कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दान

dānaक्ली · neut.

In 20 kośas: 40 synonym verses, 13 as a nānārtha head word, 99 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.52 · p. 19
दानमुत्सर्जनं त्यागः प्रदेशनविसर्जने ।विहायितं वितरणं स्पर्शनं प्रतिपादनम् ॥ ३८६ ॥विश्राणनं निर्वपणमपवर्जनमंहतिः ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.516 · p. 30
सामदानभेददण्डा उपायाः साम सान्त्वनम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1223 · p. 47
उदग्रदन्नीषादन्तो बहूनां घटना घटा ।मदो दानं प्रवृत्तिश्च वमथुः करशीकरः ॥ १२२३ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.52
त्यागो विहापितं दानमुत्सर्जनविसर्जने ।विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥प्रादेशनं निर्वपणमपवर्जनमंहतिः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.20
भेदो दण्डः साम दानमित्युपायचतुष्टयम् ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.61
गण्डः कटो मदो दानं वमथुः करशीकरः ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.217 · p. 27
दानं मदो विषाणौ च दशनौ स्कन्ध आसनम् ।अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका ॥ २१७ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.419 · p. 48
विश्राणनं विहापितमंहतिरपवर्जनं वितरणं च ।निर्वपणं च स्पर्शनमुत्सर्गः स्यात्प्रदेशनं दानम् ॥ ४१९ ॥
गीतिः
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 62 · p. 6
तद्गण्डमण्डले च स्यात्सीधुपात्रं तु सेचनम् ।दानं तु तन्मदे चापि तद्भेदे मेघमित्यपि ॥ ६२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.42 · p. 73
यजनं याजनं पाठोऽध्यापनं च प्रतिग्रहः ।दानं चेति च षड्यत्र सा स्यादाजीविका स्त्रियाम् ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.99 · p. 79
चत्वारस्ते पाकयज्ञा ब्रह्मयज्ञोऽत्र पञ्चमः ।त्यागो विहापितं दानमुत्सर्जनविसर्जने ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.82 · p. 98
स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् ।सामदाने भेददण्डावित्युपायचतुष्टयम् ॥ ८२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.163 · p. 107
मदो दानं प्रवृत्तिश्च वमथुः करसीकरः ।करिनासा तु हस्तार्थः शुण्डा शुण्डार इत्ययम् ॥ १६३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.19 · p. 236
क्रीडाक्रीडकयोर्देवसेवायां सेवकेन यः ।स दायो दानं दुर्जातं दुःसमं चासमञ्जसम् ॥ १९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.71 · p. 238
वरोऽभीष्टार्थदानं स्याद्दानं तु प्रतिपादनम् ।विश्राणनं वितरणं स्पर्शनं च विहापनम् ॥ ७१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.61 · p. 249
भेदो दण्डः साम दानमित्युपायचतुष्टयम् ।भेदोप[110a]जापौ शास्तिः स्त्री * * * * * * * * ।शास्तिः स्याद्भूपतेर्दण्डयमो दण्डश्च साहसम् ॥ ६१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.93 · p. 252
द्वयोस्तु हस्तिनोऽपत्यं हास्तिनायनमीरितम् ।हास्तिकं गजता वृन्दे करिणां घटना घटा ।मदो दानं प्रवृत्तिः स्त्री वमथुः करसीकरः ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.121 · p. 23
क्षणः पर्व च कल्याणं मधुपर्कं तु निष्टकम् ।यज्ञाध्ययनदानानि याजनाध्यापनग्रहाः ॥ १२१ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.131 · p. 25
वृत्तस्याध्ययनस्यापि संपत्तिर्ब्रह्मवर्चसम् ।त्यागो दानं वितरणं विश्राणनविसर्जने ॥ १३१ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.139 · p. 69
घटा स्याद्धस्तिनां श्रेणी मदो दानं निगद्यते ।प्रवृत्तिरथ शुण्डायाः शीकरो वमथुर्मतः ॥ १३९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.52 · p. 107
