कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdabhedaprakāśa

शब्दभेदप्रकाश Śabdabhedaprakāśa

278 verses · text only, tagging comes next

ऊष्मभेदनिर्देशः · ऊष्मनिर्देशे आद्यदन्त्याः

इति तालव्यान्तमूर्धन्याः

सद्यः सुधासलिलसुन्दरसिन्दुवार-सिन्दूरसान्द्रसिकतासितसेतुसूताः ।सालूरसूरसरकस्वरसौरिसूरि-स्मेरस्मराः समरसारसमीरसीराः ॥ ४१ ॥
3.13.41
वसन्ततिलका
सौवीरसागरसरित्सुतसारमेयाःसंवित्समित्सकलसल्हकसौविदल्लाः ।स्वादः सदासपदिसूदसदःसरण्डाःस्वेदः स्वरुः सवनसीवनसत्रसूत्रम् ॥ ४२ ॥
3.13.42
वसन्ततिलका
स्वामी समः समयसामजसामिधेनी-सोमाः समूहसमवायसमुद्रसामि ।सीमन्तसीमसिमसूमसमानसुह्माःसूक्ष्मं समूढसरटस्तनसानुसूनु ॥ ४३ ॥
3.13.43
वसन्ततिलका
स्फालः सृणिः सरणिसारथिसिक्थसक्थि-सार्थाः सहाचरसमाजसमीपसूर्याः ।स्वैरं सरः सचिवसूचनसुचिसाचि-सव्यानि सद्मसदनस्यदसूपसूर्पाः ॥ ४४ ॥
3.13.44
वसन्ततिलकाmetre not read in every linenearly वसन्ततिलका: pāda 1, syllable 11 सु (wrong syllable)
सायः स्मितं सायकसक्तुसेना-सिन्धुस्फरस्रुक्सहदेवसर्गाः ।सेकस्रजौ सेवकसेवसन्तःसत्त्वं च सातिश्च सखा सुखं च ॥ ४५ ॥
3.13.45
इन्द्रवज्रा
सनातनस्यन्दनसाधनानिसङ्कारसैरेयकसज्जसर्पिः ।ससावरौ सूनृतसङ्कुलौ चसर्वं च साक्षी सविता च सृक्कि ॥ ४६ ॥
3.13.46
उपजातिः
सैरन्ध्री च सिनीवाली सारङ्गस्वप्नसाम्प्रतम् ।स्नायुः स्नेहः स्नुही सह्मः सरघा सौरभं सभा ॥ ४७ ॥
3.13.47
अनुष्टुप्