति त्रिस्तु स्यादभीकश्च निर्भये ॥ ९३ ॥
अनुष्टुप्
meaningsनिर्भय
कमितर्यपि ना तु स्यादृषिभेदे च सामगे ।रभसस्तु कवौ चाह पुंस्येवैनं बहुश्रुतः ॥ ९४ ॥
अनुष्टुप्
doubtful
अभीक as a meaning in nānārtha verses
- कोषकल्पतरु भ्रमरप्रकीर्णकेऽन्त्ये भ्रमरस्तु भृङ्गे द्वयोरभीके त्रिषु जर्जरोऽन्त्ये । शक्रध्वजे शैवलके तथैव जरत्तरे तु त्रिषु संप्रदिष्टम् ॥ ४ ॥ Koṣakalpataru 6.27.4
- कोषकल्पतरु मुहिरआहारके चाथ गजेन्दुवाची स्याच्चन्दिरोऽथो मुदिरः पयोदे । क्रमेऽथ सूर्ये मिहिरश्च बुद्धे- ऽभीकाज्ञयोः स्यान्मुहिरस्तथैव ॥ ६ ॥ Koṣakalpataru 6.27.6