दानं विसर्जनं त्याग उत्सर्जनविहायिते ।मार्गणो याचकोऽर्थी च तर्कुकोऽपि वनीपकः ॥ ५२ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.226 · p. 53
त्यागे विहायितं दानमुत्सजर्नविसर्जने ।विश्राणनं स्पर्शनं चाप्यपवर्जनमंहतिः ॥ २२६ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त चतुःपदमरीचिः Pañcatattvaprakāśa 1.3.128 · p. 9
गण्डाः कटः मदो दानं कलभः करिशावकः ।पोत्री कोलो घृणीर्द्दंष्ट्री वराहो भूमिदारकः ॥ १२८ ॥
अनुष्टुप्
genderक्लीneut.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.12 · p. 42
दानं दानप्रतिग्राह्यं षट्कर्माणीरितानि च ।त्यागो दानं वितरणं विश्राणनविसर्जने ॥ १२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.130 · p. 32
अर्दना प्रार्थना याच्ञा दानं त्यागो विसर्जनम् ।विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ १३० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.573 · p. 74
अथ दानं तथा त्यागः प्रतिदानं प्रदेशनम् ।उत्सर्जनं विसर्जनं वितरणं विहायितम् ॥ ५७३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1204 · p. 188
उपप्रदानमाऽऽमिषं कौशलिकं तथैव च ।एतानि दाननामानि वदन्ति विबुधाः जनाः ॥ १२०४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2213 · p. 362
गजानां समुदाये तु हास्तिकं गजता घटा ।मदो दानं प्रवृत्तिस्तु उन्मत्तगजगण्डनम् ॥ २२१३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.8 · p. 111
अथ श्रोत्रियता श्रोत्रं द्वयं श्रोत्रियधर्मके ।यजनं याजनं दानाध्ययनञ्च प्रतिग्रहः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.56 · p. 114
अमृतं यज्ञशेषे स्यात् विघसो भुक्तशेषके ।दानं प्रदानं ददनं दायस्त्यागो विसर्जनम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.198 · p. 125
सामदानं दण्डभेदौ स्यादुपाये चतुष्टयम् ।साम सान्त्वं दया दानं दमो दण्डस्तु साहसम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.231 · p. 127
गण्डः कटश्च कटकः करटो हस्तिगण्डके ।मदो दानं हस्तिमदे कर्णास्फाले सनः सनी ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.703 · p. 90
अधोभागे (अन्तराले?) मदो दानं गण्डस्तु करटः कटः ।दन्तो रदो विषाणं च वमथुर्हस्तशीकरः ॥ ७०३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1250 · p. 153
अपवर्जनदाने च स्पर्शनं च प्रदेशनम् ।मृतस्नानमपस्नानं त्रिषु स्यादौर्ध्वदेहिकम् ॥ १२५० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1275 · p. 156
अष्टवर्गोऽथ धर्माद्यैरुपधा स्यात् परीक्षणम् ।अथोपायाः सामदानभेददण्डाश्चतुष्टये ॥ १२७५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1388 · p. 168
भञ्जनखण्डनमोटनदानान्याच्छोद आमर्दः ।अभ्यवस्कन्दनं चाभ्यासादनं च समे उभे ॥ १३८८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.6 · p. 87
दानं दायोऽथ दुर्जातं दुःषमं चासमञ्जसम् ।कलञ्जौ तौ विषास्त्रेण हतौ यौ मृगपक्षिणौ ॥ ६ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.63 · p. 88
यज्ञाध्ययनदानानि याजनाध्यापनग्रहाः ।षट्कर्माणि महायज्ञा देवयज्ञादिपंचकम् ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.118 · p. 92
त्यागो दानं वितरणं विश्राणनविसर्जने ।विहापनं निर्वपणं स्पर्शनं प्रतिपादनम् ॥ ११८ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.7 · p. 104
अथ विद्यार्जनं दानमष्टवर्गस्य वर्धनम् ।द्विकपञ्चकषट्काणां विजयः सप्तवर्जनम् ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.5 · p. 109
दानं हस्तिमदे दत्ते छेदरक्षणशुद्धिषु ।हनुः स्त्रियां कपोलाधो हनुर्हट्टविलासिनी ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.3 · p. 66
