रसोन
rasonaपुं · masc.In 16 kośas: 13 synonym verses, 3 as a nānārtha head word, 8 as a meaning of another word.
रसोनो लसुनोऽरिष्टो म्लेच्छकन्दो महौषधम् ॥ ११८६ ॥महाकन्दो रसोनोऽन्यो गृञ्जनो दीर्घपत्त्रकः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भृ (wrong syllable)
genderपुंmasc.
पुण्डर्यामपि पौण्डर्यं रसोनश्च रसोनकः ।मुसुस्ता मुस्तकं स्यात् … नटावपि ॥ १४३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
निपानवातायनयोरभिधानखलीनयोः ।भुवनस्य रसोनस्य खलिनस्य ततोऽपि च ॥ १६७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
न स्त्री रसोनो लशुनो म्लेच्छकन्दोऽप्यरिष्टकः ।राहूत्सृष्टो महाकन्दोऽप्युग्रगन्धो नृणां तथा ॥ ५७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वातायनं सानु दिनं निपानंप्रस्फोटनं लग्नरसोनशिश्नम् ।स्यात्केतनं नाम च तर्म-कर्म-भूम्ना महिम्ना लसुनं धनं च ॥ ५२ ॥
इन्द्रवज्रा
genderपुंक्लीm. n.
कुञ्ची कालोपकालोपकुञ्चिकोत्कुञ्चिकाऽपि च ।रसोने लशुनो म्लेच्छकन्दोरिष्टो महौषधम् ॥ ३३८ ॥
अनुष्टुप्
genderपुंmasc.
अर्शोघ्नी मुसली ताली तालमूली खलिन्यपि ।खञ्जोऽरिष्टो ग्रहोच्छिष्टो रसोनो गृञ्जनः कटुः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
वातायनाभिधानानुमानानि खलिनं तथा ।खलीनं भवनं चैव रसोनभुवने समे ॥ १४६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
रसोनो लसुनो रिष्फो म्लेच्छकन्दः सिताण्डकः ।वेत्रो वेतो योगिदण्डः सुदण्डो मृदुपर्वकः ॥ २०२ ॥
अनुष्टुप्
genderपुंmasc.
रसोनो म्लेच्छकन्दश्च सप्त नामानि सन्ति वै ।दीर्घपत्रकनामापि रसोनो गृञ्जनो भवेत् ॥ २१४३ ॥
अनुष्टुप्
genderपुंmasc.
वार्षिकं त्रायमाणः स्यात् नायन्ती बलभद्रिका ।रसोनो गृज्जनोऽरिष्टः पलाण्डुरमृतोद्भवः ॥ ६५२ ॥
अनुष्टुप्
genderपुंmasc.
ऊनोऽम्लेन रसेनेति रसोनस्तेन कीर्त्तितः ॥ ३० ॥
genderपुंmasc.
खञ्जेऽरिष्टो गृहोछिष्टो रसोनो गृंजनः कटुः ।कायांगं लशुनं दिव्यं महाकन्दामृतोद्भवे ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
रल्लकस्तु पुमाञ्ज्ञेयः कम्बले स्याद्द्वयोः पुनः ।मृगभेदे रसोनस्तु पुमाल्लँशुनभेषजे ॥ १४९२ ॥
अनुष्टुप्metre not read in every line
meaningsलशुन
रसहीने पुनस्त्रि स्याद् रक्ताक्षस्तु द्वयोरयम् ।राक्षसे महिषे चापि रभसस्त्वाह शब्दवित् ॥ १४९३ ॥
अनुष्टुप्
meaningsरसहीन
doubtful
रसोना विजयायां च रसोनं तु महौषधे ।रक्षोघ्नी जटिलाचोरपुष्प्योः पुंसि तु सर्षपे ॥ २६३ ॥
अनुष्टुप्
meaningsमहौषध
रसोन as a meaning in nānārtha verses
- कोषकल्पतरु अरिष्टकाककङ्कपिचुमन्दरसोन- फेनिलेषु नरि तद्वदरिष्टः । सूतिकागृहशुभाशुभचिह्ने- ष्वन्तिमे कुशधियः प्रवदन्ति ॥ ३८ ॥ Koṣakalpataru 6.10.38
- कोषकल्पतरु गृञ्जनज्येष्ठ्यां भवेत्तत्र च लेपनाया- मथो रसोनेऽपि च गृञ्जनोऽस्त्री । वि[षेण]लिप्त स्य पशोश्च मांसे क्लीबेऽथ वान्तोयुजि लेखनं न ॥ ५८ ॥ Koṣakalpataru 6.21.58
- परमानन्दीयनाममाला कटुकन्दकरवीरः कृपाणेऽपि हयमारस्मशानयोः । कटुकन्दो रसोने स्याच्छृङ्गबेरेऽपि कथ्यते ॥ १३८ ॥ Paramānandīyanāmamālā 5.7.138
- शिवकोष कुक्कुटीगूढपत्रे कुक्कुटी च काकणन्तीरसोनयोः । कन्दभेदे च लट्वायां मोचायामश्मभिद्यपि ॥ १२८ ॥ Śivakoṣa 8.2.128
- शिवकोष महाकन्दगोधापदी तालपत्र्यां हंसपद्यां च योषिति । महाकन्दः शृङ्गवेरे रसोने शालनक्षमे ॥ २३१ ॥ Śivakoṣa 14.3.231
- शब्दरत्नावली कटुकन्दअभिमर्दः सम्परायेऽप्यवमर्दे च पुंस्ययम् । कटुकन्दः शृङ्गवेरे रसोने शिप्रके पुमान् ॥ Śabdaratnāvalī 7.18.25
- शब्दरत्नावली गृञ्जनग्रावा स्यात्पुंसि पाषाणे दृढे पृथ्वीधरेऽपि च । गृञ्जनो ना रसोने स्त्री निषाक्तपशुमांसके ॥ गोस्तनो ना हारभेदे द्राक्षायां स्त्री च गोस्तनी । गोमी पुंसि जम्बुके स्याद्गोमत्युपासके त्रिषु ॥ चलनं भ्रमणे कम्पे क्लीबं कम्पयुते त्रिषु । चलनी वस्त्रविधिन्यां वारीभेदे च कुत्रचित् ॥ चक्री काककुलालाजग्रामजालिकसूचके । सर्पे तैलिकभेदे स्याद्वासुदेवे च पुंस्ययम् ॥ चर्मी भृङ्गरिटौ भूर्जे मोचाफलकहस्तयोः । चर्म क्लीबन्तु फलके कृत्तौ त्वचि तु कुत्रचित् ॥ चेतनो वाच्यवत् प्राणयुक्ते च संविदि स्त्रियाम् । छर्दनं वमने क्लीबं पुंसि निम्बेऽप्यलम्बुषे ॥ छदनं चलने पक्षे पिधानेऽपि नपुंसकम् । छेदनन्तु द्विधा कार्ये कर्त्रनेऽपि च न द्वयोः ॥ जवनस्तु रये वेगिहये वेगवति त्रिषु ॥ Śabdaratnāvalī 7.20.55
- त्रिकाण्डशेष कडकन्दकन्दोऽस्त्री शूरणे मूले राजलिङ्गविषाणयोः । स्त्री ककुत्कडकन्दस्तु शृङ्गवेररसोनयोः ॥ २०४ ॥ Trikāṇḍaśeṣa 3.3.204