कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdabhedaprakāśa

शब्दभेदप्रकाश Śabdabhedaprakāśa

278 verses · text only, tagging comes next

लिङ्गभेदनिर्देशः · लिङ्गभेदनिर्देशे पुंनपुंसकलिङ्गसङ्ग्रहः

इत्यूष्मभेदः

अथ लिङ्गभेदः

आकाशकाशकुलिशाङ्कुशकोशकेश-कासीसकीकसकुशाः कणिशोपवासौ ।कर्पासवेशवडिशांसवतंसतंस-वीतंसकंसरसमांसविशो(विसो)पदंशाः ॥ १ ॥
4.1.1
वसन्ततिलका
निर्यासरासचमसेच्छुसचिक्कसानिसन्तानशङ्खसुखसैन्धवसङ्गमानि ।सौधश्मशानशयनाशनशूकशल्य-शूलानि शुल्कशफशेफसिमीकशम्बाः ॥ २ ॥
4.1.2
वसन्ततिलका
स्नानः सिनः किसलयं शकटो वसन्त-वेशन्तशेषशकलाः सरकश्च पुच्छः ।पुष्पं सटं सरटशूर्पसृपाटशङ्कु-सङ्कारसङ्क्रमशरावशबाश्च सालः ॥ ३ ॥
4.1.3
वसन्ततिलका
आसारवासरसमीरशरीरसीराःसोशीरशेखरशराः शिखरस्तुषारः ।संसारसारससिराणि शरासनास्र-कासारकेसरकुकुन्दरकन्दराणि ॥ ४ ॥
4.1.4
वसन्ततिलका
कोटीरकोटरकडङ्गरसङ्गराणिक्षीराक्षराधरयुगन्धरकन्धराणि ।वीरान्धकारसविहारसुनारवार-केनारकूबरनिषद्वरगह्वराणि ॥ ५ ॥
4.1.5
वसन्ततिलका
केदारदारुदरतोमरचामराणिहिञ्जीरजीरवरपञ्जरपिञ्जराणि ।मञ्जीरमञ्जरकुठिञ्जरपारवारि-प्रावारवेरगरवागरनागराणि ॥ ६ ॥
4.1.6
वसन्ततिलका
सौवीरशाक्वरमदारपदारपौर-पातीरवार्दरदुरोदरशम्बराणि ।आडम्बराम्बरसनूपुरकर्णपूर-कर्पूरपार्परसकूर्परकर्पराणि ॥ ७ ॥
4.1.7
वसन्ततिलका
धाराङ्कुरप्रतिसरावसरप्रकार-सीत्कारसीकरनिकारमसारसाराः ।कान्तारतारतिमिरान्तरतुरतीर-पङ्कारकारसमराजिरवेसवाराः ॥ ८ ॥
4.1.8
वसन्ततिलकाmetre not read in every linenearly वसन्ततिलका: pāda 1, syllable 11 तु (wrong syllable)
अङ्गारमन्थरपरम्परविष्टराणिसिन्दूरपुष्करमरुष्करनिष्कमुष्काः ।शृङ्गारहारजठरोदरगण्डशैल-कीलालकीलकवलानि कलापकोलम् ॥ ९ ॥
4.1.9
वसन्ततिलका
शीलप्रवालवलयोपलमूलकानिकङ्कालमङ्गलहलाहलचक्रवालम् ।कोलाहलं हलकुतूहलकालकूट-किट्टालशालकललानि खलं खलीनम् ॥ १० ॥
4.1.10
वसन्ततिलका
तूलाङ्गुलोत्पलपलालतमालताल-शेवालगोलकलकुण्डलमण्डलानि ।लाङ्गूललाङ्गलकपोलकपालवाल-जम्बालजालपटलालकजङ्गलानि ॥ ११ ॥
4.1.11
वसन्ततिलका
विदलं कन्दलं भालं कमलं नलिनं तलम् ।वालकं तिलकं तैलं मलिनं पल्वलं पलम् (फलम्) ॥ १२ ॥
4.1.12
अनुष्टुप्
पुलकं फलकं फालं पुलिनं तलिमं नलम् ।मलयं प्रलयं लोहं लोहितं मुसलं शलम् ॥ १३ ॥
4.1.13
अनुष्टुप्
चषालं शम्बलं शुक्लं किञ्जल्कं वल्कवल्कले ।कुलकं कूलकं चोलं खोलकं चावचूलकम् ॥ १४ ॥
4.1.14
अनुष्टुप्
अर्धर्चकूर्चकवचानि निकुञ्जकुञ्ज-पुञ्जध्वजाब्जजलजाम्बुजतूर्यभूर्जाः ।कन्दास्पदद्रवनिवातवितानवित्त-वीतोपवीतनवनीतसुवर्णचूर्णाः ॥ १५ ॥
4.1.15
वसन्ततिलका
भावापराह्णपलितव्रतवृन्तकुन्त-पिष्टाम्बुमेषवृषलानि समूषिकानि ।उत्कोचकुक्कुटविटा विटपः कुटश्चवज्रं धनुश्चरकमेचकचक्रपिण्डाः ॥ १६ ॥
4.1.16
वसन्ततिलका
विडङ्गकालिङ्गमृदङ्गशृङ्ग-वराङ्गवाराङ्गनिदाघसङ्घम् ।भालाङ्कवर्चस्कवलीकवक्त्र-छत्रं सहस्राव्ययमध्यमं च ॥ १७ ॥
