कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चन्द्रिका

candrikāस्त्री · fem.

In 23 kośas: 38 synonym verses, 1 as a nānārtha head word, 10 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.14 · p. 8
षोडशोंऽशः कला चिह्नं लक्षणं लक्ष्म लाञ्छनम् ।अङ्कः कलङ्कोऽभिज्ञानं चन्द्रिका चन्द्रगोलिका ॥ १०६ ॥चन्द्रातपः कौमुदी च ज्योत्स्ना बिम्बं तु मण्डलम् ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.16
चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.44 · p. 6
चन्द्रिका कौमुदी ज्योत्स्ना तथा चन्द्रातपः स्मृतः ।मण्डलं बिम्बमाख्यातं हृदये लाञ्छनं मृगः ॥ ४४ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वितीयोपदेशः Bālaprabodhikā 2.43 · p. 69
कलापश्च कलावालः कमणीचकमित्यपि ।चन्द्रिका कौमुदी ज्योत्स्ना विशदावन्यलः पुमान् ॥ ४३ ॥
अनुष्टुप्
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम अन्तरिक्षाधिकारो द्वितीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 2.12 · p. 21
ज्योत्स्ना तु शशिनश्च्छाया चन्द्रमाना तु चन्द्रिका ।चन्द्रगोमी पुनश्चन्द्रगामीति च निगद्यते ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.197 · p. 154
वल्लरी चन्द्रिका गन्धफला मन्था च कौरवी ।पीतबीजा मिश्रपुष्पा कञ्चुकाप्यथ दीर्घका ॥ १९७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.260 · p. 161
अङ्गारैरपि पिष्टान्नपाकः स्यादथ भास्करी ।चन्द्रिका रोटिकावृत्ता पिष्टखर्परसम्भवा ॥ २६० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.359 · p. 172
कपोतपर्णी बहलगन्धा चैवोपकुञ्चिका ।कायस्था चन्द्रिका चापि गोरङ्गी महती तु सा ॥ ३५९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.257 · p. 277
नारीष्टा गिरिजामल्ली चन्द्रिका मोदिनी मुनिः ।दमयन्ती सिताथान्या मदनी तु कुमारिका ॥ २५७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.444 · p. 298
चित्रपर्णी स्फोटलता त्रिपुरा चन्द्रिकाऽप्यथ ।महावल्ली काष्ठवल्ली कट्वी कटुकवल्लिका ॥ ४४४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्फो (wrong syllable)
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.459 · p. 300
गर्दभी चन्द्रिका रामा क्लिन्ना सैव महौषधी ।सा चोक्ता कटुवार्त्ताकी पृश्निपर्णी तु मेखला ॥ ४५९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.106 · p. 329
कलापो बर्हभारेस्य पिच्छबर्हे च न स्त्रियाम् ।शिखण्डी च शिखण्डो ना नेत्रं षण् चन्द्रिका स्त्रियाम् ॥ १०६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.43 · p. 348
वेदाग्रजा ब्रह्मसुता प्लक्षजाता च वाक्प्रदा ।चन्द्रभागा चान्द्रभागी चन्द्रिका चान्द्रभागगा ॥ ४३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.85 · p. 353
चन्द्रिका सर्पतुल्याथ तिमिर्योजनविस्तरः ।तिमिंगिलो महामीनस्तिमिंगिलगिलस्तु सः ॥ ८५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.177 · p. 399
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.39 · p. 421
विनोदश्चन्द्रसरसोऽथैकताली त्रिधा मता ।रामा तारा चन्द्रिका च द्रुतमध्यविलम्बिताः ॥ ३९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.61 · p. 33
