इति श्रीतपोगच्छाधिपति-सूरिचक्रचक्रवर्त्ति-भारतीयभव्यविभूति-चिरंतनयुगप्रधानकल्प-सर्वतन्त्रस्वतन्त्र-श्रीकदम्बगिरिप्रमुखानेक-प्राचीनतीर्थोद्धारक-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासन सम्राट्-जगद्गुरु-भट्टारकाचार्य-महाराजाधिराज-श्रीमद्विजयनेमिसूरीश्वर-सुप्रसिद्धपट्टालङ्कार-व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्न-साहित्यसम्राट्-साधिकसप्तलक्षश्लोकप्रमाणनूतनसंस्कृतसाहित्यसर्जक-परमशासनप्रभावकाचार्यदेवेश-श्रीमद्विजयलावण्यसुरीश्वर-पट्टधर-व्याकरणरत्न-शास्त्रविशारद-कविदिवाकर-देशनादक्ष-शासनप्रभावकाचार्यदेव-श्रीमद्विजयदक्षसूरीश्वर-पट्टधर-साहित्यरत्न-शास्त्रविशारद-कविभूषण-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासनप्रभावकाचार्य-श्रीमद्विजयसुशीलसूरिणा विरचितायां सुशीलनाममालायां द्वितीयो देवविमागः समाप्तः ॥ २ ॥
॥ तृतीयो मर्त्यविभागः ॥
* मनुष्यनामानि *
मनुष्यो मानुषो मर्त्यो मनुजो मानवो नरः ।भूस्पृक् पञ्चजनो ना विट् पूरुषः पुरुषः पुमान् ॥ ४९६ ॥
4.496 · p. 63
अनुष्टुप्
* बालनामानि *
बालो डिम्भः शिशुः शावः पोतः पाकः स्तनन्धयः ।अर्भोत्तानशयौ चैव क्षीरकण्ठः कुमारकः ॥ ४९७ ॥
4.497 · p. 63
अनुष्टुप्
कुमारः क्षीरपश्चैव पृथुकः स्तनपस्तथा ।स्यात् शिशुत्वं तथा बाल्यं शैशवं चापि मन्यते ॥ ४९८ ॥
4.498 · p. 63
अनुष्टुप्
* युवनामानि *
वयस्थस्तरुणश्चैव युवाऽपि कथ्यते बुधैः ।तारुण्यं यौवनं चैव यौवनिकाऽपि मन्यते ॥ ४९९ ॥
4.499 · p. 63
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 4, syllable 3 नि (wrong syllable)
* वृद्धनामानि *
वृद्धश्च स्थबिरो जीर्णो जीनो जरी जरन् तथा ।प्रवयाः यातयामश्च कथ्यते विबुधैरिति ॥ ५०० ॥
4.500 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
विस्त्रसा च जरा स्याद्वै वार्द्धकं स्थाविरं पुनः ।ज्यायान् जरत्तरश्चैव वर्षीयान् दशमी तथा ॥ ५०१ ॥
4.501 · p. 63
अनुष्टुप्
दशमीस्थश्च विद्वद्भिरित्येवं कथ्यते किल ।
4.7 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)
* पण्डितनामानि *
पण्डितः प्राप्तरूपश्च विद्वान् सुधीः कविः कृती ॥ ५०२ ॥
4.502 · p. 64
अनुष्टुप्metre not read in every line
लब्धवर्णोऽभिरूपश्च धीमान् धीरः सुधीर्बुधः ।ज्ञः प्राज्ञश्च प्रबुद्धश्च व्यक्तो विचक्षणस्तथा ॥ ५०३ ॥
4.503 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
मतिमान् चाऽभिरूपः सन् विपश्चित् कविता तथा ।दोषज्ञः कोविदः सूरिः संख्यावान् च विशारदः ॥ ५०४ ॥
4.504 · p. 64
अनुष्टुप्
मनीषी चापि मेधावी कृष्टिश्चेत्यपि मन्यते ।
4.11 · p. 64
