कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अपस्नान

apasnānaक्ली · neut.

In 8 kośas: 7 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.40 · p. 19
मृतस्नानमपस्नानं निवापः पितृतर्पणम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.639 · p. 72
क्रन्दितं रुदितं प्रोक्तं विलापः परिदेवनम् ।अपस्नानं मृतस्नानं निवापः पितृतर्पणम् ॥ ६३९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.75 · p. 270
[125a] द्युपात-लोकान्तरगाप्तपञ्चत-व्यापन्न-नष्टाश्च विशेष्यलिङ्गगाः ।मृतस्य शय्या तु खडूः स्त्रियां महा-शय्याप्यपस्नानमजीविताप्लुतिः ॥ ७५ ॥
upajati 12
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.39 · p. 106
तदर्थं तदहे दानमौर्ध्वदेहिकमुच्यते ।अपस्नानं मृतस्नानं महामलनिवारणम् ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.556 · p. 71
मृताहे दीयते दानमौर्ध्वदेहिकनामकम् ।अपस्नानं मृतस्नानं तिलापः पितृतपर्णम् ॥ ५५६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1250 · p. 153
अपवर्जनदाने च स्पर्शनं च प्रदेशनम् ।मृतस्नानमपस्नानं त्रिषु स्यादौर्ध्वदेहिकम् ॥ १२५० ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.64 · p. 88
निवापः पितृदानं स्यादामपात्रं तु वापिमम् ।मृतस्नानमपस्नानं श्राद्धन्तु पितृभोजनम् ॥ ६४ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.5 · p. 18
अन्वाहार्यममावास्याश्राद्धमिष्टेश्च दक्षिणा ।अपस्रानं मृतस्नाने येन स्नातं च वारिणा ॥ ५ ॥
अनुष्टुप्
doubtful