कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सवन

savanaक्ली · neut.

In 14 kośas: 14 synonym verses, 6 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.387 · p. 27
निर्वेश उपभोगः स्यात्स्नानं सवनमाप्लवः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.85
स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.408 · p. 47
आचमनमुपस्पर्शनमाप्लवनं स्नानमिष्यते सवनम् ।निर्णिक्तं प्रक्षालितमाहुर्धौतं च तुल्यार्थम् ॥ ४०८ ॥
आर्या
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.60 · p. 75
इष्टिः संस्था पुमान्मेधः सवनं षण् भिदस्य च ।राजसूयं वाजपेयं पुंसि क्लीबेऽथ तस्य च ॥ ६० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.65 · p. 75
स्त्री सुत्या सवनं क्लीबे स्यात्पुंस्यभिषवः पुनः ।आतिथ्याद्या इष्टयः स्युर्यज्ञान्तोऽवभृथः पुमान् ॥ ६५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.58 · p. 32
सुधानिधि-कलानिधी [22a] सवन ओषधीशो विधुःवलक्षगु-निशामणी तपस-रोहिणीवल्लभौ ।हिमद्युति-तमोनुदौ कुमुदिनीपतिः पारदोहरिः कुमुदबान्धवो दशहयश्च जैवातृकः ॥ ५८ ॥
पृथ्वीmetre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.44 · p. 235
दीक्षान्तोऽवभृथो यज्ञे सुत्वा त्वभिषुतस्त्रिषु ।स्वाध्यायः स्या[99b]ज्जपः सुत्याभिषवः सवनं च तत् ।समाजस्तु सभा-संसद्धटा-समिति-पर्षदः ॥ ४४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.292 · p. 137
आप्लवः सवनस्नाने कस्तूरीचन्दनादिभिः ।कर्पूरागरुकक्कोलैः स्मर्यते यक्षकर्दमः ॥ २९२ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.237 · p. 55
सोमाभिलाषमानुष्यानुष्ठानदिवसे स्मृता ।सुत्याभिषव आनायः सवनं च निषेवणम् ॥ २३७ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1030 · p. 158
आप्लाव आप्लवः स्नानं सवनं चापि मन्यते ॥ १०३० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.25 · p. 112
यज्ञो यागः सप्ततन्तुरिष्टिरिष्टं मखः क्रतुः ।वितानमध्वरो मन्युराहवः सवनं सवः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.90 · p. 116
स्वाध्यायो जप इत्युक्तः वेदाध्ययनकर्मणि ।यज्ञस्नाने त्वषिसवः सुत्या सवनमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1171 · p. 144
ब्रह्माग्रजन्मा यज्ञस्तु सप्ततन्तुः सवः क्रतुः ।हवोऽध्वरो मखो यागो वितानं सवनं समे ॥ ११७१ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.69 · p. 88
अथाग्न्याधानमाधेयमाधानं चाग्निसंग्रहः ।होमस्तु सवनं होत्रं हवनं हुतिराहुतिः ॥ ६९ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.25 · p. 113
सवनं त्वध्वरे स्नाने सोमनिर्दलनेऽपि च ।जघनश्च स्त्रियाः पूर्वश्रोणीभागे कटौ तथा ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.9 · p. 248
स्यात्सवनं स्थितिवाचकमिष्टौसोमलताभिषवे नरि चन्द्रे ।निद्रा शय्या सुरते शयनंशमनस्तु यमेऽन्त्ये वधशान्त्योः ॥ ९ ॥
दोधकम्metre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1896 · p. 212
तद्वतिच्छादिते चाथ सवत्तं क्लीबलिङ्गकम् ।सोमाभिषवणे स्नाने काण्डेऽथो शाकटायनः ॥ १८९६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1897 · p. 212
आह कालविशेषेऽमुं स्यात् प्रातः सवनादिषु ।यज्ञस्य ना तु यागेऽथ वनेन सहिते त्रिषु ॥ १८९७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.88 · p. 242
सवनन्तु मखे स्नाने सोमनिर्दलनेऽपि च ।स्तननं शब्दमात्रे स्याद्घनशब्दे च कुन्दुने(?) ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.269 · p. 184
ऋतौ स्नाने च सवनं मारणेऽपि समापनम् ।स्यन्दनं स्रवणे ना तु रथे तिनिशपादपे ॥ २६९ ॥
अनुष्टुप्

सवन as a meaning in nānārtha verses