All kośas › Śabdabhedaprakāśa
शब्दभेदप्रकाश Śabdabhedaprakāśa
278 verses · text only, tagging comes next
ओष्ठ्यदन्त्यौष्ठ्यवकारभेदनिर्देशः · ओष्ठ्यदन्तौष्ठ्यवकारनिर्देशे वान्तशब्दसङ्ग्रहः
दन्तौष्ठ्यवान्तशब्दानां सङ्ग्रहः क्रियतेऽधुना ॥ २४ ॥
2.6.24
राजीवजीवजवयावविभावहाव-माहावदावदवदैवदिवद्रवं च ।निष्पावपौतवधवाभिषवाः शरावःसंरावपारशवसैन्धवशारिवाश्च ॥ २५ ॥
2.6.25
वसन्ततिलका
आदीनवापह्नवमार्कवाणि धामार्गवो भार्गवपुङ्गवौ च ।स्रुवाध्रुवाकैरवकैतवानि सवाडवान्याहवरौरवौ च ॥ २६ ॥
2.6.26
उपजातिः
क्षवः प्लवः पेलवश्च पल्लवो वल्लवो लवः ।शेवः शिवश्च सचिवो गाण्डीवस्ताण्डवोद्धवौ ॥ २७ ॥
2.6.27
अनुष्टुप्
अटवी कोटवी पृथ्वी लघ्वी लट्वा च खट्वया ।स्वमश्वः सत्त्वसान्त्वोर्ध्वं तत्त्वं किण्वं च कण्ववत् ॥ २९ ॥
2.6.29
अनुष्टुप्
प्राध्वं पार्श्वं च पक्वोल्वद्वन्द्वविल्वं च नल्ववत् ।अवेवैवाव्ययं चान्ये कथ्यन्ते च विचक्षणैः ॥ ३० ॥
2.6.30
अनुष्टुप्
वरपः क्वरपोऽवश्यं दन्तौष्ठ्यत्वमुदाहृतम् ।उदस्वित् किंस्विदाहोस्वित् क्विबादिप्रत्ययेष्वपि ॥ ३१ ॥
2.6.31
अनुष्टुप्
दन्तौष्ठ्यो वो गुणे वृद्धावुपमार्थे वतिस्तथा ।उपसर्गविशब्दोऽपि दन्तौष्ठ्यः समुदाहृतः ॥ ३२ ॥
2.6.32
अनुष्टुप्
ओष्ठ्यदन्त्यौष्ठ्ययोरत्र धात्वर्थादिविशेषतः ।यदि स्यादनयोः क्वापि कादाचित्को व्यतिक्रमः ॥ ३४ ॥
2.6.34
अनुष्टुप्