All kośas › Śāradīyākhyanāmamālā
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā
462 verses · 4,677 words tagged · 226 marked doubtful (dashed)
प्रथमः काण्डः · व्योमवर्गः
इति देववर्गः समाप्तः
आकाशमभ्रं गगनं व्योम विष्णुपदं नभः ।अम्बरं पुष्करं खं द्यौरन्तरिक्षं मरुत्पथः ॥ ५९ ॥
1.2.59 · p. 7
अनुष्टुप्
वियद्विहायोऽनन्तं च सुरवर्त्म घनाश्रयः ।आदित्यः सविता सूर्यो रविर्भानुर्दिनेश्वरः ॥ ६० ॥
1.2.60 · p. 7
अनुष्टुप्
अर्कः सूरः खगः पूषा पतंगो भास्करो भगः ।तपनस्तरणिर्मित्रश्चित्रभानुस्त्रयीतनुः ॥ ६१ ॥
1.2.61 · p. 7
अनुष्टुप्
सप्ताश्वोऽहस्करो भास्वान्द्वादशात्मा विरोचनः ।प्रभाकरः सहस्रांशुर्मार्तण्डो मिहिरोऽर्यमा ॥ ६२ ॥
1.2.62 · p. 8
अनुष्टुप्
प्रद्योतनो जगच्चक्षुः कर्मसाक्षी दिवाकरः ।हरिदश्वो हरिर्हेलिर्ब्रध्नो हंसो विकर्तनः ॥ ६३ ॥
1.2.63 · p. 8
अनुष्टुप्
उष्णरश्मिर्ग्रहपतिर्गभस्तिश्चक्रबान्धवः ।इनोंऽशुमाली तीक्ष्णांशुः सप्तसप्तिर्विभाकरः ॥ ६४ ॥
1.2.64 · p. 8
अनुष्टुप्
नभोमणिर्धामपतिर्द्युमणिः पद्मिनीपतिः ।पद्मबन्धुर्विवस्वांश्च ध्वान्तारातिरहर्पतिः ॥ ६५ ॥
1.2.65 · p. 8
अनुष्टुप्
तिमिरारिर्दिनकरो यमुनाजनकोऽरुणः ।चन्द्रः सोमो मृगाङ्को ग्लौर्हिमांशुश्चन्द्रमाः शशी ॥ ६६ ॥
1.2.66 · p. 8
अनुष्टुप्
विधुः शशाङ्कः शीतांशुर्द्विजराजः सुधाकरः ।जैवातृकः शशधरो नक्षत्रेशो निशाकरः ॥ ६७ ॥
1.2.67 · p. 8
अनुष्टुप्
ओषधीशो निशानाथ इन्दुः कुमुदिनीपतिः ।अब्जो राजा चोडुपतिः कलानाथो हिमद्युतिः ॥ ६८ ॥
1.2.68 · p. 8
अनुष्टुप्
रोहिणीरमणः सिन्धुसुतः कुमुदबान्धवः ।चन्द्रोद्योतः स्मृता ज्योत्स्ना चन्द्रिका कौमुदीन्दुरुक् ॥ ६९ ॥
1.2.69 · p. 8
अनुष्टुप्
नक्षत्रमृक्षं भं धिष्ण्यं तारा ज्योतिरुडुर्ग्रहः ।मयूखः किरणो भानुर्मरीचिर्दीधितिः करः ॥ ७० ॥
1.2.70 · p. 8
अनुष्टुप्
पादो गभस्तिरुस्रो गौर्ज्योतिर्धामांशुरश्मयः ।अर्चिः पृष्णिर्घृणिस्तेजो भाः प्रभा त्विट् छविर्द्युतिः ॥ ७१ ॥
1.2.71 · p. 9
अनुष्टुप्
शोचिर्दीप्तिर्महो वर्चो रोचिर्भा रुग्रुचिर्वसुः ।शिशिरः शीतलः शीतस्तुषारश्च हिमो जडः ॥ ७२ ॥