अनुष्टुप्
* प्रवीणनामानि *
प्रवीणः शिक्षितो दक्षो निष्णातो निपुणः पटुः ॥ ५०५ ॥
4.505 · p. 64
अनुष्टुप्
विज्ञो वैज्ञानिकोऽभिज्ञः चतुरः कृशलस्तथा ।क्षेत्रज्ञः कृतकृत्यश्च कृतहक्तः कृती तथा ॥ ५०६ ॥
4.506 · p. 64
अनुष्टुप्
कृतकर्मा कृतार्थश्च निष्णः कृतमुखस्तथा ।नदीष्णश्च विदग्धस्तु छइल्लः छेकिलस्तथा ॥ ५०७ ॥
4.507 · p. 64
अनुष्टुप्
छेकालश्चापि छेको वै प्रौढस्तु प्रतिभान्वितः ।प्रगल्भः सूक्ष्मदर्शी तु कुशाग्रीयमतिस्तथा ॥ ५०८ ॥
4.508 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
प्रत्युत्पन्नमतिर्नाम तथा तत्कालधीरपि ।कथ्यते दीर्घदर्शी च दूरदर्शी बुधैः किल ॥ ५०९ ॥
4.509 · p. 65
अनुष्टुप्
चिद्रूपो हृदयालुश्च सहृदयोऽथ संस्कृतः ।व्युत्पन्नः प्रहतः क्षुण्णः अन्तर्वाणिस्तु शास्त्रवित् ॥ ५१० ॥
4.510 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
स्याद्वाक्पतिश्च वागीशः प्रवाक् वावदूकस्तथा ।वाचोयुक्तिपटुर्वाग्ग्मी समुखः कथ्यते बुधैः ॥ ५११ ॥
4.511 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 दू (wrong syllable)
अथ वदावदो वक्ता वदः स्याद्बहुगर्ह्यवाक् ।वाचाटश्चापि वाचालः जल्पाकः कथ्यते बुधैः ॥ ५१२ ॥
4.512 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
यद्वदोऽनुत्तरः स्याद्वै दुर्वाक् तु कद्वदस्तथा ।अधरो हीनवादी स्यादिडमूकस्त्ववाक्श्रुतः ॥ ५१३ ॥
4.513 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
कलामूकस्तथाऽनेडमूकोऽपि कथ्यते बुधैः ।रवणः शब्दनः स्याद्वै कुवादः कुटिलाशयः ॥ ५१४ ॥
4.514 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
कुचरोऽपि भवेन्नाम लोहजोऽस्फुटवाक् तथा ।काहलश्चाधमूकोऽवाक् जडो गडो जडस्तथा ॥ ५१५ ॥
4.515 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
अथाऽसौम्यस्वरो लोके कथ्यतेऽस्वर एव हि ।त्रिदुरो वेदिता चैवं कथ्यते विन्दुरित्यपि ॥ ५१६ ॥
4.516 · p. 65
अनुष्टुप्
अथाऽभिवादकश्चैव वन्दारुः कथ्यते बुधैः ।आशंसिता तथाऽऽशंसुः कद्वरस्त्वतिकुत्सितः ॥ ५१७ ॥
4.517 · p. 65
अनुष्टुप्
कट्वरः स्यादथ क्षिप्नुः निराकरिष्णुरप्यथ ।विकस्वरो विकासी स्यान् मुखरश्चापि दुर्मुखः ॥ ५१८ ॥
4.518 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
तथाऽबद्धमुखो दुष्टवचनः कथ्यते बुधैः ।शुक्लः प्रियंवदः स्याद्वै प्रियवाक् सैव कथ्यते ॥ ५१९ ॥
4.519 · p. 66
अनुष्टुप्
वदान्यस्तु वदन्यश्च दानशीलः स कथ्यते ।अथ मूर्खो यथाजातो बालिशो मातृशासितः ॥ ५२० ॥
4.520 · p. 66
अनुष्टुप्
मातृमुखश्च मूढोऽज्ञो मन्दश्च नामवर्जितः ।बालोऽमेधाः विवर्णश्च वैधेयश्च यथोद्गतः ॥ ५२१ ॥
