कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdabhedaprakāśa

शब्दभेदप्रकाश Śabdabhedaprakāśa

278 verses · text only, tagging comes next

ऊष्मभेदनिर्देशः · ऊष्मनिर्देशेऽन्तमूर्धन्याः

इति मध्यमूर्धन्याः

पेयूषयूषपीयूषगण्डूषजूषविप्रुषः ।वातरूषो वरूषश्च खलूषाऽरूषपूरुषाः ॥ ३१ ॥
3.9.31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
हनूषः कल्मषः पूषोऽभ्यूषश्चूषो मनीषया ।हेषा ह्रेषा जिगीषा च स्नुषाऽतिविषया सह ॥ ३२ ॥
3.9.32
अनुष्टुप्
रौहिषो महिषोन्मेषप्रमोषामिषमारिषम् ।कल्माषोष्णीषकुल्माषमाषमेषमिषं मृषा ॥ ३३ ॥
3.9.33
अनुष्टुप्
किल्बिषं कलुषं चोषस्ताविषस्तविषो विषम् ।तविषी त्रपुषी रोषस्तृषातोषतुषत्विषः ॥ ३४ ॥
3.9.34
अनुष्टुप्
अभिलाषो भषोऽभ्रेषपरुषाव्यथिषेषवः ।मञ्जूषा निकषाद्वेषदोषाः कोषः कषः कृषिः ॥ ३५ ॥
3.9.35
अनुष्टुप्
उषाऽपुषवृषव्योषवेषास्तर्षझषर्षयः ।हर्षो वर्षश्च संहर्षः कर्षः कर्षूः प्रुषः प्लुषः ॥ ३६ ॥
3.9.36
अनुष्टुप्
अम्बरीषं करीषं च तरीषं च पुरीषवत् ।निष्पेषोऽलम्बुषः पौषो घोषश्चेषः पलङ्कषः ॥ ३७ ॥
3.9.37
अनुष्टुप्