तरति प्रणिदाति स्यात्तरणे हवत्तांति च (Corrupt) ।तरतिर्विपरो दाने निरस्तु स्यान्निवर्तने ॥वृत्तौ निर्गमने शक्तौ बाधे प्रात्प्रस्तुतौ जने ।देवादीनामन्ययोनौ भूताद्यावेश उत्परः ॥ ३ ॥
अनुष्टुप्metre not read in every lineLatin letters: Corruptnearly अनुष्टुप्: pāda 2, syllable 5 व (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.93 · p. 74
पितृकृत्यां नेर्वपिः स्याद्दानेऽधिश्रयणे निरः ।प्रतेः प्रक्षेपणे मुण्डीकृत्यां परिवृतावपेः ॥ ९३ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.16 · p. 76
सृज्यतिः सृजतिश्चाङो विशेषे त्यागदानयोः ।विसर्जनीये संप्रेषेऽतेर्दाने हिंसनेच्छयोः ॥ १६ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.18 · p. 77
उदः सामान्यहान्योः स्यादपात्स्याद्दानवर्जने ।न्यासस्वभावयोर्नेस्तावनुज्ञानेऽन्ववद्वयात् ॥ १८ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.87 · p. 244
संशोधनच्छेदनपालनेषुत्यागे तथा हस्तिमदे च दानम् ।मानो ग्रहे चित्तसमुन्नतौ चन स्त्री प्रमाणे कुडवादिके च ॥ ८७ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.31 · p. 35
औषधे पित्तले योग्यऋक्सामेष्विष्टिगामिषु ।दानं हस्तिमदे त्यागे खण्डने लवने क्षये ॥ ३१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.32 · p. 36
शोधने रक्षणे चाथ द्वारं द्वाराभ्युपाययोः ।द्युम्नं धने यशस्यन्ने बले दैन्यध्वनिः पुनः ॥ ३२ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास दकारादयः Paramānandīyanāmamālā 5.16.239 · p. 192
दानं हस्तिमदे शुद्धौ रक्षणे च विसर्जने ।दरो गर्ते भये देवः सुरराजजिगीषुषु ॥ २३९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.10 · p. 234
ज्योत्स्नी पटोलिकायान्तु ज्योत्स्नायुतनिशि स्त्रियाम् ।तनुर्देहे त्वचि स्त्री स्यात्त्रिष्वल्पे विरले कृशे ।दानं त्यागे हस्तिमदे च्छेदपालनशुद्धिषु ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1940 · p. 236
दुर्गमे त्रिषु दंष्ट्री तु शार्दूले मूषिके किटौ ।सदंष्ट्रपन्नगे ग्राहे दानं हस्तिमदेऽपि च ॥ १९४० ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.242 · p. 175
क्रीडादौ देवनं नाक्षे द्विजन्मा दन्तविप्रयोः ।दानं गजमदे त्यागे खण्डने रक्षणेऽपि च ॥ २४२ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 6.3.15 · p. 225
नवनीतेऽनले धर्मे दानं हस्तिमदेऽपि च ।द्रव्यं गुणानामाधारे भेषजे योगवित्तयोः ॥ १५ ॥
अनुष्टुप्

दान as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् सातिक्षयार्चयोरपचितिः सातिर्दानावसानयोः ॥ ६७ ॥ Amarakośa 3.3.67
  • नामलिङ्गानुशासनम् निर्यातननिर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च । Amarakośa 3.3.227
  • धरणिकोश त्यागदुर्गमगम्यं दुर्गोमा रोगः कुष्ठे गदेऽपि च । त्यागो दाने परित्यागे पूगः क्रमुकवृन्दयोः ॥ Dharaṇikośa 3.1.2
  • धरणिकोश विसर्गविसर्गः कथितो दाने विसर्गो मलनिर्गमे । सर्वगं जलमुद्दिष्टं विभुर्वै सर्वगो मतः ॥ Dharaṇikośa 3.2.7
  • धरणिकोश इष्टइष्टं यज्ञेषु यद्दानं यागश्चाशंसितं च यत् । Dharaṇikośa 10.2.2
  • धरणिकोश पिण्डपिण्डं गन्धरसे गृहाग्रिमगृहे स्यात्पिण्डमाजीवने जङ्घायाः पिशिते तथौड्रकुसुमे दाने पितृव्येऽपि च । पिण्डौ सिह्लकगोलकौ च तगरीखर्जूरभेदौ स्मृतौ पिण्डी ज्ञाननिरूपणार्थक उपन्यासस्तथालाबुका ॥ Dharaṇikośa 12.2.7
  • धरणिकोश सातिशान्तिः शमे च कल्याणे कान्तिः शोभेच्छयोरपि । ऊतिः स्यूतौ च रक्षायां सातिर्दानावसानयोः ॥ Dharaṇikośa 15.1.4
  • धरणिकोश स्पर्शनशकुनिः करणे च स्याच्छकुनी पक्षिसौबलौ । स्पर्शनो मरुते ज्ञेयः स्पर्शनं स्पर्शदानयोः ॥ Dharaṇikośa 19.2.33