4.521 · p. 66
अनुष्टुप्metre not read in every line
देवानांप्रियजाल्मौ वै जडोऽनेडश्च कथ्यते ।मन्दः क्रियासु कुष्ठः स्याद् दीर्घसूत्री चिरक्रियः ॥ ५२२ ॥
4.522 · p. 66
अनुष्टुप्
कर्मोद्यतः क्रियावान् वै कर्मक्षमोऽपि कथ्यते ।तथाऽलङ्कर्मीणः किल कर्मशूरस्तु कर्मठः ॥ ५२३ ॥
4.523 · p. 66
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 क्ष (wrong syllable); pāda 3, syllable 6 णः (wrong syllable)
स्यात् कार्मः कर्मशीलश्च पुनस्तु तीक्ष्णकर्मकृत् ।किलाऽऽयःशूलिकश्चैव ज्ञेयो राभसिकस्तथा ॥ ५२४ ॥
4.524 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
अथ स्वङ्गस्तथा सिंहसंहननोऽपि मन्यते ।स्यात् स्वतन्त्रः स्वछन्दश्च स्वैरी वै स्वरुचिस्तथा ॥ ५२५ ॥
4.525 · p. 66
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable); pāda 3, syllable 5 स्व (wrong syllable)
अपावृतौ यथाकामी तथापि निरवग्रहः ।स्वेच्छा च स्वैरिता चैव यदृच्छा मन्यते किल ॥ ५२६ ॥
4.526 · p. 66
अनुष्टुप्
* पराधीननामानि *
परवशः पराधीनः परायत्तश्च गृह्यकः ।परतन्त्रः पुरच्छद आयत्तः परवान् वशः ॥ ५२७ ॥
4.527 · p. 67
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable); pāda 3, syllable 7 च्छ (wrong syllable)
अधीनश्चापि निघ्नो वै आधीनः कथ्यते बुधैः ।
4.35 · p. 67
अनुष्टुप्
* श्रीमतां नामानि *
अथ श्रीमान् च लक्ष्मीवान् श्लीलः श्रीलश्च लक्ष्मणः ॥ ५२८ ॥
4.528 · p. 67
अनुष्टुप्
स्यादिभ्यस्तु समृद्धो वै ऋद्ध आढ्यो धनीश्वरः ।
4.37 · p. 67
अनुष्टुप्
* लक्ष्मी नामानि *
श्रीस्तु लक्ष्मीर्विभूतिर्वै ऋद्धिसम्पत्तिसम्पदः ॥ ५२९ ॥
4.529 · p. 67
अनुष्टुप्
स्याद्दरिद्रस्तथा दुःस्थः क्षुद्रो दुर्विधदुर्गतौ ।कीकटोऽकिञ्चनो निःस्वो दीनो नीचोऽपि कथ्यते ॥ ५३० ॥
4.530 · p. 67
अनुष्टुप्
* स्वामिनामानि *
अथ स्वामी विभुः भर्ताः परिवृढः प्रभुः पतिः ।अधिपश्चाऽधिभूरर्यो नेता नाथश्च नायकः ॥ ५३१ ॥
4.531 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वृ (wrong syllable)
ईशितेशेश्वरेन्द्रे ना कथ्यते कोविदैः किल ।
4.41 · p. 68
अनुष्टुप्
* दासनामानि *
अथ दासश्च भृत्यश्च किङ्करो डिङ्गरस्तथा ॥ ५३२ ॥
4.532 · p. 68
अनुष्टुप्
गोप्यः प्रेष्यो भुजिष्यश्च परान्नः परिचारकः ।परिकर्मी परिस्कन्दः पराचितः परैधितः ॥ ५३३ ॥
4.533 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 चि (wrong syllable)
नियोज्यः परपिण्डादः चेटः प्रतिचरस्तथा ।मन्यते परजातोऽपि विबुधैर्दासवाचके ॥ ५३४ ॥
4.534 · p. 68
अनुष्टुप्
* कर्मकरनामानि *
