All kośas › Śabdabhedaprakāśa
शब्दभेदप्रकाश Śabdabhedaprakāśa
278 verses · text only, tagging comes next
ग्रन्थकृत्प्रशस्तिः
इति स्त्रीक्लीबलिङ्गाः
इति लिङ्गभेदनिर्देशश्चतुर्थः
श्रीसाहसाङ्कचरितप्रमुखासु गद्य-पद्यप्रबन्धरचनासु वितन्वतैव ।व्युत्पत्तिमुज्ज्वलतमां परमां च शक्ति-मुल्लासिता जगति येन सरस्वतीयम् ॥ १ ॥
5.1
वसन्ततिलका
निःशेषवैदिकमताम्बुधिपारदृश्वाशब्दागमाम्बुरुहखण्डरविः कवीन्द्रः ।यत्नाद् महेश्वरकविर्निरमात् प्रकाम-मालोक्यतां सुकृतिनस्तदसावनर्थः ॥ २ ॥
5.2
वसन्ततिलका
युग्मम्
नामपारायणोणादिनिरुक्तोक्तिविकल्पितैः ।शब्दैर्वर्णविधेश्चान्तैः संदृब्धो ह्येष साधुभिः ॥ ३ ॥
5.3
अनुष्टुप्
कर्तुं चेतश्चमत्कारं सतां हर्तुं विपर्ययम् ।संशयं च निराकर्तुमययमस्य परिश्रमः ॥ ४ ॥
5.4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 मय (syllable split)