कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdabhedaprakāśa

शब्दभेदप्रकाश Śabdabhedaprakāśa

278 verses · text only, tagging comes next

ओष्ठ्यदन्त्यौष्ठ्यवकारभेदनिर्देशः · सामान्यौष्ठ्यदन्त्यौष्ठ्ययोर्निर्देशः

इति शब्दभेदनिर्देशः प्रथमः समाप्तः

वृन्दारकव्रजवराटकवन्दिवन्दा-वन्दारुवैरबदरीविटपान् विटं च ।विद्वद्व्रणौ वरणवृंहणबोधवेध-बन्धूरबन्धुबधिरान् वधबन्धवृद्धान् ॥ १ ॥
2.1.1
वसन्ततिलका
वेलाबलौ बहुलबाहुलकव्यलीक-बोलं बिलं बलजवालकवालुकाश्च ।वेहद्बृहद्वहलवाहनवाहुबभ्रु-वस्तं बलिं वनबलाहकवङ्कवीथी ॥ २ ॥
2.1.2
वसन्ततिलका
वालेयवञ्जुलवराजबकान् बलाका-वाङ्गुलिकाबकुलबुक्कबकेरुकाश्च ।वारूढवाढवरटानपि बार्बटीर-वारुण्डवण्डकवरण्डकबर्बटीश्च ॥ ३ ॥
2.1.3
वसन्ततिलकाmetre not read in every linenearly वसन्ततिलका: pāda 2, syllable 2 ङ्गु (wrong syllable)
वाहिनीं वनितां वेदीं वणिज्यां वारि बन्धुरम् ।वरत्रां वर्धनीं वृन्तं वटकं वसुकं वटम् ॥ ४ ॥
2.1.4
अनुष्टुप्
वासनावासितावास्रवीरवासरवागुराः ।व्राह्मणीं वाणिनीं वाणीं वानीरं वानरं वचाम् ॥ ५ ॥
2.1.5
अनुष्टुप्
विहगाख्यं विशब्दं चाप्यव्ययं चैव वेति च ।वर्तरूकं वदान्यं च विद्याद्वाद्यं च वादितम् ॥ ६ ॥
2.1.6
अनुष्टुप्