भृतिभुग्भृतको वैतनिकः कर्मकरी अपि ।निर्भृतिः कर्मकारोऽयं कथ्यते साक्षरैरिह ॥ ५३५ ॥
4.535 · p. 68
अनुष्टुप्
* वेतननामानि *
भृतिः स्याद्वेतनं मूल्यं कर्मणां निष्क्रयः पणः ।भर्मण्या भर्म निर्वेशो भृत्या च भरणं विधा ॥ ५३६ ॥
4.536 · p. 68
अनुष्टुप्
गणिकाभृतिस्तु भोगो भाटिरित्यपि कथ्यते ।
4.47 · p. 68
metre not recognised
* खलपूनामानि *
बहुधान्यार्जकः स्याद्वै सम्मार्जको बहुकरः ॥ ५३७ ॥
4.537 · p. 68
metre not recognised
खलपू नाम निर्देशः भारवाहस्तु भारिकः ।पुनर्वार्त्तावहे वैवधिको विवधिकस्तथा ॥ ५३८ ॥
4.538 · p. 69
अनुष्टुप्
किल वीवधिकश्चेति भारे विवधवीवधौ ।शिक्यं काचस्तदालम्बो भारयष्टिर्विहङ्गिका ॥ ५३९ ॥
4.539 · p. 69
अनुष्टुप्
तथा विहङ्गमा चेति विबुधैर्कथ्यते खलु ।
4.51 · p. 69
अनुष्टुप्
* वीरनामानि *
स्याद्वै वीरश्च विक्रान्तः शूरश्चारभटस्तथा ॥ ५४० ॥
4.540 · p. 69
अनुष्टुप्
* भीरुनामानि *
अथ स्याद्भीरुको भीरुः भीतश्च भीलुकस्तथा ।कातरश्चकितस्त्रस्तः त्रस्नुश्च दरितस्तथा ॥ ५४१ ॥
4.541 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
व्यग्रः स्याद्व्याकुलश्चैव विहस्तोऽपि तथैव च ।कान्दीशिकोः भयद्रुते समुत्पिञ्जस्तु पिञ्जलः ॥ ५४२ ॥
4.542 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्रु (wrong syllable)
उत्पिञ्जलस्त्रयश्चैते मन्तव्या भृशमाकुले ।
4.55 · p. 69
अनुष्टुप्
* उदारनामानि *
अथोद्भटो महेच्छः स्यान् महात्मा च महाशयः ॥ ५४३ ॥
4.543 · p. 69
अनुष्टुप्
तथोदारोऽप्युदीर्णो वै उदात्तश्च महामनाः ।
4.57 · p. 69
अनुष्टुप्
* कृपणनामानि *
कृपणस्तु कदर्यश्च किम्पचानो मितम्पचः ॥ ५४४ ॥
4.544 · p. 70
अनुष्टुप्
कीनाशो दृढमुष्टिश्च क्षुद्रस्तथैव तद्धनः ।
4.59 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
* कृपालुनामानि *
कृपालुस्तु दयालुश्च सूरतः करुणापरः ॥ ५४५ ॥
4.545 · p. 70
अनुष्टुप्metre not read in every line
* दयानामानि *
अथ दया घृणा शूकः कारुण्यं करुणा कृपा ।अनुक्रोशोऽनुकम्पा स्याद्
4.61 · p. 70
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable); pāda 4, syllable 3 श (wrong syllable)
* हिंसकनामानि *
* हिंसानामानि *
अथ हिंसा वधो घातो व्यापादनं प्रमापणम् ।विबर्हणं निस्तर्हरणं निर्ग्रन्थनं निषूदनम् ॥ ५४७ ॥
4.547 · p. 70
metre not recognised
प्रोज्जासनं प्रवासनं समापनमपासनम् ।विशरणं विशारणं विशसनं च वर्जनम् ॥ ५४८ ॥
4.548 · p. 70
metre not recognised
प्रतिघातनमुन्मथो क्राथो निष्कारणं पुनः ।आलम्भश्च निशुम्भश्च प्रशमनं परासनम् ॥ ५४९ ॥
4.549 · p. 70