  • धरणिकोश विसर्जनविसर्जनं परित्यागे दाने संप्रेषणेऽपि च । समादानं नित्यकर्म सम्यगादानमिष्यते ॥ Dharaṇikośa 19.2.75
  • धरणिकोश निर्यातननिर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च । समापन्नं वधे प्रोक्तं समाप्तलब्धयोस्तथा ॥ Dharaṇikośa 19.2.80
  • धरणिकोश अपसर्जनअवरोधनमवरोधो राज्ञामन्तःपुरं गृहम् । अपसर्जनमाख्यातं दाने संपरिवर्जने ॥ Dharaṇikośa 19.2.92
  • धरणिकोश अभिसर्जनहरिचन्दनमाख्यातं कुसुम्भे चन्दनान्तरे । अभिसर्जनमित्येतद्वधे दाने प्रकाशितम् ॥ Dharaṇikośa 19.2.93
  • धरणिकोश दायदायो दानं विनिर्दिष्टं यौतुकादिधनं तथा । विभक्तव्यं पितृद्रव्यं दायमाहुर्मनीषिणः ॥ Dharaṇikośa 25.3.7
  • धरणिकोश फलफलं सस्ये शराद्यग्रे फलके व्युष्टिदानयोः । लाभे हेतुसमुत्थे च प्रियङ्गस्तु फली स्मृता ॥ Dharaṇikośa 27.3.1
  • धरणिकोश स्पर्शदर्शस्तु स्यादमावास्या यश्चात्र वैदिको विधिः । स्पर्शः स्यात्स्पर्शके रोगे दानस्पर्शनयोरपि ॥ Dharaṇikośa 29.2.6
  • कल्पद्रुकोशः विलभ्लभिर्वियोगे वेर्दान आङस्तु स्पर्शने वधे । कूणनं तु भवेत्किञ्चित्संकोचे प्रतिबिम्बने ॥ ११५ ॥ Kalpadrukośa 1.10.115
  • कोषकल्पतरु परि-नम्नमिर्विवर्तने वेः स्यादुपात्स्यादनुकूलने । परेः पक्वत्व-हस्तीन्द्रतिर्यक्प्रहृति-दानयोः ॥ ४७ ॥ Koṣakalpataru 3.5.47
  • कोषकल्पतरु सम्प्र-दाप्रतेर्विर्विनिमये व्याङ्युक्प्रसारण-विकासयोः । उपाङः परिणामे संग्रहेऽभ्याङ उपक्रमे ॥ संप्राद्ददातिराम्नाये दानेऽथोपायने ह्युपात् । आत्मनेपदवानाङो ददातिर्नित्यमीरितः ॥ [186a]स्वास्यप्रसारादन्यत्र स आङस्तु ग्रहे मतः । नितो हेतौ रोगबोधे प्रैषे तु व्याङ्परो दिशिः ॥ ५४ ॥ Koṣakalpataru 3.5.54
  • कोषकल्पतरु आ-दिश्दाने तथा भाषणे च प्राङ्परस्तु मितौ भवेत् । उपादादिकथायां स्याद्धितस्याज्ञापने च सः ॥ ५८ ॥ Koṣakalpataru 3.5.58
  • कोषकल्पतरु उद्विषतिज्ञानेच्छयोराङ एष विज्ञाने बोधनेऽवतः । उद्भासे च विषिस्तूदो दीप्तौ दाने च सम्मतः ॥ ६१ ॥ Koṣakalpataru 3.5.61
  • कोषकल्पतरु विलभतेभवत्यपि च लाभार्थेवेर्लभिर्दानवाचकः । विप्रात्प्रतारणे प्रोक्तो विरहे प्रत्युपात्परः(?) ॥ ८० ॥ Koṣakalpataru 3.5.80
  • कोषकल्पतरु अप-वृज्स्युर्वर्जनेऽपात्तु वृजिर्दानमोक्षक्रियाक्षये । साफल्य आङस्त्वानत्यां परेर्मृत्यां प्रकीर्तितः ॥ ६६ ॥ Koṣakalpataru 3.5.66
  • कोषकल्पतरु निनिःक्षेपे नियमे निवेशभ(भृ?)शयोर्दानेऽन्तिके दर्शने- न्तर्भावोपरमाश्रयाम्बुषु तयोधा(?)भावविन्यासके । हर्षे चौर्यनिकृष्टवर्जनविपर्यासप्रमोदेष्वप स्याद्विश्लेषविकारयोरुप पुनर्हीनेऽधिके चान्तिके ॥ ४ ॥ Koṣakalpataru 5.1.4
  • कोषकल्पतरु निसर्गपुंनागो नरवर्ये तुङ्गतरौ स्यात्सितोत्पले किंच । जातीफलेऽथ शीले दाने सर्गे निसर्गः स्यात् ॥ १६ ॥ Koṣakalpataru 6.3.16
  • कोषकल्पतरु उत्सर्गयाम्यायने विसर्गो विसर्जनीये मलच्युतौ च स्यात् । उत्सर्गः सामान्ये न्याये दाने च वर्जने कथितः ॥ १७ ॥ Koṣakalpataru 6.3.17
  • कोषकल्पतरु गुणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3
  • कोषकल्पतरु ददातरि दो दं तु भवेत्पाणिगृहीत्यां तथा दाने ॥ १७ ॥ Koṣakalpataru 6.19.17
  • कोषकल्पतरु स्पर्शनत्वगिन्द्रिये स्पर्श इहापि दाने स्यात्स्पर्शनं पुंसि तु तत्समीरे ॥ २४ ॥ Koṣakalpataru 6.21.24
  • कोषकल्पतरु वर्जन[16b] स्याद्वर्जनं हिंसनदानवाचि स्यान्मार्जनं शुद्धिषु लोचने न (?) स्यात्सज्जनं सैन्यकगुल्मवाचि साधौ त्रये योषिति कल्पनायाम् ॥ ६० ॥ Koṣakalpataru 6.21.60
  • कोषकल्पतरु विसर्जनस्यात्सज्जने पुण्यजनश्च यक्षे निशाचरे चाथ विसर्जनं स्यात् । दाने परित्यागविधौ तथैव । संप्रेषणे चाथ पृथग्जनः स्यात् ॥ ५ ॥ Koṣakalpataru 6.21.5
  • कोषकल्पतरु अतिसर्जनहरिचन्दनमप्यस्त्री गोशीर्षे देववृक्षे च । ज्योत्स्नायां काश्मीरेऽतिसर्जनं स्याद्वधे दाने ॥ ५५ ॥ Koṣakalpataru 6.21.55
