कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Gīrvāṇabhāṣābhūṣaṇa

गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa

204 verses · 1,626 words tagged · 466 marked doubtful (dashed)

स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः (1/2)

हनूमन्निघण्टुः ॥

श्रीराममानम्य गुरुन् वाल्मीकिप्रमुखानृषीन् ।सर्वलोकोपकारार्थं क्रियते नाममञ्जरी ॥ १ ॥
1.1 · p. 8
अनुष्टुप्
कवीन्द्रजीविताः सर्ववैयाकरणशिक्षिताः ।शब्दा मया प्रयुक्ताश्च सन्त्यत्र निधयो भुवि ॥ २ ॥
1.2 · p. 8
अनुष्टुप्
फलोदयः सुरावासः स्वर्गो नाकस्त्रिविष्टपम् ।बुधायनं महायामदिवसावासभूमिका ॥ ३ ॥
1.3 · p. 8
अनुष्टुप्
सैरिको भोगभूमिः स्यादमर्त्यभवनं गिरिः ।देवा निलिम्पा मरुतः सुराः सूर्या बुधा रथाः ॥ ४ ॥
1.4 · p. 8
अनुष्टुप्
मनोवेगः सत्रभुजः परान्नप्राशनाः स्थिराः ।ब्रह्मा विधाता विश्वात्मा पद्मभूः पुरुषोत्तमः ॥ ५ ॥
1.5 · p. 8
अनुष्टुप्
शंभुः स्वयंभूर्ब्रह्मण्यः प्रजानाथः सुराग्रजः ।भारतीपतिरिन्द्रेन्द्रः पद्मयोनिः पुरन्दरः ॥ ६ ॥
1.6 · p. 8
अनुष्टुप्
नारायणश्चक्रधरः पुरातनचिरन्तनौ ।नारायणः शतानन्दः शर्ववागीश्वरेश्वरः ॥ ८ ॥
1.8 · p. 8
अनुष्टुप्
विष्णुः सर्वोत्तमो मुञ्जकेशो दामोदरोऽच्युतः ।अनन्तशायी ब्रह्मार्को युगावर्तः सुरोत्तमः ॥ ९ ॥
1.9 · p. 8
अनुष्टुप्
कालरुन्धो रन्तिदेवः शतावर्तो युगन्धरः ।लक्ष्मीः पद्मालया पद्मा कमला विष्णुवल्लभा ॥ १० ॥
1.10 · p. 8
अनुष्टुप्
श्रीः श्रीदा लोकजननी कलशाम्बुधिकन्यका ।गङ्गातनूजा निधिजा विष्णुवक्षस्थलालया ॥ ११ ॥
1.11 · p. 9
अनुष्टुप्
राघवो जानकीकान्तो रामो रावणसूदनः ।अग्रजन्मा दाशरथिः साकेतनिलयो हरिः ॥ १२ ॥
1.12 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
लक्ष्मणस्तूर्मिलाकान्तो महेन्द्रद्वेषिसूदनः ।अनिद्रः सुन्दरः शूरो लक्ष्मीवान् लक्ष्मिवर्धनः ॥ १३ ॥
1.13 · p. 9
अनुष्टुप्
भरतः कैकयीपुत्रः सुमित्रापुत्रसेवितः ।लवणघ्नो महावीरः शत्रुघ्नोऽमितविक्रमः ॥ १४ ॥
1.14 · p. 9
अनुष्टुप्
सौमित्रिः सुन्दरः श्रीमान् कुमारो विश्ववल्लभः ।रामस्य चापे धर्माङ्गशात्रवानन्दभैरवः ॥ १५ ॥
1.15 · p. 9
अनुष्टुप्
तूणीरस्तस्य शरधिः सर्वतोमुख इत्यपि ।हिरण्यकशिपुद्वेषी नृसिंहो विश्वविक्रमः ॥ १६ ॥
1.16 · p. 9
अनुष्टुप्
उपेन्द्र इन्द्रावरजो वामनो बलिकण्टकः ।आदित्यवटुकश्च स्यात्त्रिविक्रमपुरुक्रमौ ॥ १७ ॥
1.17 · p. 9
अनुष्टुप्
द्युपदः सर्वतोभद्रो रामः परशुभृत्कविः ।रामः सङ्कर्षणः पौरो बलदेवो हलायुधः ॥ १८ ॥
1.18 · p. 9
अनुष्टुप्
बलभद्रः प्रलम्बारिस्तालाङ्को मुसली हली ।भद्राङ्गो भद्रवलनः सात्वतस्तु सितासितः ॥ १९ ॥
1.19 · p. 9
अनुष्टुप्
संवर्तकं हलं तस्य मुसलं तु सुनन्दकम् ।कृष्णो दामोदरो गोपो दाशार्हो नरकान्तकः ॥ २० ॥
1.20 · p. 9
अनुष्टुप्