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 न्म (wrong syllable); pāda 4, syllable 3 म (wrong syllable)
उद्वासनस्तथा पिञ्जः निर्वापणं निर्यातनम् ।प्रमयश्चापि संक्षप्तिः मारः प्रमथनं तथा ॥ ५५० ॥
4.550 · p. 71
अनुष्टुप्metre not read in every line
कदनं क्षणनं चैव ज्ञेयं निर्वासनं तथा ।स्यात् कर्त्तनं तथा छेदः
4.67 · p. 71
अनुष्टुप्
* आततायिनामानि *
अथ घातोद्यतः स्याद्वै आततायी च षड्विधः ।अग्निदो गरदश्चैव शस्त्रपाणिर्धनावहः ॥ ५५२ ॥
4.552 · p. 71
अनुष्टुप्
क्षेत्रहरस्तथा दारहरो वै आततायिनः ।स शैर्षच्छेदिकः शीर्षच्छेद्यो यो वधमर्हति ॥ ५५३ ॥
4.553 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ह (wrong syllable)
* मृतनामानि *
अथो मृतः प्रभीतश्च परेताऽपगतौ तथा ।प्रेतश्चाऽऽलेख्यशेषश्च नामशेषस्तथैव च ॥ ५५४ ॥
4.554 · p. 71
अनुष्टुप्
यशःशेषोपसम्पन्नौ व्यापन्नश्चापि संस्थितः ।परासुश्चेति शब्दाः वै प्रख्याता मृतवाचकाः ॥ ५५५ ॥
4.555 · p. 71
अनुष्टुप्
मृताहे दीयते दानमौर्ध्वदेहिकनामकम् ।अपस्नानं मृतस्नानं तिलापः पितृतपर्णम् ॥ ५५६ ॥
4.556 · p. 71
अनुष्टुप्metre not read in every line
चितिश्चित्या चिता ज्ञेया ऋजुः स्यात् प्राञ्जलोऽञ्जसः ।यक्षिणसरलो दाराः निवृतस्तु शठस्तथा ॥ ५५७ ॥
4.557 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
अनृजुश्चापि शण्ठः स्यात् क्रूरे पापः नृशंसकः ।निस्त्रिंशश्चापि धूर्तस्तु वञ्चको व्यंसकस्तथा ॥ ५५८ ॥
4.558 · p. 72
अनुष्टुप्
कुहको जालिको मायी दाण्डाजिनिक उच्यते ।मायावी मायिकश्चेति ज्ञातव्या धूर्तवाचकाः ॥ ५५९ ॥
4.559 · p. 72
अनुष्टुप्
शाठ्यं स्यात् शठता माया कुसृतिर्निकृतिः पुनः ।कपटं कैतवं कूटं मिषं लक्षं तथा छलम् ॥ ५६० ॥
4.560 · p. 72
अनुष्टुप्
उपाधिरुपधिश्छद्म व्याजो व्यपदेशो निभम् ।उपधा चेति मन्तव्याः कपटस्यैव वाचकाः ॥ ५६१ ॥
4.561 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 दे (wrong syllable)
अथ स्याद्दम्भचर्या च कुक्कुटिः कुहना तथा ।वञ्चनं च व्यलीकं चाऽतिसन्धानं प्रतारणम् ॥ ५६२ ॥
4.562 · p. 72
अनुष्टुप्
अथाऽऽर्यश्चापि साधुः स्यात् सभ्यश्च सज्जनस्तथा ।दोषैकदृक् पुरोभागी विद्वद्भिः कथ्यते किल ॥ ५६३ ॥
4.563 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
अथ कर्णेजपः क्षुद्रो द्विजिह्वो दुर्जनः खलः ।प्रखलः पिशुनो नीचः स्यान् मत्सरी च सूचकः ॥ ५६४ ॥
4.564 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्स (wrong syllable)
* चोरनामानि *
भवेच्चोरश्च चोरडः ।परिमोषी परास्कन्दी दस्युश्च प्रतिरोधकः ॥ ५६५ ॥
4.565 · p. 72
अनुष्टुप्
