All kośas › Śabdabhedaprakāśa
शब्दभेदप्रकाश Śabdabhedaprakāśa
278 verses · text only, tagging comes next
ऊष्मभेदनिर्देशः · ऊष्मनिर्देशे मध्यतालव्याः
इत्यादितालव्याः
उशीरकाश्मीरककिंशुकांशुकंकिशोरकिंशारुकशेरुकौशिकम् ।जलाशयाशोककृशानुकाश्यपायशःपिशङ्गाश्मपिशाचरश्मयः ॥ १२ ॥
3.2.12
वंशस्थम्
निशान्तवेशन्तविशालपेशलंबिलेशयाश्वत्थनिशीथविंशति ।विशङ्कटानुशयाश्र(श)याश(श्र)याःसहोपस(श)ल्याशनवाशिताश्विनैः ॥ १३ ॥
3.2.13
वंशस्थम्metre not read in every linenearly upajati 12
निशितं पिशितं प्रश्नः पिशुनो दशनोऽपि च ।उशना लशुनो वेश्म कश्मलं विश्वमश्ववत् ॥ १४ ॥
3.2.14
अनुष्टुप्
वश्यावश्यायविशिखविशाखत्रिशिखाशिषः ।विशदः पाशकः पार्श्वं विश्रामश्चेश्वरोऽशनिः ॥ १५ ॥
3.2.15
अनुष्टुप्