कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdabhedaprakāśa

शब्दभेदप्रकाश Śabdabhedaprakāśa

278 verses · text only, tagging comes next

ओष्ठ्यदन्त्यौष्ठ्यवकारभेदनिर्देशः · ओष्ठ्यदन्तौष्ठ्यवकारनिर्देशे पवर्गीयबकारनिर्देशः

कथ्यन्तेऽथ पवर्गीयबान्तशब्दाश्च केचन ।गन्धर्बखर्बगर्बाऽऽह्बाजिह्वापूर्बश्च दुर्बया ।रोलम्बः शतपर्बोर्बी दार्बी चार्बी च दर्बिवत् ॥ ९ ॥
2.3.9
अनुष्टुप्

षट्पदी

कदम्बकादम्बनितम्बचिम्बा-निम्बप्रलम्बाऽम्बुविडम्बडिम्बाः ।करम्बहेरम्बकुटुम्बकुम्बा-स्तुम्बीकलम्बीशबलुम्बिचुम्बाः ॥ १० ॥
2.3.10
उपजातिः
जम्बूः कम्बुरलाबूश्च शम्बः शुम्बाऽम्बया सह ।शिम्बा लम्बा च ताडम्बगोडुम्बस्तम्बकम्बयः ॥ ११ ॥
2.3.11
अनुष्टुप्