1.2.72 · p. 9
अनुष्टुप्
उष्णं तिग्मं खरं तीक्ष्णं चण्डं तीव्रं तथा पटुः ।मङ्गलोऽङ्गारको भौम आरो वक्रः कुजः स्मृतः ॥ ७३ ॥
1.2.73 · p. 9
अनुष्टुप्
बुधस्तु सौम्यो ज्ञश्चान्द्रिर्गुरुर्जीवो बृहस्पतिः ।वाचस्पतिः सुराचार्यो गीष्पतिर्धिषणोऽङ्गिराः ॥ ७४ ॥
1.2.74 · p. 9
अनुष्टुप्
शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः ।शनिः शनैश्चरः शौरिर्मन्दश्छायासुतोऽसितः ॥ ७५ ॥
1.2.75 · p. 9
अनुष्टुप्
राहुस्तमः सैंहिकेयः स्वर्भाणु[नु]स्तु विधुंतुदः ।केतुः शिखी चाहिकः स्याद्ध्रुवस्तूत्तानपादजः ॥ ७६ ॥
1.2.76 · p. 9
metre not recognisednearly अनुष्टुप्
सप्तर्षयोऽत्रिप्रमुखा अगस्तिः कुम्भजोऽब्धिपः ।अश्विन्यादीनि नक्षत्राण्यष्टाविंशतिसंख्यया ॥ ७७ ॥
1.2.77 · p. 9
अनुष्टुप्
लग्नानि राशयश्चैव मेषाद्या द्वादश स्मृताः ।अहर्दिनं दिवं घस्रं दिवसो वासरो दिवा ॥ ७८ ॥
1.2.78 · p. 9
अनुष्टुप्
प्रातः प्रभातं प्रत्यूषो उषः कल्यमहर्मुखम् ।रजनी यामिनी रात्रिस्त्रियामा शर्वरी निशा ॥ ७९ ॥
1.2.79 · p. 9
अनुष्टुप्
निशीथिनी क्षपा दोषा क्षणदा च विभावरी ।अन्धकारं च तिमिरं ध्वान्तं संतमसं तमः ॥ ८० ॥
1.2.80 · p. 9
अनुष्टुप्
संवत्सरो युगः कल्पं कालस्येत्यादयो भिदाः ।वसन्तग्रीष्मवर्षाश्च शरद्धेमन्त एव च ॥ ८२ ॥
1.2.82 · p. 10
अनुष्टुप्
शिशिरश्चेति विज्ञेया ऋतवः षट् द्विमासिकाः ।अब्दः संवत्सरो वर्षं वत्सरो हायनः शरत् ॥ ८३ ॥
1.2.83 · p. 10
अनुष्टुप्
कल्पो युगान्तः संहारः कल्पान्तः प्रलयः क्षयः ।दिशा आशा दिशः काष्ठा हरितः ककुभश्च ताः ॥ ८४ ॥
1.2.84 · p. 10
अनुष्टुप्
चतस्रोऽष्टौ च दश वा स्युरिन्द्राद्यास्तदीश्वराः ।पूर्वाग्नेयी दक्षिणा च नैर्ऋती पश्चिमा तथा ॥ ८५ ॥
1.2.85 · p. 10
अनुष्टुप्
वायवी चोत्तरेशानी ब्राह्मी नागीति ता दश ।वारिवाहो घनो मेघः स्तनयित्नुर्घनाघनः ॥ ८६ ॥
1.2.86 · p. 10
अनुष्टुप्
अभ्रं तडित्वान्मुदिरो जलमुग्जलदोऽम्बुभृत् ।धाराधरो जलधरो धूमयोनिर्बलाहकः ॥ ८७ ॥
1.2.87 · p. 10
अनुष्टुप्
जीमूतो वारिदो नभ्राट् पर्जन्योऽम्भोधरोऽम्बुदः ।विद्युत्सौदामिनी शम्पा चञ्चला चपला तडित् ॥ ८८ ॥