तथैकागारिकः स्तेनो मलिम्लुचश्च तस्करः ।पाटच्चरोऽपि चौरश्च पाट-रात्रि-चरस्तथा ॥ ५६६ ॥
4.566 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्लु (wrong syllable)
पटचोरोऽपि नामास्ति तथैव पारिपन्थिकः ।पश्यतो यो हरेदर्थं चोरः स पश्यतोहरः ॥ ५६७ ॥
4.567 · p. 73
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable); pāda 4, syllable 3 स (wrong syllable)
* चौर्यनामानि *
स्याच्चौर्यं चौरिका चैव स्तेयं स्तैन्यं तथैव च ।धनमपहृतं लोप्त्रं विबुधैः कथ्यते खलु ॥ ५६८ ॥
4.568 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
अथ दैवपरो दैववादी देवप्रमाणकः ।यद्भविष्योऽपि नामास्य विद्वद्भिर्मन्यते किल ॥ ५६९ ॥
4.569 · p. 73
अनुष्टुप्
* आलस्यनामानि *
अथाऽऽलस्योऽलसोऽनुष्णः तुन्दपरिमृजस्तथा ।शीतकश्चापि मन्दः स्याद्
4.88 · p. 73
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 न्द (wrong syllable); pāda 4, syllable 3 स्तु (wrong syllable)
* दक्षनामानि *
उष्णोष्णकौ च सूत्थानः चतुरश्चाथ तत्परः ।आसक्तः प्रसितः प्रह्वः प्रवणश्च परायणः ॥ ५७१ ॥
4.571 · p. 73
अनुष्टुप्
* उदारनामानि *
अथोदारश्च दाता वै दानशौण्डो बहुप्रदः ।तथैव स्थूललक्षोऽपि कथ्यते कोविदैः किल ॥ ५७२ ॥
4.572 · p. 73
अनुष्टुप्
* दाननामानि *
अथ दानं तथा त्यागः प्रतिदानं प्रदेशनम् ।उत्सर्जनं विसर्जनं वितरणं विहायितम् ॥ ५७३ ॥
4.573 · p. 74
अनुष्टुप्metre not read in every line
तथा निर्वापरणं निर्वपणं प्रादेशनं पुनः ।अंहतिः स्पर्शनं विश्राणनं स्याच्च वापवजनन् ॥ ५७४ ॥
4.574 · p. 74
metre not recognised
* याचकनामानि *
सुकलोऽर्थव्ययज्ञः स्याद् वनीपकस्तु मार्गणः ।तर्कुको याचकश्वाऽर्थी याचनकस्तथैव च ॥ ५७५ ॥
4.575 · p. 74
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable); pāda 4, syllable 3 न (wrong syllable)
अथाऽर्थना याचना याञ्चा भिक्षणाऽध्येषणाऽर्दना ।एषणा प्रणयश्चापि मार्गणा च सनिस्तथा ॥ ५७६ ॥
4.576 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अभिलाषोऽभिषस्तिश्च नामानि याचकस्य वै ।अथ स्यादुत्पतिष्णुर्वै तथाप्युत्पतिता खलु ॥ ५७७ ॥
4.577 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
मण्डनोऽलङ्कारिष्णुः स्याद् भूष्णुस्तु भाविता तथा ।भविष्णुर्वर्त्तनस्तु वै वर्तिष्णुः कथ्यते बुधैः ॥ ५७८ ॥
4.578 · p. 74
metre not recognised
विसृमरो प्रसारी स्याद् विसारो च विसृत्वरः ।जज्जाशीलोऽपत्रपिष्णुः लज्जालुश्च निगद्यते ॥ ५७९ ॥
4.579 · p. 74
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