  • कोषकल्पतरु दायकाण्डेऽपि दायस्तु विभाज्यवित्ते सोल्लुण्ठवाक्ये युतकोत्थवित्ते । दानेऽथ बाहुल्यसदृक्षयोः स्यात् प्रायस्तथैवानशने च मृत्यौ ॥ ७ ॥ Koṣakalpataru 6.26.7
  • कोषकल्पतरु इज्यास्याद्दक्षिणस्यां नरि कुम्भयोनौ पटीरवृक्षेऽथ नरीज्य उक्तः । बृहस्पतौ संगमवाचकश्च स्त्रियां तु दाने मखपूजयोश्च ॥ ४९ ॥ Koṣakalpataru 6.26.49
  • कोषकल्पतरु स्पर्शलोध्रे तथा गन्धरसेऽथ दर्शः सूर्येन्दुसङ्गेऽप्यवलोकनेऽपि । श्रौते च पक्षान्त विधौ तथाथ स्पर्शो भवेत्स्पर्शनदानयोश्च । त्वाचे गुणेऽर्तौ च नृवैश्ययोस्तु नास्त्री प्रवेशे विडिह प्रजायाम् । मले न ना स्त्री तु खगादिबन्धे कचोत्तरस्थो निकरे च पाशः । कर्णान्तगः शोभनवाचकः स्या- न्निन्दार्थकश्चात्र परस्थितोऽयम् । नाशो विनाशानुपलम्भयोः स्यात् पलायनेऽथ क्षवथौ पुमान्स्यात् ॥ ६ ॥ Koṣakalpataru 6.30.6
  • नानार्थार्णवसंक्षेप सातिअव्ययं तु हविर्दाने सातिर्दानावसानयोः । वेदनायां च तीव्रायामथ स्थितिरिति ध्वनिः ॥ ११७ ॥ Nānārthārṇavasaṃkṣepa 2.1.117
  • नानार्थार्णवसंक्षेप त्यागशेफस्यपीति शब्दज्ञास्त्रिष्वर्थेषु स्मरन्त्यमुम् । त्रासो भये मणेर्दोषे त्यागो दाने समुज्झने ॥ ५९ ॥ Nānārthārṇavasaṃkṣepa 2.2.59
  • नानार्थार्णवसंक्षेप तुञ्जतुञ्जस्तु दाने वज्रे च बलादानादिके च ना । तुञ्जा तु रक्षणे स्त्री स्याद्धिंसायां तु नरस्त्रियोः ॥ ५५२ ॥ Nānārthārṇavasaṃkṣepa 2.5.552
  • नानार्थार्णवसंक्षेप दाशदाने (द्वे ? च) स्त्री तु दाशात्र दशायोगिनि तु त्रिषु । दान्त(स्तु ? स्त्रि)दमिते दान्तियुक्ते दान्तविकारके ॥ ५८७ ॥ Nānārthārṇavasaṃkṣepa 2.5.587
  • नानार्थार्णवसंक्षेप दायना तु दाने विभक्तव्यपित्रादिद्रविणे तथा । अजयस्त्वाह सोल्लुण्ठभाषिते रक्षणादिषु ॥ ५९० ॥ Nānārthārṇavasaṃkṣepa 2.5.590
  • नानार्थार्णवसंक्षेप दात्वयौतकादिधने चाथ दात्व आयुक्तके त्रिषु । ना यज्ञेऽन्यस्तु दाने क्लीत्याह दाकस्तु दातरि ॥ ५९१ ॥ Nānārthārṇavasaṃkṣepa 2.5.591
  • नानार्थार्णवसंक्षेप दिष्टना क्ली संवदने दैवे कृतान्तेऽपि धनञ्जयः । दैवाद्भेदेन पठति दानभूषणयोरपि ॥ ५९८ ॥ Nānārthārṇavasaṃkṣepa 2.5.598
  • नानार्थार्णवसंक्षेप दिष्टिस्त्री दानोक्तिसुखेषु स्यादथामित्रे द्विषत् पुमान् । त्रिस्तु द्वेष्टरि मर्त्ये तु द्विपाद्द्वे द्व्यङ्घ्रिके त्रिषु ॥ ६०० ॥ Nānārthārṇavasaṃkṣepa 2.5.600
  • नानार्थार्णवसंक्षेप धानधाना यवानां भ्रष्टानां स्थूलचूर्ण इतीदृशम् । क्ली दाने धारणे पाने धान्यं तु स्त्रीनपुंसकम् ॥ ६४१ ॥ Nānārthārṇavasaṃkṣepa 2.5.641
  • नानार्थार्णवसंक्षेप रातरतसम्बन्धिनि स्त्र्यर्थे राता राती यथाक्रमम् । उक्तयोरर्थयोः क्ली तु दाने कन्यान्तरे पुनः ॥ ११०१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1101
  • नानार्थार्णवसंक्षेप शाणचतुष्टये स माषाणां दाने शाणी तु सा स्त्रियाम् । गोणीसमाख्यावपने त्रि तु स्याच्छणयोगिनि ॥ १३४५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1345
  • नानार्थार्णवसंक्षेप सनिदाने नदीतटे नृस्त्री द्वे तु म्लेच्छे पुमान् पुनः । सनतौ च सनोतौ च धात्वोः स्त्री तु स्थविः (फ?च)ले ॥ १४७० ॥ Nānārthārṇavasaṃkṣepa 2.5.1470
  • नानार्थार्णवसंक्षेप हितत्रि पथ्ये धारिते दत्ते हरीतक्यां तु सा हिता । स्त्री क्ली तु धारणे दानेऽप्यथ हिंस्रस्त्रि घातके ॥ १५९४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1594
  • नानार्थार्णवसंक्षेप उत्सर्गअधः प्रारभ्य जानीयात् तच्चाप्यवयवान्तरम् । अग्न्याधाने च रभसोऽथोत्सर्गस्त्यागदानयोः ॥ ४२ ॥ Nānārthārṇavasaṃkṣepa 3.2.42
  • नानार्थार्णवसंक्षेप अंहतिबह्वादिपाठादेवास्य स्यादथो अंहतिः स्त्रियाम् । दाने व्याधौ च पिशिते पुंल्लिङ्गस्त्वहिधातुके ॥ १४३ ॥ Nānārthārṇavasaṃkṣepa 4.143
