कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कौमुदी

kaumudīस्त्री · fem.

In 17 kośas: 17 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.14 · p. 8
षोडशोंऽशः कला चिह्नं लक्षणं लक्ष्म लाञ्छनम् ।अङ्कः कलङ्कोऽभिज्ञानं चन्द्रिका चन्द्रगोलिका ॥ १०६ ॥चन्द्रातपः कौमुदी च ज्योत्स्ना बिम्बं तु मण्डलम् ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.16
चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.44 · p. 6
चन्द्रिका कौमुदी ज्योत्स्ना तथा चन्द्रातपः स्मृतः ।मण्डलं बिम्बमाख्यातं हृदये लाञ्छनं मृगः ॥ ४४ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वितीयोपदेशः Bālaprabodhikā 2.43 · p. 69
कलापश्च कलावालः कमणीचकमित्यपि ।चन्द्रिका कौमुदी ज्योत्स्ना विशदावन्यलः पुमान् ॥ ४३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.37 · p. 238
वस्त्रग्रन्थिश्च नीवी स्यात्कौमुदी कार्तिकोत्सवः ।आवेशारम्भसंरम्भाः प्रियवाक् चटुचाटुनी ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.61 · p. 33
सौमी स्यात्सोमदेवत्या सौम्या सोमीयमन्यवत् ।चन्द्रातपश्चन्द्रगोली चन्द्रिका कौमुदी तथा ।ज्योत्स्ना च षोडशोऽस्यांशः कलाऽसौ षोडशी ध्रुवा ॥ ६१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.71 · p. 47
श्रावणी श्रवणा च स्याद्दाण्डपाता तु फाल्गुनी ।हुताशन्युत्सवः पुंसि होलाका तु हुताशनी ।स्याद्वसन्तोत्सवश्चैत्री कौमुदी कार्त्तिकी मता ॥ ७१ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज गगनादिनामधेयप्रकरणम् Nāmamālikā 2.8 · p. 6
बिम्बे तस्य सुधासारः कलापूर्णं च मण्डलम् ।चन्द्रिका च सुधा छाया सुखा ज्योत्स्ना तु कौमुदी ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.101 · p. 17
अभिज्ञानकलङ्काङ्काः लक्षणं लक्ष्म लाञ्छनम् ।चन्द्रिका कौमुदी चन्द्रगोलिका ज्योत्स्नया सह ॥ १०१ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.318 · p. 22
अर्कसूतेऽरुणोऽनूरुस्तार्क्ष्यभ्राताऽरुणद्युतिः ।कौमुदी चन्द्रिका ज्योत्स्ना कलङ्को लक्ष्मलाञ्छनम् ॥ ३१८ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.69 · p. 8
रोहिणीरमणः सिन्धुसुतः कुमुदबान्धवः ।चन्द्रोद्योतः स्मृता ज्योत्स्ना चन्द्रिका कौमुदीन्दुरुक् ॥ ६९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.91 · p. 14
चन्द्रिका कौमुदी ज्योत्स्ना चन्द्रिमा चन्द्रगोलिका ।चन्द्रातपश्च बिम्बं तु मण्डलं तदनन्तरम् ॥ ९१ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.199 · p. 14
स्यात् पीयूषमहाः शीतमरीचिरपि शीतलः ।कौमुदी चन्द्रिका ज्योत्स्ना चन्द्रज्योत्स्ना निगद्यते ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.262 · p. 19
शारदी कौमुदी चाश्वयुजी स्याद्द्यूतपूर्णिमा ।शतपर्वा रङ्गभूतिः सैव कोजागराह्वया ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.179 · p. 24
अर्धं समेंऽशकेऽभिख्या सुषमा परमा छविः ।कौमुदी चन्द्रिका ज्योत्स्ना चन्द्रांशः षोडशः कला ॥ १७९ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.19 · p. 89
रभसो गमकारित्वं कौमुदी कार्तिकोत्सवे ।आवेशाटोपसंरम्भाः प्रियवाक्चटु चाटुनी ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.28 · p. 19
चन्द्रपादास्तु संवाला ज्योत्स्ना तु शशिनः प्रभा ।चन्द्रिका चन्द्रिमा चान्द्री कौमुदी चन्द्रगोलिका ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास दार्धश्लोकः Dharaṇikośa 17.2.6 · p. 94
कौमुदः कार्तिको मासः कौमुद्यौ चन्द्रिकोत्सवौ ।तोयदो मुस्तके मेघे तोयदं घृतमुच्यते ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.603 · p. 99
पार्वत्यां निम्नगाभेदे कौमुदी तु स्त्रियामियम् ।कार्तिक्यां पौर्णमास्यां स्याच्चन्द्रिकायां च ना पुनः ॥ ६०३ ॥
अनुष्टुप्