All kośas › Śabdabhedaprakāśa
शब्दभेदप्रकाश Śabdabhedaprakāśa
278 verses · text only, tagging comes next
ओष्ठ्यदन्त्यौष्ठ्यवकारभेदनिर्देशः · ओष्ठ्यदन्त्यौष्ठ्यवकारनिर्देशे आदिदन्त्यौष्ठ्याः
विन्दुविद्रुमवरेण्यविक्रमाबिम्बवर्त्मविशदाश्च विद्यया ।व्याघ्रवप्रवरवेरवर्करावार्दरो वशिरवारवागराः ॥ १२ ॥
2.4.12
रथोद्धता
वामवामनविमानवेदना-वानविन्नवमनं विलेपनम् ।वातवातिकवितानवर्त्तनी-वर्तिवेतनवासन्तवृत्तयः ॥ १३ ॥
2.4.13
रथोद्धताmetre not read in every linenearly रथोद्धता: pāda 2, syllable 6 वा (wrong syllable)
वार्ताविच्छित्तिवृत्तान्तवितण्डाश्च वितुन्नकम् ।विकटो वेकटो व्युष्टिर्विष्टिविष्टरवेष्टनम् ॥ १४ ॥
2.4.14
अनुष्टुप्
वल्लूरो वल्लरी वल्ली वेल्लितं वल्लभोऽपि च ।विदेहो विग्रहो बर्हो बहिर्बर्हिर्विहायसः ॥ १५ ॥
2.4.15
अनुष्टुप्
व्यञ्जनं व्यजनं वज्रं वैजयन्ती विशारदः ।व्यालवण्ठालवल्मीकवामिला वाल्हिको वली ॥ १९ ॥
2.4.19
अनुष्टुप्
वालो विचकिलो वङ्गविडङ्गवेगवर्गणम् ।विवशो वासितं वेशवैश्यविस्रम्भवेशयः ॥ २० ॥
2.4.20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
विदारी विवरो वीरुदित्याद्यन्तस्थवादयः ।
2.4.11