कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdabhedaprakāśa

शब्दभेदप्रकाश Śabdabhedaprakāśa

278 verses · text only, tagging comes next

शब्दभेदनिर्देशः (1/2)

प्रबोधमाधातुमशाब्दिकानां कृपामुपेत्यापि सतां कवीनाम् ।कृतो मया रूपमवाप्य शब्दभेदप्रकाशोऽखिलवाङ्मयाब्धेः ॥ १ ॥
1.1
उपजातिः
प्रायो भवेद्यः प्रचुरः प्रयोगः प्रामाणिकोदाहरणप्रतीतः ।रूपादिभेदेषु विलक्षणेषु विचक्षणो निश्चिनुयात् तमेव ॥ २ ॥
1.2
उपजातिः
क्वचिन्मात्राकृतो भेदः क्वचिद्वर्णकृतोऽत्र च ।क्वचिदर्थान्तरोल्लेखाच्छब्दानां रूढितः क्वचित् ॥ ३ ॥
1.3
अनुष्टुप्
जागर्ति यस्यैष मनःसरोजे स एव शब्दार्थविवर्तनेशः ।निजप्रयोगार्पितकामचारः परप्रयोगप्रसरार्गलश्च ॥ ४ ॥
1.4
उपजातिः
विद्यादगारमागारमपगामापगामपि ।अरातिमारातिमथो अम आमः प्रकीर्तितः ॥ ५ ॥
1.5
अनुष्टुप्
भवेदमर्ष आमर्षोऽप्यङ्कुरोऽङ्कूर एव च ।अन्तरीक्षमन्तरिक्षमगत्स्योऽगस्तिरेव च ॥ ६ ॥
1.6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्ष (wrong syllable)
अटरूष आटरुष अवश्योऽवश्याय इत्यपि ।प्रतिश्यायः प्रतिश्यावो भल्लूको भल्लुकोऽपि च ॥ ७ ॥
1.7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
जम्बूकं जम्बुकं प्राहुः शम्बूकमपि शम्बुकम् ।जतुका स्याज्जतूकाऽपि मसुरः स्याद् मसूरवत् ॥ ८ ॥
1.8
अनुष्टुप्
वास्तुकं चापि वास्तूकं दैवकी देवकीति च ।ज्योतिषं ज्यौतिषं चापि ष्ठेवनं ष्ठीवनं तथा ॥ ९ ॥
1.9
अनुष्टुप्
सुत्रामाऽपि च सूत्रामा हनूमान् हनुमानपि ।ओषणं स्यादूषणं च भवेदुषरमूषरम् ॥ १० ॥
1.10
अनुष्टुप्
हारीतो हारितोऽपि स्याद् मुनिपक्षिविशेषयोः ।तुबरस्तूबरोऽपि स्यात् कुबरः कूबरोऽपि च ॥ ११ ॥
1.11
अनुष्टुप्
उत्तमेऽनुत्तमं च स्यादाहते स्यादनाहतम् ।उदारे चानुदारः स्यादुदग्रे चानुदग्रवत् ॥ १२ ॥
1.12
अनुष्टुप्
बन्धूरं बन्धुरं च स्यादूरीकृतमुरीकृतम् ।वाल्हीकं वाल्हिकं चापि गाण्डीवो गाण्डिवोऽपि च ॥ १३ ॥
1.13
अनुष्टुप्
उषाऽप्यूषा ननान्दा च ननन्दा च प्रकीर्तिता ।ह्रीबेरे हिरिबेरं च चिकुरे चिहुरोऽपि च ॥ १४ ॥
1.14
अनुष्टुप्
चण्डालोऽपि च चाण्डालः वदन्योऽपि वदान्यवत् ।हालाहलं हालहलं वदन्त्यपि हलाहलम् ॥ १५ ॥
1.15
अनुष्टुप्
डाहालं डाहलं चापि डहालं च प्रचक्षते ।कुङ्कणः कोङ्कणश्चापि श्यामाकः श्यामकोऽपि च ॥ १६ ॥
1.16
अनुष्टुप्
