कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdabhedaprakāśa

शब्दभेदप्रकाश Śabdabhedaprakāśa

278 verses · text only, tagging comes next

ऊष्मभेदनिर्देशः · ऊष्मनिर्देशे अन्ततालव्याः

इति मध्यतालव्याः

ईशः प्रकाशकुशकेशविकाशकाश-माकाशकीशकपिशानिशपाशपेशि ।पिङ्गाशतादृशदृशः सदृशो विनाशःकीनाशकर्कशदिशो दशवेशदेशाः ॥ १६ ॥
3.3.16
वसन्ततिलका
क्रोशाशुलोमशपलाशनिवेशलेश-क्लेशप्रवेशपरिवेशवशं च दाशः ।पर्शुः पशुः परशुरंशुरुपांशुपांशु-निस्त्रिंशदंशविवशा मशवंशतंशाः ॥ १७ ॥
3.3.17
वसन्ततिलका
बालिशः कुलिशो राशिर्वराशिर्वडिशो भृशम् ।अपभ्रंशः पुरोडाशो विमर्शांशावनेकशः ॥ १८ ॥
3.3.18
अनुष्टुप्
दर्शः स्पर्शः स्पशो मर्शः कर्शो वाशा निशा कशा ।आशादर्शोर्वशीकाशीतिनिशेशाप्रतिष्कशाः ॥ १९ ॥
3.3.19
अनुष्टुप्