अजमोदा
ajamodāस्त्री · fem.In 8 kośas: 7 synonym verses, 3 as a nānārtha head word, 9 as a meaning of another word.
अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका ।
अनुष्टुप्
genderस्त्रीfem.
रुद्रैला त्रिपुटा पृथ्वी कल्पाप्यैन्द्री कुमारिका ।खरीका त्वजमोदापि वार्कटी हस्तिकारवी ॥ ३६१ ॥
अनुष्टुप्
genderस्त्रीfem.
गाथा कन्था कुथा तद्वद् गदा स्यादजमोदया ।मर्यादा चानुराधेक्षुगन्धा गोधा च राधया ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
अजमोदा तु मिथुने मोदा स्यादुग्रगन्धिका ।खराश्वा हृद्यगन्धा च ब्रह्मदर्भा च कारवी ॥ ९० ॥
अनुष्टुप्
genderस्त्रीfem.
रसाम्लः शीतभेदी च भीमश्चाप्याम्लवेतसः ।अजमोदा खराह्वा च कारवी लोमकर्कटी ॥ १०४ ॥
अनुष्टुप्
genderस्त्रीfem.
स्यादुदुम्बरपर्णी च दन्तिजा दन्तिमूलिका ।उग्रगन्धोऽजमोदा स्यादजगन्धा च दीप्यकम् ॥
अनुष्टुप्
genderस्त्रीfem.
अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका ।कारवी च खराश्वोग्रा दीप्यका लोचमस्तकः ॥ १०२ ॥
अनुष्टुप्
genderस्त्रीfem.
सूत्रस्यूतैः कृते चापि वलयेऽथ निबोधत ।अजमोदा यवानीति प्रसिद्धे भेषजान्तरे ॥ ३ ॥
अनुष्टुप्
meaningsयवानी
शल्मलेरपि निर्यासेऽथान्तशय्या श्मशानके ।तथैव भूमिशय्यायामथो अपचितिः क्षये ॥ ४ ॥
अनुष्टुप्
meaningsशल्मलिनिर्यास
doubtful
अर्चनायामपचितिः प्रक्षये निष्कृतौ व्यये ।अजमोदा शाल्मलेश्च निर्यासेऽथ गदद्रुहि ॥ १ ॥
अनुष्टुप्
अजमोदा as a meaning in nānārtha verses
- कोषकल्पतरु उग्रगन्धाना ब्रह्मबन्धुरुक्तोऽधिक्षेपे विप्रनिर्देशे । छिक्कौषधौ वचायामजमोदासूग्रगन्धा च ॥ ८६ ॥ Koṣakalpataru 6.20.86
- नानार्थार्णवसंक्षेप उग्रावचायां च खराश्वाख्याजमोजान्तरभेषजे । उग्रा क्लीबं तु लवणे घटिकालवणाह्वये ॥ ९४ ॥ Nānārthārṇavasaṃkṣepa 2.5.94
- नानार्थार्णवसंक्षेप उग्रगन्धक्ली तु ताम्रे च हेमाक्षेऽप्युग्रगन्धा पुनः स्त्रियाम् । वचायामजमोदायां सिते तु लशुने पुमान् ॥ ९० ॥ Nānārthārṇavasaṃkṣepa 6.90
- शिवकोष उग्रगन्धाइक्षुगन्धः सुगन्धौ स्यात्त्रिषु क्लीबं तु वालुके । उग्रगन्धाजमोदायां वचायां क्षुद्विबोधने ॥ २३९ ॥ Śivakoṣa 15.3.239
- शिवकोष खरखरो ना पृथुले क्लीबं देवताडाजमोदयोः । गरा गरी च जीमूते न स्त्री तूपविषे विषे ॥ ३७४ ॥ Śivakoṣa 22.2.374
- शिवकोष कारवीकारवी रामचीघोषाजमोदाकृष्णजीरके । कितवश्चोरके धूर्ते कैरवं कुमुदेऽम्बुजे ॥ ५०४ ॥ Śivakoṣa 24.2.504
- शिवकोष मिसिमिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः । मृत्सा काक्षीश्रेष्ठमृदो रसो सूते विषे बले ॥ ५२६ ॥ Śivakoṣa 27.1.526
- शब्दरत्नावली दीप्यकदीप्यकं त्वजमोदायां रजन्यां बर्हिचूडके । दूषिका स्यात् तूणिकायां तथा नेत्रमलेऽपि च ॥ Śabdaratnāvalī 7.1.89
- वैजयन्ती उग्रगन्धावचाजमोदयोरुग्रगन्धा ना लशुने सिते । कलधौतं रूप्यहेम्नोः षण्डस्त्री तु कलध्वनौ ॥ ५ ॥ Vaijayantī 8.5.5