सहाचरः सहचरः स्फटिकं स्फाटिकं यथा ।गन्धर्वोऽपि च गान्धर्वः चमरं चामरं तथा ॥ १७ ॥
1.17
अनुष्टुप्
चोरश्चौरश्चटुश्चाटुश्चेलश्चैलं चमुश्चमूः ।चञ्चुश्चञ्चूस्तलस्तालः श्यामलः श्यमलोऽपि च ॥ १८ ॥
1.18
अनुष्टुप्
महिलायां महेलाऽपि महेला स्यान्महेलिका ।छेकश्छयिल्लश्छेकालो विदग्धे छेकिलोऽपि च ॥ १९ ॥
1.19
अनुष्टुप्
गुग्गुलौ गुग्गुलोऽपि च हिङ्गुलौ चापि हिङ्गुलम् ।मन्दिरे मन्दिरा चापि वीर्ये वीर्यापि कथ्यते ॥ २० ॥
1.20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 पि (wrong syllable)
धन्याकमपि धान्याकं युतकं यौतकं तथा ।कपाटं च कवाटं च कपिलं कविलं मतम् ॥ २१ ॥
1.21
अनुष्टुप्
करवालः करपालः वनीपकवनीयकौ ।पारापतः पारावतः जवा स्याज्जपया सह ॥ २२ ॥
1.22
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable); pāda 3, syllable 6 रा (wrong syllable)
जटायुषा जटायुं च विद्यादायुं तथाऽऽयुषा ।सायं सायो भवेत् कोशः कोषः शण्ढश्च षण्ढवत् ॥ २३ ॥
1.23
अनुष्टुप्
तविशं तविषं चापि मुसलो मुषलोऽपि च ।वेशो वेषश्च कथितः स्याद् बुसोऽपि बुषोऽपि च ॥ २४ ॥
1.24
अनुष्टुप्
स्यात्तनुस्तनुषा सार्धं धनुना च धनुर्विदुः ।शूकरो सूकरोऽपि स्यात् शृगालश्च सृगालवत् ॥ २५ ॥
1.25
अनुष्टुप्
सूरः शूरश्च तरणौ कलसः कलशोऽपि च ।शुनासीरः सुनासीरः नारायणनरायणौ ॥ २६ ॥
1.26
अनुष्टुप्
जाम्बुवान् जाम्बवोऽपि स्याल्लक्ष्मणो लक्षणोऽपि च ।संस्तरः स्रस्तरोऽपि स्याच्चरित्रं चरितं यथा ॥ २७ ॥
1.27
अनुष्टुप्
पारतं पारदं वास्रो वासरः कृमिवत् क्रिमिः ।तृफला त्रिफला चापि तृणता त्रिणताऽपि च ॥ २८ ॥
1.28
अनुष्टुप्
भवेदृष्टिस्तथा रिष्टिः प्रियालः स्यात्पियालवत् ।कणाटीनः कटाटीनः वातिको वातिगोऽपि च ॥ २९ ॥
1.29
अनुष्टुप्
मिहिरो मुहिरोऽपि स्यान्मकुरो मुकुरोऽपि च ।मकुलं मुकुलं चापि मकुटं मुकुटं विदुः ॥ ३० ॥
1.30
अनुष्टुप्
मकुतिकं मुकुतिकं चलुकं चुलुकं यथा ।करञ्जः करजोऽपि स्यात्परेतः प्रेतवन्मतः ॥ ३१ ॥
1.31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
किर्मीरोऽपि च कर्मीरः डयनं हयनं स्मृतम् ।शौडीर्यमपि शौडीरं ज्येष्ठे ज्यैष्ठोऽपि दृश्यते ॥ ३२ ॥
1.32
अनुष्टुप्
शुष्केऽप्यवानं वानं स्यादुदके स्याद् दगं दकम् ।कुष्ठभेदे शतरुषा शतारुश्च निगद्यते ॥ ३३ ॥
1.33
अनुष्टुप्
द्रेकदृक्काणद्रेक्काणा भवन्त्यपि दृकाणवत् ।पत्रङ्गमपि पत्राङ्गे कुद्दालश्च कुदालवत् ॥ ३४ ॥
