कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdabhedaprakāśa

शब्दभेदप्रकाश Śabdabhedaprakāśa

278 verses · text only, tagging comes next

ऊष्मभेदनिर्देशः · ऊष्मनिर्देशे मध्यदन्त्याः

इत्याद्यदन्त्याः

वासारासारकासारकेसरप्रसरासुराः ।वेसवारः परिसरो मसूरः कुसुमासनम् ॥ ४८ ॥
3.14.48
अनुष्टुप्
प्रासादापसदासन्दीव्यासङ्गास्रवदस्यवः ।प्रसूनं प्रसवो लास्यमास्यं प्रसभरासभौ ॥ ४९ ॥
3.14.49
अनुष्टुप्
अवसायः किसलयं कुसूलं च विकस्वरम् ।मसृणं प्रासनी वासी भस्माकस्मिकघस्मराः ॥ ५० ॥
3.14.50
अनुष्टुप्
अमावस्या प्रतिसरः प्रसारोऽवसरोऽपि च ।वसन्तश्च मसारश्च मासुरी च रसाञ्जनम् ॥ ५१ ॥
3.14.51
अनुष्टुप्
वसुधाध्यवसायास्रवसनव्यसनानि च ।तमिस्रं वास्रघस्रोस्राजस्रविस्रम्भवासिताः ॥ ५२ ॥
3.14.52
अनुष्टुप्