कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कुमुदिनीपति

kumudinīpatiपुं · masc.

In 4 kośas: 4 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.105 · p. 8
चन्द्रमाः कुमुदबान्धवो दशश्वेतवाज्यमृतसूस्तिथिप्रणीः ।कौमुदीकुमुदिनीभदक्षजारोहिणीद्विजनिशौषधीपतिः ॥ १०४ ॥जैवातृकोऽब्जश्च कलाशशैणच्छायाभृदिन्दुर्विधुरत्रिदृग्जः ।राजा निशो रत्नकरौ च चन्द्रः सोमोऽमृतश्वेतहिमद्युतिर्ग्लौः ॥ १०५ ॥
रथोद्धता
genderपुंmasc.doubtful
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.170 · p. 398
स्तृर्दक्षजारोहिणीनिडोषधीनां द्विजन्मनाम् ।कुमुदिन्याश्च कौमुद्या ग्रहाणां चार्थतः पतिः ॥ १७० ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.58 · p. 32
सुधानिधि-कलानिधी [22a] सवन ओषधीशो विधुःवलक्षगु-निशामणी तपस-रोहिणीवल्लभौ ।हिमद्युति-तमोनुदौ कुमुदिनीपतिः पारदोहरिः कुमुदबान्धवो दशहयश्च जैवातृकः ॥ ५८ ॥
पृथ्वीmetre not read in every line
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.68 · p. 8
ओषधीशो निशानाथ इन्दुः कुमुदिनीपतिः ।अब्जो राजा चोडुपतिः कलानाथो हिमद्युतिः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.