1.34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ण (wrong syllable)
मारिषं मारुषः शाके प्लीहरोगे प्लिहोऽपि च ।फेला फेलिस्तथोच्छिष्टे काकण्यां काकिणीति च ॥ ३५ ॥
1.35
अनुष्टुप्
सौदामनी सौदाम्नी च सौदामिन्यपि चेष्यते ।जरठे जठरोऽपि स्यान्निमेषे निमिषोऽपि च ॥ ३६ ॥
1.36
अनुष्टुप्
बुको बकश्च कुसुमे मदनो मथनो द्रुमे ।आरग्वधाऽऽरगवधौ क्षुरुकक्षुरकावपि ॥ ३७ ॥
1.37
अनुष्टुप्
पृष्टिः पृष्ठश्च सरयूः सरयुश्च निगद्यते ।नीलङ्गुरपि नीलाङ्गुरीश्वरी चेश्वरापि च ॥ ३८ ॥
1.38
अनुष्टुप्
तापिञ्छमपि तापिच्छं त्रपुषं त्रापुषं तथा ।दिण्डीरोऽपि च डिण्डीरः परशुः पर्शुना सह ॥ ३९ ॥
1.39
अनुष्टुप्
वालिका वालुका चापि दोर्दोषापि भुजा भुजः ।बाहुर्बाहा त्विषिस्त्विट् च सन्ध्या स्यात् सन्धिवत् पुनः ॥ ४० ॥
1.40
अनुष्टुप्
भग्नीमपि भगिनीं च झल्लरीं झलरीं विदुः ।रेतं च रेतसा सार्धमेधमाहुस्तथैधसा ॥ ४१ ॥
1.41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 गि (wrong syllable)
संवननं संवदनं तरुणी तलुनीति च ।प्रमदावनं प्रमदवनं च परिकीर्तितम् ॥ ४२ ॥
1.42
metre not recognised
खुरलिका स्यात् खुरली वज्रं वज्रोऽशनिस्तथा ।शिलमुञ्छं शिलोञ्छं च भवेदुञ्छशिलं तथा ॥ ४३ ॥
1.43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 र (wrong syllable)
धरित्र्यां धरयित्री च तविषी ताविषीति च ।वासुदेवोऽपि वासुः स्याद्वामदेवोऽपि वामवत् ॥ ४४ ॥
1.44
अनुष्टुप्
आशीराश्यहिदंष्ट्रायां लक्ष्मीर्लक्ष्मी हरेः स्त्रियाम् ।रुचकोरुवुकौ प्रोक्तावुरुवूकोऽपि तादृशः ॥ ४५ ॥
1.45
अनुष्टुप्
कुमुदं च कुमुच्चापि योषिता योषिदित्यपि ।शरद्भवेच्छरदया प्रावृट् प्रावृषया सह ॥ ४६ ॥
1.46
अनुष्टुप्
नभं च नभसा साकं तपं तु तपसा समम् ।सहं स सहसा सार्धं महं च महसा द्युतौ ॥ ४७ ॥
1.47
अनुष्टुप्
तमसेन तमः प्रोक्तं रजेनापि रजः समम् ।शाब्दिकैस्तु जलौकाभिः कथितोऽयं जलौकसः ॥ ४८ ॥
1.48
अनुष्टुप्
दिवं प्रोक्तं दिवा तुल्यं पर्षत् पर्षदया सह ।वर्षाः स्युः वरिषाभिश्च हर्षोऽपि हरिषेण च ॥ ४९ ॥
1.49
अनुष्टुप्
सर्षपः सरिषपश्च कर्षः स्यात्करिषेण च ।मार्षो मारिष इत्युक्तः स्पर्शोऽपि स्परिशोऽपि च ॥ ५० ॥
1.50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ष (wrong syllable)
एवमन्येऽपि बर्हादावूष्मवर्णाः प्रयोगतः ।मूर्धरेफा विकल्प्यन्ते छन्दोभङ्गभयादिना ॥ ५१ ॥