4.1.17
उपजातिः
मुहूर्तमुद्यानभगाब्धमान-सिंहाणकोद्योगपरागपूगाः ।वातयनैरावतहस्तपुस्त-मुस्तात्यया मस्ताकमुस्तके च ॥ १८ ॥
4.1.18
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 2 त (wrong syllable); pāda 2, syllable 6 स्ता (wrong syllable)
कोष्ठः प्रकोष्ठः कमठः सकुष्ठःशिखण्डकोदण्डपिचण्डचण्डाः ।कूष्माण्डकारण्डकरण्डकुण्डावरण्डवारुण्डसरण्डशौण्डाः ॥ १९ ॥
4.1.19
उपजातिः
भाण्डाण्डकाण्डानि तरण्डमुण्ड-गाण्डीवमण्डानि च गाण्डिवं च ।प्रकाण्डदण्डावपि षण्डखण्डौसताण्डवं मण्डपमञ्चकं च ॥ २० ॥
4.1.20
उपजातिः
करककोरकपाटकनाटकंकटककण्टककन्दुकमोदकम् ।मरकटङ्कविटङ्ककिरीटकंस्तबकपङ्ककरङ्ककरीरकम् ॥ २१ ॥
4.1.21
द्रुतविलम्बितम्
क्षुरकपक्षकहारकहीरकंप्रियकरोककटक्रकचच्छदम् ।ककुददोहदवृन्दगुदार्बुदंकुमुदतोयदकुन्दकुसीदकम् ॥ २२ ॥
4.1.22
द्रुतविलम्बितम्
नलदपारदकुट्टिमदैवतंरजतदैवदिनावटकर्पटम् ।कुणपदीपककञ्चुकचूचुकंक्रमुकरालकचेलककीलकम् ॥ २३ ॥
4.1.23
द्रुतविलम्बितम्
पिन्नाकपिण्याकतिरीटकूट-किरीटशृङ्गाटककङ्कटानि ।अष्टापदं पातकपार्श्वमेढ्राभ्राष्ट्रं च राष्ट्रं च नखो मुखं च ॥ २४ ॥
4.1.24
उपजातिः
वल्मीकवर्णकनटार्गलबिम्बवप्र-कौपीनवस्ननिधनानि धनं निधानम् ।द्युताम्बरीषचषकायुधगूथयूथ-प्रोथानि तीर्थहरिचन्दनचन्दनानि ॥ २५ ॥
4.1.25
वसन्ततिलकाmetre not read in every linenearly वसन्ततिलका: pāda 1, syllable 1 द्यु (wrong syllable)
प्रग्रीवगोमयकवाटपटाः पटोल-प्रान्तायुतप्रयुतभूतशताः शताह्वः ।स्नेहो गृहं महिमहेमहिमाः सपुच्छ-तापिञ्छकच्छकपटाः पटहार्मधर्माः ॥ २६ ॥
4.1.26
वसन्ततिलका
स्तम्भः शुभं ककुभकौस्तुभजम्भयूप-कूपोपजापकुतपानि निपः प्रदीपः ।द्वीपोलपौ लवणकङ्कणवाद्यमध्य-क्षेमोद्यमानि भुवनो(नौ)दनजीवनानि ॥ २७ ॥
4.1.27
वसन्ततिलका
सूत्रं सवस्त्रमखनेत्रपवित्रपत्र-पात्रीवशात्रवहरिद्रववर्ध्ररन्ध्राः ।स्थानं कबन्धकुसुमप्लवलोमशुल्व-क्षौमावसानशतमानविमानगुल्माः ॥ २८ ॥
4.1.28
वसन्ततिलका
तडागं निगडं नीडं नडं क्ष्वेडितमुल्मुकम् ।मासमाषकपद्मानि बर्हिर्गेहेन्धनानि ॥ २९ ॥
4.1.29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
लशुनं लाञ्छनं ग्राममनीकं घासमानकम् ।यावनं कवियं हावं पारावारार्धगैरिकम् ॥ ३० ॥
4.1.30
अनुष्टुप्
आमिषं मुषलं माषं यूषं वर्षं च दूषणम् ।भूषणं निकषः कर्षः कषायो विषमौषधम् ॥ ३१ ॥
4.1.31
अनुष्टुप्
करीषकार्षापणवारवाण-वाणव्रणद्रोणरणाः पुराणः ।भाणः किणः पक्वणकोणशाणाःसतोरणघ्राणपरीपणाश्च ॥ ३२ ॥
4.1.32
उपजातिः
जीवातुकुस्तुम्बुरुवास्तुकम्बु-कशेरुशीधुर्मधुसिन्धुसानु ।कमण्डलुर्जानुपलाण्डुहिङ्गु-स्थाणुस्तथाऽणुस्तितउः सजन्तु ॥ ३३ ॥
4.1.33
उपजातिः
चरणं वारणं लोष्ठं प्रस्थं कुल्यं सपल्लवम् ।पुंनपुंसकशब्दानां संज्ञेयं तु सुनिश्चिताम् ॥ ३४ ॥
4.1.34
अनुष्टुप्