सौमी स्यात्सोमदेवत्या सौम्या सोमीयमन्यवत् ।चन्द्रातपश्चन्द्रगोली चन्द्रिका कौमुदी तथा ।ज्योत्स्ना च षोडशोऽस्यांशः कलाऽसौ षोडशी ध्रुवा ॥ ६१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.62 · p. 106
करतोया सदानीरा वितस्ता स्त्री वितस्तिका ।चान्द्रभागी चान्द्रभागा चन्द्रभागा च चन्द्रिका ॥ ६२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.30 · p. 178
मलपूश्चन्द्रिका च स्यात्कुष्ठघ्नी चाप्यवल्गुजः ।कट्वम्लनामिका गोधावती श्यामा च मोहिनी ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज स्वर्गादिनामधेयप्रकरणम् Nāmamālikā 1.12 · p. 2
तत्पर्णं विदलं प्राहुस्तत्फलं पुष्कलं विदुः ।सुगन्धिस्तद्वितरणे तच्छाया चन्द्रिका स्मृता ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज गगनादिनामधेयप्रकरणम् Nāmamālikā 2.8 · p. 6
बिम्बे तस्य सुधासारः कलापूर्णं च मण्डलम् ।चन्द्रिका च सुधा छाया सुखा ज्योत्स्ना तु कौमुदी ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.101 · p. 17
अभिज्ञानकलङ्काङ्काः लक्षणं लक्ष्म लाञ्छनम् ।चन्द्रिका कौमुदी चन्द्रगोलिका ज्योत्स्नया सह ॥ १०१ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.364 · p. 49
शतद्रुः स्याच्छुतुद्रुस्तु चन्द्रभागा तु चन्द्रिका ।सरस्वती ब्रह्मपुत्री विपाशा च विपाट् स्त्रियाम् ॥ ३६४ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.119 · p. 16
तच्छोभा ललमा लाली ललामा चन्द्रिका मुदी ।भित्तं भित्तिः कलायां स्यात्प्रालेये मिहिका मता ॥ ११९ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.318 · p. 22
अर्कसूतेऽरुणोऽनूरुस्तार्क्ष्यभ्राताऽरुणद्युतिः ।कौमुदी चन्द्रिका ज्योत्स्ना कलङ्को लक्ष्मलाञ्छनम् ॥ ३१८ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण अन्तरिक्षाधिकारो द्वितीयस्सर्गः Śabdacandrikā 2.8 · p. 37
चन्द्रिका गोमती ज्योत्स्ना बण्णला पथिकानलः ।नक्षत्रं रात्रिजं धिष्ण्यं तारकं रकमित्यपि ।आकाशकुसुमं बिन्दुर्भानुभीरुर्निगद्यते ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.69 · p. 8
रोहिणीरमणः सिन्धुसुतः कुमुदबान्धवः ।चन्द्रोद्योतः स्मृता ज्योत्स्ना चन्द्रिका कौमुदीन्दुरुक् ॥ ६९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.91 · p. 14
चन्द्रिका कौमुदी ज्योत्स्ना चन्द्रिमा चन्द्रगोलिका ।चन्द्रातपश्च बिम्बं तु मण्डलं तदनन्तरम् ॥ ९१ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.199 · p. 14
स्यात् पीयूषमहाः शीतमरीचिरपि शीतलः ।कौमुदी चन्द्रिका ज्योत्स्ना चन्द्रज्योत्स्ना निगद्यते ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.228 · p. 74
पृथ्वीका निष्कुटी चन्द्रा चन्द्रिका वालिकेत्यपि ।सैव सूक्ष्मा यदि भवेत् कोरङ्गी च त्रुटिः त्रुटी ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.263 · p. 100
स्त्री करोटिः करोटी च करोटश्च शिरोऽस्थनि ।चन्द्री चन्द्रा चन्द्रिका स्यात् पार्श्वास्थनि तु पार्शुका ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.14 · p. 178
लाञ्छने लक्ष्मणं लक्ष्म, लक्षणं चन्दिरातपे ।चन्द्रिका चन्द्रिमाऽपि स्यात्, मण्डले मण्डली मता ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.103 · p. 226