1.51
अनुष्टुप्
दक्षिणस्यामपाच्येव प्रायं त्वनशनं विदुः ।छन्दावभिप्रायवशौ कलज्ञः स्यात् कलाविदि ॥ ५२ ॥
1.52
अनुष्टुप्
समूहार्थस्य जातस्य चवर्गादित्वमीरितम् ।अन्तथीययकारत्वं यवसस्य तु कथ्यते ॥ ५३ ॥
1.53
अनुष्टुप्
तन्तुवायस्य वायेऽपि तन्त्रादित्वं च दृश्यते ।तुर्यस्वरादिरीर्वारुः कर्कट्यां पठ्यते बुधैः ॥ ५४ ॥
1.54
अनुष्टुप्
ह्रस्वादिरर्तिः पीडायां धनुःकोटावपीष्यते ।एतौ मध्यतवर्गीयौ वैदूर्यमणिशाद्वलौ ॥ ५५ ॥
1.55
अनुष्टुप्
तवर्गमध्यो रात्रौ च जम्बाले च निषद्वरः ।चुल्ल्यामुत्पूर्वकं ध्मानं धानं हानं च वर्तते ॥ ५६ ॥
1.56
अनुष्टुप्
तालव्यमध्यो विशदः ऊर्ध्वशब्दो वकारवान् ।यवानी स्याद्वमध्या च श्रावणो मासि मध्यवः ॥ ५७ ॥
1.57
अनुष्टुप्
शफे खुरं कवर्गीयखकारं च क्षुरप्रके ।नापितस्योपकरणे कषसंयोग इष्यते ॥ ५८ ॥
1.58
अनुष्टुप्
अव्ययानव्ययं दोषाशब्दं रात्रौ प्रचक्षते ।कन्याकुब्जं कान्यकुब्जं कोसलोत्तरकोसला ॥ ५९ ॥
1.59
अनुष्टुप्
वाराणसीत्यपि प्रोक्ता पुरी वराणसीति च ।तामलिप्ता दामलिप्ता द्रङ्गोऽप्याद्राङ्ग इत्यपि ॥ ६० ॥
1.60
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
नन्दी नन्दिश्च पत्त्री च पत्त्रिः स्यास्वस्नसा स्नसा ।यमलं यामलं द्वन्द्वं दन्द्वं खण्डिलखल्लिकौ ॥ ६१ ॥
1.61
अनुष्टुप्
जनित्री जनयित्री च कफोणिः कफणिस्तथा ।वल्मीकोऽपि च वाल्मीकः वाली वालिश्च कथ्यते ॥ ६२ ॥
1.62
अनुष्टुप्
सुमेन सार्धं कुसुमं मरन्दो मकरन्दवत् ।अहितुण्डिकमित्याहुः तथा स्यादाहितुण्डिकः ॥ ६३ ॥
1.63
अनुष्टुप्
विद्यादण्डीरमाण्डीरमणिः स्यादाणिवत्पुनः ।आमण्डमण्डावेरण्डे प्रियकेऽप्यासनोऽसनः ॥ ६४ ॥
1.64
अनुष्टुप्
अपिशलिर्मुनेर्भेदे भवेदापिशलिस्तथा ।चन्द्रभागा चन्द्रभागी खनौ खानिरपि स्मृता ॥ ६५ ॥
1.65
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
गोनासगोनसौ सर्पे फाल्गुनः फल्गुनोऽर्जुने ।स्यात् तर्जन्या युतेऽङ्गुष्ठे प्रादेशोऽपि प्रदेशवत् ॥ ६६ ॥
1.66
अनुष्टुप्
गजे मतङ्गमातङ्गौ नागे कालीयकालियौ ।रोहीतके रोहितकोऽप्यपष्ठूरेऽप्यपष्ठुरम् ॥ ६७ ॥
1.67
अनुष्टुप्
ईषीका स्यादिषीकाऽपि वानायुजवनायुजौ ।गुवाकोऽपि च गूवाकः कुचकूचौ स्तनेभयोः ॥ ६८ ॥
1.68
अनुष्टुप्
कुकरे च कुणिः कूणिः नाकौ कुलककूलकौ ।पोगण्डः स्यादपोगण्ड उलूतः स्यादलूतवत् ॥ ६९ ॥
1.69
अनुष्टुप्
