कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उग्रगन्ध

ugragandhaपुं · masc.

In 5 kośas: 5 synonym verses, 3 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.128 · p. 146
वन्यार्द्रकाथो रसोने लशुनो रशुनोऽस्त्रियाम् ।उग्रगन्धो म्लेच्छकन्दो भूतघ्नः षण्महौषधम् ॥ १२८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.290 · p. 281
क्षुद्रात्पर्णश्च तुलसी कुठेरोऽपि कडिञ्जरः ।पुखार्जकश्चोग्रगन्धः सुमुखस्तु सितार्जके ॥ २९० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.57 · p. 180
न स्त्री रसोनो लशुनो म्लेच्छकन्दोऽप्यरिष्टकः ।राहूत्सृष्टो महाकन्दोऽप्युग्रगन्धो नृणां तथा ॥ ५७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.266 · p. 77
स्यादुदुम्बरपर्णी च दन्तिजा दन्तिमूलिका ।उग्रगन्धोऽजमोदा स्यादजगन्धा च दीप्यकम् ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.171 · p. 59
सुखवासे शीर्णवृन्त उग्रगन्धः सुवासकः ।त्रिलिंगे त्रपुषे तालुश्छर्दनी हस्तिपर्णिनी ॥ १७१ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.90 · p. 33
क्ली तु ताम्रे च हेमाक्षेऽप्युग्रगन्धा पुनः स्त्रियाम् ।वचायामजमोदायां सिते तु लशुने पुमान् ॥ ९० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.91 · p. 33
फलवल्लीविशेषे(ण ? च) चीर्णवृन्त इति श्रुते ।उपह्वरोऽस्त्री रहसि समीपेऽथो उपासना ॥ ९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 8.5.5 · p. 277
वचाजमोदयोरुग्रगन्धा ना लशुने सिते ।कलधौतं रूप्यहेम्नोः षण्डस्त्री तु कलध्वनौ ॥ ५ ॥
अनुष्टुप्