क्षमी स्यात् क्षमिता क्षन्ता सहिष्णुः सहनस्तथा ।तितिक्षुश्च तितिक्षा तु क्षान्तिश्च सहनं क्षमा ॥ ५८० ॥
4.580 · p. 74
अनुष्टुप्
ईष्यालुः कुहनो ज्ञेय ईर्ष्याऽक्षान्तिस्तथा स्मृतः ।क्रोधनः कोपनः क्रोधी रोषणश्चाप्यमर्षणः ॥ ५८१ ॥
4.581 · p. 75
अनुष्टुप्
अत्यन्तकोपनो लोकः चण्डश्चेति निगद्यते ।क्षुधितो जिघत्सुराख्यातो बुभुक्षितोऽशनायितः ॥ ५८२ ॥
4.582 · p. 75
अनुष्टुप्metre not read in every line
* क्षुधानामानि *
बुभुक्षा तु क्षुधा क्षुत् च रोचकश्च रुचिस्तथा ।अशनाया जिघत्सा च बुभुक्षावाचका अमी ॥ ५८३ ॥
4.583 · p. 75
अनुष्टुप्
* पिपासुनामानि *
तर्षितस्तृषितस्तृष्णक् पिपासुः स्यात् पिपासितः ।तृष्णा तु तृट् तृषा तर्षः पानं तथाऽपलासिका ॥ ५८४ ॥
4.584 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
उदन्या च पिपासा च धीतिश्चेति तृषाः स्मृताः ।शोषणं स्याद्रसादानं भक्षकः स्यात् तु घस्मरः ॥ ५८५ ॥
4.585 · p. 75
अनुष्टुप्
आशित आशिरश्चापि अद्मरश्चेति भक्षकाः ।
4.105 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
* अन्ननामानि *
अथान्नमोदनोऽन्धश्च दीदिविश्च प्रसादनम् ॥ ५८६ ॥
4.586 · p. 75
अनुष्टुप्metre not read in every line
याजो नाजोऽशनं भिस्सा भक्तं जीवनकं तथा ।कूरं च दग्धिका चैवं भिस्सटा मन्यते बुधैः ॥ ५८७ ॥
4.587 · p. 75
अनुष्टुप्
माण्डं सर्वरसाग्रं स्यात् मस्तु च दधिजं भवेत् ।भक्तोत्थास्त्रय आख्याता निःस्रावाऽऽचामभासराः ॥ ५८८ ॥
4.588 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 स्तु (wrong syllable)
भक्तमण्डं प्रसावश्च प्रस्त्रवाऽऽच्छोदनाऽऽस्त्रवाः ।
4.109 · p. 76
अनुष्टुप्
* श्राणानामानि *
श्राणा सैव विलेपी स्यात् तरला तरलं तथा ॥ ५८९ ॥
4.589 · p. 76
अनुष्टुप्
* सूपस्य नामानि *
सूपश्च प्रहितश्चापि सूदोऽपि द्विदलान्नकम् ॥ ५९० ॥
4.590 · p. 76
अनुष्टुप्
व्यजनं घृतशाकादि तिलान्ने कृसरो भवेत् ।त्रिसरोऽपि तिलान्नस्य नामास्ति व्यवहारतः ॥ ५९१ ॥
4.591 · p. 76
अनुष्टुप्
* पूपस्य नामानि *
* पूलिका(पूरी)नामानि *
पूलिका पोलिका पोली पूपिका पूपली तथा ॥ ५९२ ॥
4.592 · p. 76
अनुष्टुप्
* तेमननामानि *
तेमनं क्नोपनं तद्वन् निष्ठानमुपसेचनम् ॥ ५९३ ॥
4.593 · p. 76
अनुष्टुप्
* करम्बनामानि *
करम्बश्च करम्भश्चः दधिसक्तुरपीष्यते ।
4.118 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 त (wrong syllable)
* घार्त्तिकनामानि *
घार्त्तिको घृतपूरश्च पिष्टपूरो घृतवरः ॥ ५९४ ॥
4.594 · p. 77
अनुष्टुप्metre not read in every line
चमसी चमसश्चापि पिष्टवर्त्तिरपीष्यते ।वटको वटकञ्चावसेकिमश्च निगद्यते ॥ ५९५ ॥
4.595 · p. 77
अनुष्टुप्