All kośas › Śabdabhedaprakāśa
शब्दभेदप्रकाश Śabdabhedaprakāśa
278 verses · text only, tagging comes next
ऊष्मभेदनिर्देशः · ऊष्मनिर्देशे आदितालव्याः
इत्योष्ठ्यदन्तौष्ठ्यवकारनिर्देशो द्वितीयः समाप्तः ।
श्यामाकशाकशुकशीकरशोकशूक-शालूकशङ्कुशकशङ्करशुक्रशक्राः ।शौडीरशाटिशकटाः शिपिविष्टशिष्ट-शाखोटशाटकशटी शटितं शलाटुः ॥ २ ॥
3.1.2
वसन्ततिलका
शीतं च शातशितशातनशुम्बशम्ब-शम्बूकशम्बरशुनारशिवाः शिलिन्ध्रः ।शेपः शुभं शरभशारभशुम्भशम्भु-श्वभ्राणि शुभ्रशरदौ शकुनिः शकुन्तिः ॥ ३ ॥
3.1.3
वसन्ततिलका
शालाशिलाशिवलशाद्वलशालुशेलु-शार्दूलशूलशबलाः शमलं शृगालः ।शेफालिकाशिथिलशृङ्खलशिलशैल-शेवालशल्यशलशम्बलशैवलानि ॥ ४ ॥
3.1.4
वसन्ततिलकाmetre not read in every linenearly वसन्ततिलका: pāda 1, syllable 11 शि (wrong syllable)
शालालुशालशलिशाल्मलिशुक्लशल्क-शुल्कानि शिल्पशलभौ शललं शलाका ।श्रोणिः शणश्रवणशोणितशोणशाणाःश्रेणीश्रुतश्रमणशून्यशरण्यशङ्काः ॥ ५ ॥
3.1.5
वसन्ततिलका
शोचिः शचीशुचिशयाः शरुशर्मशीर्ण-श्रीपर्णशोथशपथश्लथशण्डशण्ढाः ।श्रयः श्रमः शमनशोधनशिक्यशाक्य-शाण्डिल्यशल्वलशमीशुनकाः श्रविष्ठाः ॥ ६ ॥
3.1.6
वसन्ततिलकाmetre not read in every linenearly वसन्ततिलका: pāda 1, syllable 1 श्र (wrong syllable)
शाखाशिखाशिखरशेखरशङ्खशाप-शम्पाशिफाशफरशेफशफाः शिखण्डः ।शृङ्गारशृङ्गशवशावशरारिशारि-शाराः शरावशवरश्वशिरःशिराश्च ॥ ७ ॥
3.1.7
वसन्ततिलका
शरीरशालारशला(रा)रुशेरु-शोभाञ्जनश्रावणशादशूद्राः ।श्येनः शनैः श्लीपदशिग्रुशीधु-शुद्धान्तशान्ताः शितिशूर्पशौण्डाः ॥ ८ ॥
3.1.8
उपजातिः
शण्ठः शुण्ठी शठः श्रेष्ठश्वित्रश्रोत्राणि शर्करा ।शक्वरीशर्वरीशक्तिशुक्तिशुक्तानि शष्कुली ॥ ९ ॥
3.1.9
अनुष्टुप्
श्रान्तश्वेतशिविश्यावशत्रुश्वयथु शाकिनी ।शिशुः श्लोकश्च शुल्वं च शालीनश्च शिलीमुखः ॥ १० ॥
3.1.10
अनुष्टुप्
श्लक्ष्णं श्लाघा च शीघ्रं च शक्यं श्रद्धा च शिञ्जया ।श्योनाकः शूरणः श्राणा शिक्षा श्यामा च शेवधिः ॥ ११ ॥
3.1.11
अनुष्टुप्