कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

महाकन्द

mahākandaपुं · masc.

In 11 kośas: 13 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.118 · p. 46
रसोनो लसुनोऽरिष्टो म्लेच्छकन्दो महौषधम् ॥ ११८६ ॥महाकन्दो रसोनोऽन्यो गृञ्जनो दीर्घपत्त्रकः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भृ (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.148
लतार्कदुद्रुमौ तत्र हरितेऽथ महौषधम् ।लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.115 · p. 145
विष्णुगुप्तो महाकन्दो वालेयो मरुसम्भवः ।शालाककटुकश्चापि कौटिल्यश्चाथ गृञ्जनः ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.53 · p. 180
स्थलकन्दो ग्रामकन्दो महाकन्दस्तु माणकम् ।चिञ्चोटकं कशेर्वस्त्री वृषपर्वाथ तन्महत् ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.57 · p. 180
न स्त्री रसोनो लशुनो म्लेच्छकन्दोऽप्यरिष्टकः ।राहूत्सृष्टो महाकन्दोऽप्युग्रगन्धो नृणां तथा ॥ ५७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र शाककाण्डः Nighaṇṭuśeṣa 4.339 · p. 183
महाकन्दोऽपरोऽप्येष गृञ्जनो दीर्घपत्रकः ।पलाण्डौ यवनेष्टः स्यात् सुकन्दो वक्त्रदूषणः ॥ ३३९ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र शाककाण्डः Nighaṇṭuśeṣa 4.356 · p. 191
श्रीवारकः शितिवरो वितुन्नः कुक्कटः शितिः ।मूलके तु महाकन्दो रुचिष्यो हस्तिदन्तकः ॥ ३५६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.106 · p. 65
अरिष्टो लसुनो म्लेच्छकन्दश्चापि रसोनकः ।महौषधं महाकन्दो दीर्घपत्रः पृथक्पुनः ॥ १०६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.272 · p. 77
अस्मिन्नेव हरिद्वर्णे लतार्को दुर्द्रुमोऽपि च ।रसोनको महाकन्दो म्लेच्छकन्दोऽपि गृञ्जनम् ।महौषधमरिष्टश्च लशुनञ्च लशूनवत् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.293 · p. 79
उपोदिका पोतिका स्यादुपती पोतकीत्यपि ।महाकन्दो हस्तिदन्तो मूलकं मूलकोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.653 · p. 84
सुकन्दकः कटुः कञ्जो महाकन्दो महौषधम् ।कायाङ्गं लशुनं दीप्यं जीर्णकं गुल्मनाशनम् ॥ ६५३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.204 · p. 62
खञ्जेऽरिष्टो गृहोछिष्टो रसोनो गृंजनः कटुः ।कायांगं लशुनं दिव्यं महाकन्दामृतोद्भवे ॥ २०४ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.76 · p. 129
शृंगिबेरं महाकन्दं हंसच्छत्रं कलापकम् ।पिप्पली मागधी शौण्डी वृषलं चोषणा बला ॥ ७६ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.466 · p. 66
अत्रापि पूर्ववत् सादि महाकन्दं पुनर्नपि ।शुण्ठ्यां पुंशण्डयोस्तु स्याल्लशुनेऽर्थादि पूर्ववत् ॥ ४६६ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र दच Śivakoṣa 14.3.231 · p. 22
गोधापदी तालपत्र्यां हंसपद्यां च योषिति ।महाकन्दः शृङ्गवेरे रसोने शालनक्षमे ॥ २३१ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र दच Śivakoṣa 14.3.232 · p. 22
माणके मूलके स्त्री तु विदारीकन्दरम्भयोः ।सप्तच्छदं सप्तपर्णे भेदे विचिकिलस्य च ॥ २३२ ॥
अनुष्टुप्
doubtful