काकाचिके काकचिको भवेदृस्य(श्य)स्तु रिश्यवत् ।वातूलो वातुलोऽपि स्यात् कैकयी केकयीत्यपि ॥ ७० ॥
1.70
अनुष्टुप्
विरिञ्चिश्च विरिञ्चोऽपि ब्रह्मण्यपि विरिञ्चनः ।वरुटो वरुडोऽपि स्याद्विक्कपिक्कौ गजार्भके ॥ ७१ ॥
1.71
अनुष्टुप्
कर्करेटौ करेटुश्च कुर्कुरे कुक्कुरोऽपि च ।अम्बरीषे चाऽऽम्बरीषं कुवले कुवलं कुवम् ॥ ७२ ॥
1.72
अनुष्टुप्
कुमारिलः कुमारिश्च मथि मन्थो मथोऽपि च ।वज्रो वज्रा स्नुहीभार्ग्योः वरट्यां वरटाऽपि च ॥ ७३ ॥
1.73
अनुष्टुप्
कैटभा कैटभीश्वर्यां कन्दर्यां कन्दराऽपि च ।भिदिर्भेदिश्च कुलिशे वातिर्वाते कुठे कुठिः ॥ ७४ ॥
1.74
अनुष्टुप्
करे करिः जटायां तु जटिः शिल्यां तु शिलाऽपि च ।पुलिन्दे स्यात्पुलिन्द्रोऽपि निषादिश्च निषादिनि ॥ ७५ ॥
1.75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
यतिश्च यतिनि प्रोक्तः सृक्कणी सृक्की सृक्क च ।वहितं च वहित्रं च निचुले हिज्जलेज्जलौ ॥ ७६ ॥
1.76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 क्की (wrong syllable)
विखुर्विख्रस्तथा विग्रो नासाया विगमादिति ।अमतिश्चाऽऽमतिः काले रजन्यां च तमा तमी ॥ ७७ ॥
1.77
अनुष्टुप्
विश्वप्साश्चापि विश्वप्सा सिध्म सिध्मश्च कथ्यते ।स्याद्बुक्का वृक्कया साकं धर्मे धर्म च कीर्तितम् ॥ ७८ ॥
1.78
अनुष्टुप्
ऊष्मया सार्धमूष्माऽपि मज्जोक्तो मज्जया सह ।शेफशेपौ च शेवश्च शेफः प्रोक्तं च शेपसा ॥ ७९ ॥
1.79
अनुष्टुप्
प्रापुन्नाटमित्याहुः प्रपुनाटे प्रपुन्नटम् ।अररश्चाऽररिश्चापि कवाटे स्यात् कुवाटवत् ॥ ८० ॥
1.80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 प्रा (syllables merged)
भल्लो भल्लिश्च बाणे स्याद्दले पात्रं च पत्रवत् ।ईर्ममीर्मा व्रणेऽपि स्यान्निर्झरे तु झरो झरा ॥ ८१ ॥
1.81
अनुष्टुप्
भवेदमात्येऽप्यामात्यः पीनसे स्यादपीनसः ।अन्वासनं समुद्दिष्टं तथा स्यादनुवासनम् ॥ ८२ ॥
1.82
अनुष्टुप्
यूषश्च यभनं यातु यकारद्वयवन्मतम् ।परुणा च परुर्ग्रन्थौ काश्मरी कश्मरीति च ॥ ८३ ॥
1.83
अनुष्टुप्
मातुलुङ्गे मातुलिङ्गः कदल्यां कन्दलोऽपि च ।परूषकफले प्रोक्तं परूषं परुषं तथा ॥ ८४ ॥
1.84
अनुष्टुप्
नारङ्गो नागरङ्गोऽपि स्याद्विसेऽपि विसण्डकम् ।वार्ताकुरपि वार्ताके वृन्ताकोऽपि च दृश्यते ॥ ८५ ॥
1.85
अनुष्टुप्
किसलं स्यात्किसलये गुच्छे गुञ्छो गुलुञ्छवत् ।आम्रातके स्यादम्लातममिलातकमित्यपि ॥ ८६ ॥
1.86
अनुष्टुप्
