कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdabhedaprakāśa

शब्दभेदप्रकाश Śabdabhedaprakāśa

278 verses · text only, tagging comes next

लिङ्गभेदनिर्देशः · लिङ्गभेदनिर्देशे स्त्रीक्लीबलिङ्गाः

इति पुंस्त्रीलिङ्गाः

वडिशं तारकं तारं क्रोडं नीडं च पाटलम् ।लक्षं वणिज्यं मसूरं रसनं विश्वमर्गलम् ॥ ४२ ॥
4.5.42
अनुष्टुप्
नपुंसकत्वेऽप्येतच्च मालावत् परिकीर्तितम् ।षष्ठ्याः परा सुरा शाला सेनाच्छाया निशाऽपि च ॥ ४३ ॥
4.5.43
अनुष्टुप्
स्त्रीत्वेऽपि वनवच्चैते स्युर्नदीवदथोच्यते ।आस्थानं नगरं स्थालं स्थलं च पटलं पुरम् ॥ ४४ ॥
4.5.44
अनुष्टुप्