कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चन्द्रपाद

candrapādaपुं · masc.

In 3 kośas: 3 synonym verses.

गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम अन्तरिक्षाधिकारो द्वितीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 2.10 · p. 20
चन्द्रपादास्तु संवालास्तुषारा वालका अपि ।अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण अन्तरिक्षाधिकारो द्वितीयस्सर्गः Śabdacandrikā 2.7 · p. 37
उडुराजो निशाराजः कमलीति निगद्यते ।चन्द्रपादस्तु संवालः प्रवाल इति कथ्यते ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.28 · p. 19
चन्द्रपादास्तु संवाला ज्योत्स्ना तु शशिनः प्रभा ।चन्द्रिका चन्द्रिमा चान्द्री कौमुदी चन्द्रगोलिका ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.