All kośas › Śabdabhedaprakāśa
शब्दभेदप्रकाश Śabdabhedaprakāśa
278 verses · text only, tagging comes next
शब्दभेदनिर्देशः (2/2)
द्रविडः स्यान्ममध्योऽपि काफलं चापि कट्फले ।व्रीडायां च भवेद् व्रीडः लज्जामात्रेऽप्यपत्रपा ॥ १२१ ॥
1.121
अनुष्टुप्
उण्डूकं ह्रस्वमध्यं च ह्रस्वादिः स्यादलिन्दकः ।तथा कुरवके रेफो निरुकारः प्रयुज्यते ॥ १२२ ॥
1.122
अनुष्टुप्
मञ्जिष्ठायां च भण्डीरी मध्यह्रस्वापि पठ्यते ।दीर्घादिर्वृश्चिकेऽपि स्यादाली स्यादालिरित्यपि ॥ १२३ ॥
1.123
अनुष्टुप्
बुक्को बुक्का स्मृतौ बुक्नि ग्रैवं ग्रैवेयकेऽपि च ।खञ्जे खोडश्च खोरश्च स्यात्तरि तरिरित्यपि ॥ १२४ ॥
1.124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त्त (wrong syllable)
नासिकायां च नस्तापि मथि मन्थाक इत्यपि ।कार्तस्वरं मध्यदन्त्यं सीहुण्डः स्यात् सिहुण्डवत् ॥ १२५ ॥
1.125
अनुष्टुप्
ओष्ठ्यो दन्त्यो लुलायोऽपि मारुतेऽपि हलन्तता ।विद्यात् पुरुरवःशब्दे रुकारस्यापि दीर्घता ॥ १२६ ॥
1.126
अनुष्टुप्
स्यात् कुरण्डोऽपि दीर्घादिः सुरे ज्येष्ठोऽपि सम्मतः ।नालिकेर इदन्तोऽपि तथा दीर्घद्वितीयवान् ॥ १२७ ॥
1.127
अनुष्टुप्
काण्डे शरः शुभं क्षेमे शारः शबलवातयोः ।किंशुकश्च शुकश्चापि स्मृतास्तालव्यदन्त्ययोः ॥ १२८ ॥
1.128
अनुष्टुप्
सूनाशुङ्गासुरुङ्गास्तु दन्त्यतालव्ययोरपि ।कोटीशश्चाप्यदन्तस्तु ऋभुक्षः स्वर्गवज्रयोः ॥ १२९ ॥
1.129
अनुष्टुप्
किन्नराश्वमुखौ भिन्नाभिन्नौ दैत्यासुराविव ।रिष्टारिष्टे अभिन्नार्थे भिन्नार्थे च क्वचिन्मते ॥ १३० ॥
1.130
अनुष्टुप्
वाग्ग्मी वाल्म्मीकमित्त्रोल्क्कासत्त्रछत्त्रपतत्त्रिणः ।संस्स्कर्त्तेत्यादिसंयोगिशब्देश्वनुपयोगिषु ॥ १३१ ॥
1.131
अनुष्टुप्
इदं तुल्याक्षरद्वन्द्वं स्यान्न चेद् भेदकं क्वचित् ।यमकादावपीत्येषा चिन्ताऽस्माभिरुपेक्षिता ॥ १३२ ॥
1.132
अनुष्टुप्
तथा ह्यपश्यदद्राक्षिदित्यत्राऽर्थे क्रियापदम् ।अपःपयस्तनूकुर्वदित्यन्यत्र पदद्वयम् ॥ १३३ ॥
1.133
अनुष्टुप्