कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdabhedaprakāśa

शब्दभेदप्रकाश Śabdabhedaprakāśa

278 verses · text only, tagging comes next

ऊष्मभेदनिर्देशः · ऊष्मनिर्देशे मध्यमूर्धन्याः

इत्यादिमूर्धन्याः

पुष्पाभिषेकौषधयोषिदीषद्-दृषत्तुराषाट्विषुवन्निषेधाः ।दुःषेधभैषज्यकषायघोषणंहृषीकमीर्ष्या च विषादवर्षणे ॥ २६ ॥
3.8.26
upajati mixed
ऐषमो वर्ष्मभीष्मोष्मनिषादाषाढगोष्पदम् ।अभिषङ्गोऽनुषङ्गश्च दुष्खं वार्धुषिको द्विषन् ॥ २७ ॥
3.8.27
अनुष्टुप्
दूषीका चषकः प्रेष्यो भाष्यं च धिषणैषणे ।पृषतः परिषत् पर्षत् तुषारोषरमर्षणम् ॥ २८ ॥
3.8.28
अनुष्टुप्
वास्तोष्पतिर्दिविषदो दुष्पीडं च बहिष्कृतम् ।निष्कुटः किष्कुमस्तिष्कपुष्करं दुष्करेषिरौ ॥ २९ ॥
3.8.29
अनुष्टुप्
तुरुष्कमुष्कविष्कम्भनिष्कनिष्कलपुष्कलम् ।वस्तिष्कं वष्कयिण्या च लोष्टेष्टप्लुष्टविष्टरम् ॥ ३० ॥
3.8.30
अनुष्टुप्