  • नानार्थार्णवसंक्षेप दक्षिणापठति त्वत्र रभस इमां दानप्रतिष्ठयोः । दक्षार्यस्तु पुमानग्नौ वैनतेयेऽप्यथ द्वयोः ॥ ८९८ ॥ Nānārthārṇavasaṃkṣepa 4.898
  • नानार्थार्णवसंक्षेप स्पर्शनस्पर्शनं तु नपि स्पृष्टौ दाने च प(त ? व)ने तु ना । अना तु स्पर्शयत्यर्थे स्पर्शना परिकीर्तिता ॥ १८७७ ॥ Nānārthārṇavasaṃkṣepa 4.1877
  • नानार्थार्णवसंक्षेप उत्सर्जनअथोत्पतनमुत्पत्तावूर्ध्वं गमन एव च । उत्सर्जनं तु दाने च परित्यागे च कीर्तितम् ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 6.11
  • नानार्थार्णवसंक्षेप प्रदेशनरूपकाणामन्यतमे प्रहासेऽथ प्रदेशनम् । प्रदिष्टौ प्राभृते दाने प्रस्फोटनपदं पुनः ॥ ३० ॥ Nānārthārṇavasaṃkṣepa 6.30
  • नानार्थार्णवसंक्षेप विसर्जनविसर्जनं परित्यागे दाने विहननं पुनः । पिञ्जने च वधे च स्यात् पिञ्जनं प्रविसारणम् ॥ ४३ ॥ Nānārthārṇavasaṃkṣepa 6.43
  • नानार्थार्णवसंक्षेप निदेशननिदेशनस्तु पुंसि स्याद् दशहस्ते प्रमाणके । क्ली त्वाज्ञायां च दाने च न तु ना ण्यन्तकर्मणि ॥ ३१५ ॥ Nānārthārṇavasaṃkṣepa 6.315
  • नानार्थार्णवसंक्षेप निर्यातनन्यासद्रव्यार्पणे दाने वैरशुद्धावथापरे । आहुः प्रतीकारमात्रे नानार्थाद्यत्र पूर्ववत् ॥ ३२० ॥ Nānārthārṇavasaṃkṣepa 6.320
  • नानार्थार्णवसंक्षेप अतिसर्जनअथातिसर्जनं दाने (वधे) चाथापवर्जनम् । परित्यागे च दाने चाप्यथावहननध्वनिः ॥ २ ॥ Nānārthārṇavasaṃkṣepa 7.2
  • नानार्थार्णवसंक्षेप प्रतिपादनानक्षत्रनेमिस्तु स्त्री स्याद् रेवत्यां नेन्दुशार्ङ्गिणोः । स्त्रीनपुंसकयोर्दाने ज्ञापने प्रतिपादना ॥ ६१ ॥ Nānārthārṇavasaṃkṣepa 7.61
  • परमानन्दीयनाममाला लालोऽमृते चलने शक्रे ला दाने लीस्तु कङ्कणे । श्लेषबन्धनयोः श्रीश्च सरलद्रवसम्पदोः ॥ ३८ ॥ Paramānandīyanāmamālā 1.38
  • परमानन्दीयनाममाला दायइन्द्रिये वासराकाशनाकेष्वथ दया कृपा । दायो दाने पितुर्वित्ते यौतकान्वययोरपि ॥ २३७ ॥ Paramānandīyanāmamālā 5.16.237
  • परमानन्दीयनाममाला धर्मअर्धं क्लीबे समांशार्थे धर्मं दानादिके पुनः । सारं न्याय्ये खलं भुम्यां कामं चानुमतावपि ॥ ७८ ॥ Paramānandīyanāmamālā 6.3.78
  • शब्दरत्नावली त्यागगाङ्गः पुंसि गुहे भीष्मे स्याद्गङ्गासम्भवे त्रिषु । चङ्गो दक्षे शोभने च सारङ्गे हलयाजके ॥ टङ्गोऽस्त्री तु खनित्रे स्याद् जङ्घा खङ्गभिदोरपि । त्यागो दाने वर्जने च विवेकिपुरुषेऽपि च ॥ Śabdaratnāvalī 7.3.6
  • शब्दरत्नावली उत्सर्गउत्सर्गस्त्यागसामान्यन्यायदानेषु वर्तते । कलिङ्गोऽपि च धूम्याटे स्यात् पूतिकरजेऽपि च ॥ Śabdaratnāvalī 7.3.32
  • शब्दरत्नावली विसर्गविसर्गस्तागदानादौ विसृष्टे मलनिर्गमे । विहङ्गो विहगे बाणे जलदे चन्द्रसूर्ययोः ॥ Śabdaratnāvalī 7.3.48
  • शब्दरत्नावली गतिगतिर्दशायां मार्गे च ज्ञाने यात्राभ्युपाययोः । नाडीव्रणपथे दाने यातविज्ञातयोर्गतम् । गातुः पुंसि पिके भृङ्गे गन्धर्वे रोषणे त्रिषु ॥ Śabdaratnāvalī 7.16.10
  • शब्दरत्नावली सातिसातिर्दानेऽवसाने च स्वान्तं गह्वरचित्तयोः । स्थितमूर्द्धे गत्यभावप्रतिज्ञाते च निश्चिते ॥ Śabdaratnāvalī 7.16.64
  • शब्दरत्नावली उदात्तउषितं व्युषिते दग्धे ऊषितं रोगवोधयोः । उदात्तः स्वरभेदे स्याद्दानवादयप्रभेदयोः ॥ Śabdaratnāvalī 7.16.89
  • शब्दरत्नावली दादं कलत्रे खण्डने ना दा दानच्छेददातृषु । Śabdaratnāvalī 7.18.1
  • शब्दरत्नावली मदभेदो विदारणे द्वैधे स्याद्विशेषोपजापयोः । मदो गर्वे च कस्तूर्यां वीर्ये च हर्षदानयोः ॥ मन्दः स्वैरे च तीक्ष्णे च मूर्खे चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्यात्कविजात्यान्तरे शतौ ॥ Śabdaratnāvalī 7.18.6