1.2.88 · p. 10
अनुष्टुप्
ऐरावती क्षणरुचिर्ह्रादिनी च शतह्रदा ।गर्जितं स्तनितं गर्जा रसितं मेघनिस्वनः ॥ ८९ ॥
1.2.89 · p. 10
अनुष्टुप्
बप्पीह(?)श्चातकसारङ्गस्तोकको नभोऽम्बुपः ।नीलकण्ठः शिखी केकी मयूरो जलमुक्सुहृत् ॥ ९० ॥
1.2.90 · p. 10
अनुष्टुप्metre not read in every line
शिखण्डी बर्हिणो बर्ही कलापी च भुजंगभुक् ।परपुष्टा परभृता ताम्राक्षी कोकिला पिकी ॥ ९१ ॥
1.2.91 · p. 11
अनुष्टुप्
मधुरालापिनी श्यामा कलकण्ठी वनप्रिया ।रथाङ्गाह्वश्चक्रवाकः कोको द्वंद्वचरश्च सः ॥ ९२ ॥
1.2.92 · p. 11
अनुष्टुप्
यामिनीविरहश्चक्रो रामशापनिशावियुक् ।जीवंजीवश्चलचञ्चुश्चकोरो विषसूचकः ॥ ९३ ॥
1.2.93 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
ताम्रचूडः कुर्कुटश्च कृकवाकुः शिखण्डिकः ।प्रभातज्ञो निशावेदी वृक्षाक्षश्चरणायुधः ॥ ९४ ॥
1.2.94 · p. 11
अनुष्टुप्
अनुवादी रक्ततुण्डः शुकः कीरः फलादनः ।खञ्जनः खञ्जरीटश्च नीलश्चाषः किकीदिविः ॥ ९५ ॥
1.2.95 · p. 11
अनुष्टुप्
हंसो मरालश्चक्राङ्गो मानसौकाः शितच्छदः ।हंसभेदा राजहंसाः कादम्बा धार्तराष्ट्रकाः ॥ ९६ ॥
1.2.96 · p. 11
अनुष्टुप्
तार्क्ष्यः सुपर्णो गरुडो वैनतेयोऽरुणानुजः ।गरुत्मान्पक्षिराजश्च सर्पारिः कश्यपात्मजः ॥ ९७ ॥
1.2.97 · p. 11
अनुष्टुप्
खगो विहंगमः पक्षी विहंगो विहगो द्विजः ।पत्री पतत्री शकुनिः शकुन्तः शकुनः पतत् ॥ ९८ ॥
1.2.98 · p. 11
अनुष्टुप्
विहायो विः पत्त्ररथो विकिरः पतगोऽण्डजः ।नगौका नीडनिलयः खचरो विष्किरो वयः ॥ ९९ ॥
1.2.99 · p. 11
अनुष्टुप्
पक्षश्छदो गरुत्पत्रं पतत्रं च तनूरुहम् ।वाजोऽस्य पक्षतिर्मूलं चञ्चुस्त्रोटिः सृपाटिका ॥ १०० ॥
1.2.100 · p. 11
अनुष्टुप्
वायुः समीरणो वातः समीरो मारुतो मरुत् ।गन्धवाहो गन्धवहो मातरिश्वा प्रभञ्जनः ॥ १०१ ॥
1.2.101 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
सदागतिर्जगत्प्राणो नभस्वान्पवनोऽनिलः ।श्वसनः पवमानश्च पृषदश्वः प्रकम्पनः ॥ १०२ ॥
1.2.102 · p. 12
अनुष्टुप्
अहिप्रियो दैत्यदेव आशुगः स्पर्शनोऽस्य तु ।पुत्रौ भीमहनूमन्तौ झञ्झा वृष्टियुतो मरुत् ॥ १०३ ॥
1.2.103 · p. 12
अनुष्टुप्