कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चन्द्रमस्

candramasपुं · masc.

In 21 kośas: 22 synonym verses, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.105 · p. 8
चन्द्रमाः कुमुदबान्धवो दशश्वेतवाज्यमृतसूस्तिथिप्रणीः ।कौमुदीकुमुदिनीभदक्षजारोहिणीद्विजनिशौषधीपतिः ॥ १०४ ॥जैवातृकोऽब्जश्च कलाशशैणच्छायाभृदिन्दुर्विधुरत्रिदृग्जः ।राजा निशो रत्नकरौ च चन्द्रः सोमोऽमृतश्वेतहिमद्युतिर्ग्लौः ॥ १०५ ॥
रथोद्धता
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.16
हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ १३ ॥विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः ।अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः ॥ १४ ॥द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.42 · p. 6
इन्दुश्चन्द्रश्चन्द्रमा ओषधीशः,सोमो राजा रोहिणीवल्लभोऽब्जः ।ऋक्षेशः स्यादत्रिनेत्रप्रसूतः,प्रालेयांशुः श्वेतरोचिः शशाङ्कः ॥ ४२ ॥
शालिनी
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 9 · p. 1
उपाध्यायीविटश्चन्द्र परिज्मा पद्मिनीपतिः ।चन्द्रमा ना चन्द्रमसि चान्द्री ज्योत्स्ना निगद्यते ॥ ९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त चन्द्रनामानि Gaṇitanāmamālā 7.58 · p. 4
चन्द्रमा रजनीनाथो रोहिणीवल्लभो विभुः ।दोषाकरो निशानाथो प्रालेयांशुनिशापतिः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम अन्तरिक्षाधिकारो द्वितीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 2.6 · p. 20
त्वाष्ट्रप्रभा च गतिका छायादेवी क्षुभा मही ।हिमद्युतिः शशिश्चन्द्रश्चन्द्रमाः शशभूर्विधुः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.426 · p. 296
चन्द्रमाः कनकाभासः सर्वदा स जलेचरः ।चित्रितः पाण्डुरश्चापि सर्पनिर्मोकसंनिभौ ॥ ४२६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.167 · p. 398
चन्द्रमाश्चन्दिरः सोमः क्लेदुः पैद्वश्च पक्षजः ।सृप्रः पर्वविपद्गौरः परिज्ञश्च विरोचनः ॥ १६७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.30 · p. 420
कुतलः कमलश्चारो नन्दनश्चन्द्रमाः खरः ।कामदो विजयश्चैव कन्दर्पजयमङ्गलौ ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.56 · p. 32
चन्द्रश्चन्दश्चन्दिरश्चद्रमाः सइन्दुः सिन्धूत्थः सुधांशुः सुधासूः ।तारापीडस्तारकेशो द्विजेशः ।राजा सोमः पक्षजन्मा परिज्मा ॥ ५६ ॥
शालिनी
genderपुंmasc.doubtful
सुमनस् अप्सरस् इत्येताभ्यां विरहितमुज्झितमित्यर्थः । अस् अन्ते यस्य तदिदमसन्तं पुंसि भवेदित्यर्थः । अयमङ्गिराः चन्द्रमाः स्थूलशिराः । पुरूरवाः उच्चैःश्रवाः दुर्वासाः पृथुयशा इत्यादयः । सुमनसोऽप्सरसश्च स्त्र्यधिकारात्स्त्रियां प्रवृत्तिः । इमाः सुमनसः कुसुमानि । इमा अप्सरसो देवस्त्रियः । द्व्यच्कमसन्तं नपुंसकं भवति । इदमोजः तेजः वर्चः शिरः यशः छन्दः श्रोतः चेतः पयः तपः अम्भः । जरस्शब्दस्यापि नपुंसकता स्यादित्यत आहान्यत्र वै जरसः । नपुंसकात्प्रकृताच्च पुंल्लिङ्गादन्यस्मिन् जरस् शब्दो भवति । स्त्रियाम् । इयं जरा वृद्धभावः ।पुंसि क्षुरखुरबिन्द्विक्षुपायुमणिकीलकेलिबलयः ।निघसङ्घोद्घोपघ्नौघविघ्नघर्मार्घवर्णाश्च ॥ २५ ॥
metre not recognisedimpossible sibilant cluster: जरस्शब्दस्यापि
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 47 · p. 24
शशी विधुः सुधासूतिः कौमुदीकुमुदप्रियः ।कलाभृच्चन्द्रमाश्चन्द्रः कान्तिमानोषधीश्वरः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.98 · p. 17
जर्णो जैवातृकः सोमः श्वेतवाजी हिमद्युतिः ।विधुरिन्दुः सुधासूश्च चन्द्रमा रोहिणीपतिः ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.66 · p. 8
तिमिरारिर्दिनकरो यमुनाजनकोऽरुणः ।चन्द्रः सोमो मृगाङ्को ग्लौर्हिमांशुश्चन्द्रमाः शशी ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.36 · p. 6
वृषभो वारणो वाजी कपिः क्रौञ्चाऽब्जस्वस्तिकाः ।चन्द्रमाः मकराङ्कः श्रीवत्सः खड्गी च सैरिभः ॥ ३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ब्ज (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.88 · p. 14
चन्द्रः शशी सुधांशुश्च विधुरिन्दुश्च चन्द्रमाः ।नक्षत्रेशः निशेशश्च निशारत्नं निशाकरः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.191 · p. 14
चन्द्रो हिमांशुः शुभ्रांशुः सुधांशुर्मृगलाञ्छनः ।मृगाङ्कश्चन्द्रमा इन्दुरब्जः कुमुदबान्धवः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.13 · p. 178
चन्द्र-चन्द्रौ चन्द्रमसाऽमा विकुस्र-विकस्रकौ ।विकस्रः सोम-सोमानौ यज्ञपेयरसेऽपि च ॥ १३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.176 · p. 24
अब्जश्चन्द्रो विधुरमृतगुश्चन्द्रमा ओषधीश-स्तारानाथः सरसिजरिपुः शर्वरीशः शशाङ्कः ।ग्लौरेणाङ्कः शिशिरकिरणो रोहिणीबन्धुरिन्दुःसोमो राजा तुहिनकिरणः श्वेतभानुर्द्विजेन्द्रः ॥ १७६ ॥
मन्दाक्रान्ता
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 27 · p. 533
हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः ॥ २७ ॥
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 235 · p. 346
तपसश्चन्द्रमाः ॥ २३५ ॥
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.24 · p. 19
हिमद्युतिः शशी चन्द्रश्चन्द्रमाः शशभृद्विधुः ।परिज्मा रोहिणीकान्तो निशानाथो निशाकरः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.

चन्द्रमस् as a meaning in nānārtha verses