जम्बीरोऽपि च जाम्बीरः जूर्णायां जूर्णिरित्यपि ।तित्तिरौ तित्तिरोऽपि स्यात् पीलकः स्यात् पिपीलके ॥ ८७ ॥
1.87
अनुष्टुप्
गोदा गोदावरी नद्यां मधुरा मथुरा पुरि ।कवियं कविकायां च स्याद्गवेधौ गवेधुका ॥ ८८ ॥
1.88
अनुष्टुप्
मञ्जूषायां च पिटकः पेटा पेटक इत्यपि ।पादातौ च पदातिः स्यात् पादातश्च पदातिकः ॥ ८९ ॥
1.89
अनुष्टुप्
पादत्राणे तु पन्नद्ध्री भवेत्प्राणहिताऽपि च ।जलावुका जलूकायां गैरिके [च] गवेरुकम् ॥ ९० ॥
1.90
अनुष्टुप्
नासिकायां च नक्रं स्याद्वक्रे वङ्कोऽप्युदाहृतः ।सरणा च प्रसारण्यां मुष्के स्यात् फलकं फलम् ॥ ९१ ॥
1.91
अनुष्टुप्
भवेद् दाढापि दंष्ट्रायां शाल्मल्यां शल्मलीति च ।वध्वां च वधूकापि स्यात् अञ्जन्यामञ्जनाऽपि च ॥ ९२ ॥
1.92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धू (wrong syllable)
ह्रस्वान्ता स्यादलाबुश्च दीर्घान्ता च प्रतीयते ।ऊर्णनाभ इदन्तश्च किकीदिविः किकीदिवे ॥ ९३ ॥
1.93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
करेटौ करटुश्चापि दूत्यां दूतीरपि स्मृता ।स्यान्निचोले निचुलकं स्यादसिक्न्यामसिक्निका ॥ ९४ ॥
1.94
अनुष्टुप्
जीवञ्जीवे जीवजीवः चालन्यामपि चालनम् ।स्यूते स्यूनं तथा स्योनमभ्यूषेऽभ्योष इत्यपि ॥ ९५ ॥
1.95
अनुष्टुप्
करम्बो मिश्रिते बान्तो भान्तस्तु दधिसक्तुषु ।आमीक्षा ह्रस्वमध्यापि मध्योकारं च यौतकम् ॥ ९६ ॥
1.96
अनुष्टुप्
धुवित्रं निरुकारं स्यादृषौ रिषिरित्यपि ।इरिणं स्याच्च दीर्घादि कृषके कृषिकोऽपि च ॥ ९७ ॥
1.97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तालव्यदन्त्ययोरुक्ते सर्वला सर्वलीति च ।तालव्यद्वयमध्योऽसावाशुशुक्षणिरिष्यते ॥ ९८ ॥
1.98
अनुष्टुप्
विष्णौ दाशार्ह इत्यस्य मध्यतालव्यता मता ।तालव्यान्तश्च कोटीशः प्रासस्तालव्यदन्त्ययोः ॥ ९९ ॥
1.99
अनुष्टुप्
दन्त्योपान्तं तु कूर्पासमहानसमलीमसम् ।काञ्जिकादौ तु कुल्माषो दन्त्योपान्त्योऽपि कीर्त्यते ॥ १०० ॥
1.100
अनुष्टुप्
आदिदन्त्यास्तु सुषवीसम्बाकृतसमूरवः ।कुसीदं च कुसूलं च मध्यदन्त्यमुदीरितम् ॥ १०१ ॥
1.101
अनुष्टुप्
पारावारः पमध्योऽपि सोपानं दन्त्यसादि तु ।विश्वस्ता स्याद्वमध्यैव न विशस्तेत्युदाहृता ॥ १०२ ॥
1.102
अनुष्टुप्
स्यात् कवर्गद्वितीयादिः क्षादिरपि च खुल्लकः ।स्यात् पवर्गद्वितीयादिः फणायां तु फटापि च ॥ १०३ ॥
1.103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 दि (wrong syllable)
