कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हिमद्युति

himadyutiपुं · masc.

In 11 kośas: 11 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.105 · p. 8
चन्द्रमाः कुमुदबान्धवो दशश्वेतवाज्यमृतसूस्तिथिप्रणीः ।कौमुदीकुमुदिनीभदक्षजारोहिणीद्विजनिशौषधीपतिः ॥ १०४ ॥जैवातृकोऽब्जश्च कलाशशैणच्छायाभृदिन्दुर्विधुरत्रिदृग्जः ।राजा निशो रत्नकरौ च चन्द्रः सोमोऽमृतश्वेतहिमद्युतिर्ग्लौः ॥ १०५ ॥
रथोद्धता
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त चन्द्रनामानि Gaṇitanāmamālā 7.61 · p. 4
शीतकिरणो हिमरश्मिः शीतद्युतिर्हिमद्युतिः ।ऋक्षराजा श्वेतरश्मिः शीतांशुर्यामिनीपतिः ॥ ६१ ॥
metre not recognised
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम अन्तरिक्षाधिकारो द्वितीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 2.6 · p. 20
त्वाष्ट्रप्रभा च गतिका छायादेवी क्षुभा मही ।हिमद्युतिः शशिश्चन्द्रश्चन्द्रमाः शशभूर्विधुः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.173 · p. 399
हिमश्वेतद्युतिः शम्भुपर्यायेभ्यः शिरोमणिः ।छायामृगसुधार्थेभ्यः पिद्मुः सिन्धुः सुधाऽर्थतः ॥ १७३ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.58 · p. 32
सुधानिधि-कलानिधी [22a] सवन ओषधीशो विधुःवलक्षगु-निशामणी तपस-रोहिणीवल्लभौ ।हिमद्युति-तमोनुदौ कुमुदिनीपतिः पारदोहरिः कुमुदबान्धवो दशहयश्च जैवातृकः ॥ ५८ ॥
पृथ्वीmetre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.98 · p. 17
जर्णो जैवातृकः सोमः श्वेतवाजी हिमद्युतिः ।विधुरिन्दुः सुधासूश्च चन्द्रमा रोहिणीपतिः ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.68 · p. 8
ओषधीशो निशानाथ इन्दुः कुमुदिनीपतिः ।अब्जो राजा चोडुपतिः कलानाथो हिमद्युतिः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.89 · p. 14
निशौषधी-कौमुदी-भ[-दक्षजा-रोहिणी-पतिः ।श्वेतवाजी तथा सोमः श्वेताऽमृत-हिम-द्युतिः ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.195 · p. 14
नक्षत्रेशो रोहिणीशस्तुषारकिरणो हरिः ।हिमद्युतिर्द्विजपतिर्विश्वप्साऽमृतदीधितिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 27 · p. 533
हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः ॥ २७ ॥
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.24 · p. 19
हिमद्युतिः शशी चन्द्रश्चन्द्रमाः शशभृद्विधुः ।परिज्मा रोहिणीकान्तो निशानाथो निशाकरः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.

हिमद्युति as a meaning in nānārtha verses