  • शब्दरत्नावली वर्जनरोचना स्त्री तु गोपित्ते रक्तकह्लारयोषितोः । रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु ॥ रोही वटद्रुमेऽश्वत्थे तया रोहितके पुमान् । लङ्घनं क्रमणे चोपवासे प्लवनेऽपि च ॥ ललना स्त्री शिवाभेदरसनाकामिनीषु च । लेखनन्तु लिपिन्यासे भूर्जे च छर्दनेऽपि च ॥ वर्जनं हिंसने दाने तथा त्यागविशेषके । वपनं मुण्डने क्लीबं वीजाधानेऽपि तत्स्मृतम् ॥ Śabdaratnāvalī 7.20.70
  • शब्दरत्नावली स्पर्शनसन्तानो गोत्रसन्तत्योरपत्ये च सुरद्रुमे । स्पर्शनं पवने पुंसि क्लीबं स्यात्स्पर्शदानयोः ॥ Śabdaratnāvalī 7.20.90
  • शब्दरत्नावली निर्यातननिर्यातनं वैरशुद्धिदानन्यासार्पणेषु च ॥ Śabdaratnāvalī 7.20.111
  • शब्दरत्नावली विसर्जनललाम स्याद्ध्वजे शृङ्गे प्रभावे च तुरङ्गमे । प्रधाने लाञ्छने पुण्ड्रे वालधौ भूषणेऽपि च । लाङ्गली रेवती कान्ते नारिकेलद्रुमे पुमान् । …वञ्चकव्याघ्रगन्धमार्जारकेषु च । वर्द्धमानः पशुविष्णुशरावैरण्डसूरिषु । विस्मापनः स्मरे पूर्यां गन्धर्वे कुहनेऽपि च ॥ विसर्जनं परित्यागदानसंप्रेरणेषु च । विरोचनोऽग्निसूर्येन्दुप्रह्लादतनयेषु च ॥ विहेठनं मर्दने स्याद् हिंसायाञ्च विडम्बने ॥ Śabdaratnāvalī 7.20.121
  • शब्दरत्नावली अतिसर्जनतथातिसर्ज्जनं दाने रोगेऽपि च नपुंसकम् ॥ Śabdaratnāvalī 7.20.129
  • शब्दरत्नावली अपवर्जनअपवर्जनं निर्वाणे त्यागे दाने च न द्वयोः । अपसर्जनमाम्नाते दाने च परिवर्जने ॥ Śabdaratnāvalī 7.20.130
  • शब्दरत्नावली प्रतिपादनअमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते । स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥ केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः । शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥ दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् । भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥ धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः । वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥ कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् । भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥ देवदारुणि कालीये न द्वयोर्वरचन्दनम् । स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥ साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी । वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥ Śabdaratnāvalī 7.20.134
  • शब्दरत्नावली इज्याअन्योऽप्यसदृशे भिन्ने वाच्यलिङ्गोऽपि कुत्रचित् । अर्य्यः स्वामिनि वैश्ये स्यादास्यं वक्रे स्थितौ स्त्रियाम् ॥ इज्याचीयां क्रतौ दाने सङ्गमे स्त्री गुरौ त्रिषु । इभ्या करेणौ शल्लक्यां स्त्रियागाढ्येऽभिधेयवत् ॥ Śabdaratnāvalī 7.26.4
  • शब्दरत्नावली दायभेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् । दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥ दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति । दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥ दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु । दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥ दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः । दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥ धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु । धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥ धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः । नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः । नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥ पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु । पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥ पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.18