त्रयोदशस्वराद्यस्तु शोभाञ्जन उदाहृतः ।तनूनपात् तकारान्तो न तवर्गतृतीयभाक् ॥ १०४ ॥
1.104
अनुष्टुप्
तवर्गपञ्चमोपान्तमङ्गनं केवलं पुनः ।हाहाशब्दस्तु सान्तोऽपि कथितो दिव्यगायने ॥ १०५ ॥
1.105
अनुष्टुप्
चतुःशाले चवर्गीयमध्यं सञ्जवनं विदुः ।पवर्गमध्यः सन्तश्च रेफः स्यादधमार्थकः ॥ १०६ ॥
1.106
अनुष्टुप्
अन्तःस्थमध्यं वैयात्यं वेम्नि वेमश्च वेम च ।कमने कामनोऽपि स्याद्दीर्घादिः कूकुदः स्मृतः ॥ १०७ ॥
1.107
अनुष्टुप्
प्रभायामपि भाःशब्दः सान्तः पुंलिङ्ग एव च ।एडमूकेऽनेडमूकः सूर्म्यां सूर्मिरपि स्मृता ॥ १०८ ॥
1.108
अनुष्टुप्
एडूकं ह्रस्वमध्यं ह्रस्वान्ता च पदव्यपि ।शैवाले स्याच्च शेवालं शेवालं शैवलं तथा ॥ १०९ ॥
1.109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तूणा तूणी च तूणीरे मरीचं मरिचेऽपि च ।चित्रे च चित्रलोऽपि स्याच्चिन्तायां चिन्तियाऽपि च ॥ ११० ॥
1.110
अनुष्टुप्
छन्दसि स्यादनड्वाही भाषायामनडुह्यपि ।मध्योकारोऽपि चिपिटः ह्रस्वादिश्चोरणोऽप्यवौ ॥ १११ ॥
1.111
अनुष्टुप्
उत्तमायां गवि प्राहुरिकारादिं च नैचिकीम् ।साच्यर्थे साचिरप्युक्ता भूतार्थे च तथस्तथा ॥ ११२ ॥
1.112
अनुष्टुप्
चवर्गादिरपि प्रोक्तो यामिः स्वसृकुलस्त्रियोः ।वातासहो वातसहो वातूले स्यादिदं द्वयम् ॥ ११३ ॥
1.113
अनुष्टुप्
अप्सरःस्वप्सराः प्रोक्ता सुमनाः सुमनस्सु च ।बर्बरी बर्बरा शाके वितुन्नं हल्चतुष्टयम् ॥ ११४ ॥
1.114
अनुष्टुप्
तन्द्री तन्द्रिश्च (तन्द्रीश्च) तन्द्रायां कुरङ्गे च कुरङ्गमः ।पृथगच्छश्च भल्लश्च भाल्लूकेऽप्यच्छभल्लवत् ॥ ११५ ॥
1.115
अनुष्टुप्
जलायुके जलोकं च जलौकं च जलूकवत् ।घूघके साम्बुकं क्वापि बुध्ने ब्रध्नश्च दृश्यते ॥ ११६ ॥
1.116
अनुष्टुप्
लङ्गूलमपि लाङ्गूलं भम्भरा भम्भराल्यपि ।त्वचि त्वचः किरोऽपि स्यात् किरौ प्रोक्तः पथः पथि ॥ ११७ ॥
1.117
अनुष्टुप्
अजगवाऽजगावे च भवेदाजगवं तथा ।पिनाकेऽजकावं चाथ सैंहिकेये तमस्तमाः ॥ ११८ ॥
1.118
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ग (wrong syllable); pāda 3, syllable 5 का (wrong syllable)
चुलुकी चुलुपी च स्यादुलूपी शिशुमारके ।अगाधेऽस्थागमस्थाघमस्ताघं च प्रयुज्यते ॥ ११९ ॥
1.119
अनुष्टुप्
स्यान्मध्योष्मचतुर्थत्वमंहसो रंहसस्तथा ।चिह्ने ललामशब्दोऽपि स्याददन्तश्च पुंसि च ॥ १२० ॥
1.120
अनुष्टुप्