सरयुः कोसलानद्यां, नदीभेदे तु चन्द्रिका ।चन्द्रभागा चन्द्रभागी भागी चान्द्राच्च भागया ॥ १०३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.179 · p. 24
अर्धं समेंऽशकेऽभिख्या सुषमा परमा छविः ।कौमुदी चन्द्रिका ज्योत्स्ना चन्द्रांशः षोडशः कला ॥ १७९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 28 · p. 533
चन्द्रिका चन्द्रिमा चार्वी ॥ २८ ॥
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव दिग्वर्गः Trikāṇḍaśeṣa 1.3.7 · p. 16
चन्द्रिका चन्द्रशाला स्यान्नीहारः खनिशाजलम् ।शीतं तु शीतलं पत्रहिमं तु हिमदुर्दिनम् ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.28 · p. 19
चन्द्रपादास्तु संवाला ज्योत्स्ना तु शशिनः प्रभा ।चन्द्रिका चन्द्रिमा चान्द्री कौमुदी चन्द्रगोलिका ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.27 · p. 156
तापी तु तपिनी शैब्या चन्द्रभासा तु चन्द्रिका ।शतद्रूस्तु शुतुद्री स्याद्विपाशा तु विपाट् स्त्रियाम् ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.711 · p. 109
चन्द्रिका तु स्त्रियां ज्योत्स्नासंज्ञे चन्द्रातपे तथा ।चन्द्रभागाख्यनद्यां च चन्दिरं तु जले नपि ॥ ७११ ॥
अनुष्टुप्

चन्द्रिका as a meaning in nānārtha verses

  • धरणिकोश कौमुदीकौमुदः कार्तिको मासः कौमुद्यौ चन्द्रिकोत्सवौ । तोयदो मुस्तके मेघे तोयदं घृतमुच्यते ॥ Dharaṇikośa 17.2.6
  • धरणिकोश कैरवीदिवं च त्रिदिवं चैव स्वर्गान्तरिक्षयोः स्मृतम् । कैरवी चन्द्रिका प्रोक्ता कैरवं कुमुदद्विषोः ॥ Dharaṇikośa 28.2.10
  • कोषकल्पतरु मालतीमालती युवतिजातिचन्द्रिका लाङ्गलीषु निशि वाहिनीभिदि । काकमाच्यां च सात्वती पुन- र्वृत्तिभेदशिशुपालमातृगा ॥ ४२ ॥ Koṣakalpataru 6.16.42
  • कोषकल्पतरु कौमुदरक्ताम्भोरुहि ना तु दिग्गजभिदीभे दैत्यभेदे कपौ कुम्भ्यां काश्मरिकौषधौ च कुमुदाथो कैरवेऽन्त्ये कुमुद् । वाच्याभं कृपणेऽथ रक्षसि पुमान् क्रव्याच्च मांसाशिनि स्यादूर्जे नरि कौमुदो निगदितः स्त्री चन्द्रिकायामयम् ॥ ३८ ॥ Koṣakalpataru 6.19.38
  • कोषकल्पतरु ज्योत्स्नाज्योत्स्ना तु चन्द्रिकायां तद्वत्ताराप्रकाशिन्याम् ॥ ९९ ॥ Koṣakalpataru 6.21.99
  • नानार्थार्णवसंक्षेप चारुचान्द्री स्त्री पौर्णमास्यां स्याच्चन्द्रसम्बन्धिनि त्रिषु । चारुर्बृहस्पतौ पुंसि चन्द्रिकायां तु सा स्त्रियाम् ॥ ४१३ ॥ Nānārthārṇavasaṃkṣepa 2.5.413
  • नानार्थार्णवसंक्षेप कौमुदीपार्वत्यां निम्नगाभेदे कौमुदी तु स्त्रियामियम् । कार्तिक्यां पौर्णमास्यां स्याच्चन्द्रिकायां च ना पुनः ॥ ६०३ ॥ Nānārthārṇavasaṃkṣepa 4.603
  • शब्दरत्नावली कैरवीकुटुम्बोऽस्त्री जनज्ञातिबान्धवेषु च सन्ततौ । कैरवं कुमुदे धूर्ते चन्द्रिकायान्तु कैरवी ॥ गाण्डीवगाण्डिवौ चापे पार्थचापेऽपि न स्त्रियौ । गालवो मुनिभेदे स्यात्तथा लोध्रमहीरुहे ॥ ताण्डवोऽस्त्री तृणभिदि ख्याते नृत्ये समुद्धते । त्रिदिवा तु नदीभेदे स्वर्लोके तु भवेत्पुमान् ॥ Śabdaratnāvalī 7.29.29
  • तन्त्राभिधान ऌविश्वेश्वरो दीर्घजिह्वा महेन्द्रो लाङ्गलिः परा । चन्द्रिका पार्थिवो धूम्रा द्विदन्तः कामवर्धनः ॥ ३० ॥ Tantrābhidhāna 2.10.30
  • तन्त्राभिधान भप्राणात्मा तापिनी वज्रा विश्वरूपी च चन्द्रिका । भीमसेनः सुधासेनः सुमुखं माया पुरं हरः ॥ १३४ ॥ Tantrābhidhāna 2.41.134