  • शब्दरत्नावली रारः कामवह्नौ च रुः शब्दे रा धने पुमान् । री गतौ स्त्री च रा दाने काञ्चनेऽपि च कुत्रचित् । श्रीः शोभा भारती वेशरचना भूतिवृद्धिषु । विधात्रिवर्गसम्पत्तिलक्ष्मीषु सरलद्रुमे ॥ Śabdaratnāvalī 7.27.1
  • शब्दरत्नावली स्पर्शस्पर्शो दाने स्पर्शने च रोगस्पर्शकयोरपि । स्पशश्चरे सम्पराये बन्धभेदे च कामिनाम् ॥ Śabdaratnāvalī 7.30.12
  • शब्दरत्नावली निन निषेधे तूपमायां शिरश्चालन इत्यपि ॥ नि सामीप्ये निवेशेऽतिशये दाने च संशये । नित्यार्थे कोशले क्षेपे बन्धेऽन्तर्भावमोक्षयोः ॥ आश्रये राश्यधोभावविन्यासोयरमेष्वपि । नु प्रश्नातीततर्कानुनयोपमानहेतुषु ॥ Śabdaratnāvalī 8.1.39
  • शब्दरत्नावली उपअप चौर्ये च निर्देशे विकृतौ च विपर्यये । विनियोगे वर्जनार्थे हर्षापकृष्टयोरपि ॥ अपि सम्भावनाशङ्काप्रश्नगर्हासमुच्चये । कामचारक्रियायुक्तपदार्थे च निगद्यते ॥ उप दाक्षिण्यसामर्थ्यहीवात्मय … । अधिकार्थे समीपे च दाषाख्याननिदर्शने । आश्चर्यकरणे दाने मारणे व्याप्तिलिप्सयोः ॥ उपमारम्भपूजासु भवेदुद्योग इत्यपि । Śabdaratnāvalī 8.1.44
  • शब्दरत्नाकर दाययौतकादिधने दाने दायो द्युम्ने च पैतृके । द्रोणं तु कार्मुके द्रोणो वृश्चिके जलवायसे ॥ १९३७ ॥ Śabdaratnākara 4.1.1937
  • शब्दरत्नाकर मदअंशे परिच्छदे मात्रा मात्रं कार्त्स्न्येऽवधारणे । मदो दाने स्मये मूलं शिफातारादिहेतुषु ॥ १९८० ॥ Śabdaratnākara 4.1.1980
  • शब्दरत्नाकर स्पर्शनवसन्ते ना सुगन्धौ च सुरभिर्विश्रुतेऽर्थवत् । स्पर्शनः पवमाने स्यात् स्पर्शनं स्पृष्टिदानयोः ॥ २१८२ ॥ Śabdaratnākara 4.1.2182
  • तन्त्राभिधान ददोऽद्रीशो धात(न)किर्धाता दाता दलं कलत्रकम् । दीनं ज्ञानञ्च दानञ्च भक्तिराहवनी धरा ॥ १०९ ॥ Tantrābhidhāna 2.35.109
  • तन्त्राभिधान ददं कलत्रे समाख्यातं दो दान-च्छेद-धातुषु । धं धने च धनेशे धो धा धातरि निदर्शितः ॥ २० ॥ Tantrābhidhāna 3.20
  • तन्त्राभिधान लाधने रा रीश्च रो धान्ये रुर्भये च प्रकीर्त्तितः । ल इन्द्रे लवणे लः स्याल्ला दाने श्लेषणेऽपि लीः ॥ ३० ॥ Tantrābhidhāna 3.30
  • त्रिकाण्डशेष शुल्कशिलाटको विलेपेऽट्टे शुल्को यौतकदानयोः । श्वाविध्वृक्षौ च शल्लक्यौ मणौ खड्गे च सस्यकः ॥ ४६ ॥ Trikāṇḍaśeṣa 3.3.46
  • त्रिकाण्डशेष उत्सर्गजङ्गमेङ्गितयोरिङ्गो नाड्य ईहामृगो वृके । फलं पूगस्य चोद्वेगमुत्सर्गो न्यायदानयोः ॥ ५६ ॥ Trikāṇḍaśeṣa 3.3.56
  • त्रिकाण्डशेष दक्षिणादक्षिणा दिशि दाने च दक्षिणः सरलेऽपि च । असती स्याद्धर्षणी च धर्षणं निकृतौ रते ॥ १३१ ॥ Trikāṇḍaśeṣa 3.3.131
  • त्रिकाण्डशेष स्पर्शनसुप्तज्ञाने च शयने स्वप्नोऽथ स्पर्शदानयोः । स्पर्शनं स्पर्शनो वाते सूनं पुष्पे वधालये ॥ २७० ॥ Trikāṇḍaśeṣa 3.3.270
  • त्रिकाण्डशेष इज्यावेदोपदेशावाम्नायौ हृषीके चेतसीन्द्रियम् । इज्या स्यात्सङ्गमे दाने यागेऽर्चायां गुरौ पुमान् ॥ ३०७ ॥ Trikāṇḍaśeṣa 3.3.307
  • त्रिकाण्डशेष स्पर्शदाने रोगेऽपि च स्पर्शः सदृशं तूचिते समे । Trikāṇḍaśeṣa 3.3.449
  • वैजयन्ती दायद्वारपाले यमे दण्डी दन्तोऽद्रिकटके रदे । दायो दाने यौतकादिधने वित्ते च पौतृके ॥ २६ ॥ Vaijayantī 6.1.26
  • वैजयन्ती दिष्टिदिष्टिः सुखे च दाने च धात्री भुव्युपमातरि । धनुः सुस्त्रीधनुर्ज्यासु धाना बीजेऽपि भूरुहाम् ॥ १९ ॥ Vaijayantī 6.2.19
  • वैजयन्ती सातिसन्धावधौ प्रतिज्ञायां सातिर्दानावसानयोः । सीमसीमे तु कूलेऽपि स्थानमर्यादयोः स्थितिः ॥ ४४ ॥ Vaijayantī 6.2.44
  • वैजयन्ती स्पर्शनस्पर्शनः पवमाने स्यात् स्पर्शनं स्पृष्टिदानयोः । सारंगः शबलो वर्णश्चातकः षट्पदो मृगः ॥ ८९ ॥ Vaijayantī 7.5.89
  • वैजयन्ती निर्यातनत्रिपर्णकं त्रिगन्धे स्यात्त्रिफलायां कटुत्रये । निर्यातनं प्रतीकारे दाने न्यासधनार्पणे ॥ ७ ॥ Vaijayantī 8.3.7