शैनिः कंसरिपुः शौरिः सारथिस्त्वस्य दारुकः ।प्रद्युम्नो मन्मथः कामो रामो मनसिजः स्मरः ॥ २१ ॥
1.21 · p. 9
अनुष्टुप्
कन्दर्पो दर्पकोऽनङ्गो मीनाङ्को मकरध्वजः ।शूर्पकारिर्मधुसखः पञ्चेषुर्विषमायुधः ॥ २२ ॥
1.22 · p. 10
अनुष्टुप्
बन्धुर्वामो जराभीरुः हृच्छयो मधुसारथिः ।ब्रह्मसूस्त्वनिरुद्धः स्यादृश्यकेतुरुषापतिः ॥ २३ ॥
1.23 · p. 10
अनुष्टुप्
सुखोदयः सर्वमुखो गुणीकृतशिलीमुखः ।तस्य चापेऽथ तूणीरे मधुर्माधव इत्यपि ॥ २४ ॥
1.24 · p. 10
अनुष्टुप्
अथान्येऽप्यवताराः स्युर्नरनारायणावृषी ।अश्वो हयशिराः शेषः कपिलो व्यास इत्यपि ॥ २५ ॥
1.25 · p. 10
अनुष्टुप्
दत्तात्रेयश्च कल्की च बुद्धश्चेत्येवमादयः ।कपिलस्तु महाविष्णुः व्यासः सत्यवतीसुतः ॥ २६ ॥
1.26 · p. 10
अनुष्टुप्
पराशरात्मजः कृष्णद्वैपायन इतीर्यते ।अष्टकर्मपरिभ्रष्टः श्रीधनः सुगतो मुनिः ॥ २७ ॥
1.27 · p. 10
अनुष्टुप्
मुनीन्द्रो निर्गुरुः शास्ता बुद्धो विद्यातनूद्भवः ।गरुडः काश्यपसुतो गरुत्मानुरगाशनः ॥ २८ ॥
1.28 · p. 10
अनुष्टुप्
सुपर्णितनयस्तार्क्ष्यो वैनतेयो महेन्द्रजित् ।पन्नगारिर्विष्णुरथो विनायकविहङ्गमौ ॥ २९ ॥
1.29 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्वि (wrong syllable)
वज्रपक्षः श्वेतमुखः किरीटिः सर्पकुण्डलः ।भद्रेश्वरश्चन्द्रमौलिः श्रीकण्ठः पाण्डुचन्दनः ॥ ३० ॥
1.30 · p. 10
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 श्वे (wrong syllable)
गर्गो दक्षाध्वरारातिः कामारिः प्रमथाधिपः ।भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ ३१ ॥
1.31 · p. 10
अनुष्टुप्
कटाटङ्को जटाटीकः सर्वज्ञो नन्दिवर्धनः ।चण्डीकान्तो रेरिहाणो जटाक्षाटो महानटः ॥ ३२ ॥
1.32 · p. 10
अनुष्टुप्
कङ्कटीकः कलामूर्तिः कण्ठेकालः कपालभृत् ।बहुरूपोऽर्धमकुटो दशबाहुर्दशाव्ययः ॥ ३३ ॥
1.33 · p. 11
अनुष्टुप्
खट्वाङ्गश्च कपर्दिश्च झाण्डटाण्डो युगान्तकः ।आषाढभूतिदमनो रुद्रः स्थाणुरुमापतिः ॥ ३४ ॥
1.34 · p. 11
अनुष्टुप्
लम्बोदरो हस्तिमुखो द्वैपायनगुहाग्रजौ ।एकदन्तः शूर्पकर्णो लेखको लेख्यदन्तकः ॥ ३५ ॥
1.35 · p. 11
अनुष्टुप्
व्यामशिष्यस्तूपरुद्रो विष्वक्सेनो गणाधिपः ।कुमारः शरजः स्कन्दस्तारकारिरुमासुतः ॥ ३६ ॥
1.36 · p. 11
अनुष्टुप्
महासेनो महातेजा वह्निभूः शिखिवाहनः ।देवसेनापतिः कान्तो ब्रह्मगर्भः षडाननः ॥ ३७ ॥
1.37 · p. 11
अनुष्टुप्
तस्य शक्तिः सुवेलं स्याद्ध्वजस्तस्य तु खेचरी ।उमा मेनात्मजा रौद्री रुद्राणी विश्ववल्लभा ॥ ३८ ॥
1.38 · p. 11
अनुष्टुप्
आर्याद्रिजा विश्वमाता मृडानी सर्वमङ्गला ।गौरी तु गौतमी नन्दा बाभ्रुविभ्रामती शिवा ॥ ३९ ॥
1.39 · p. 11
अनुष्टुप्
भूरिश्रवाचित्ररथः सुनासीरी युधिष्ठिरः ।परमन्युर्वज्रपाणिः शतमन्युर्विभीषणः ॥ ४३ ॥
1.43 · p. 11
अनुष्टुप्
खदिरो माहिषी दार्वी बिडौजाः सितकुञ्जरः ।प्रासादो वैजयन्तोऽस्य वैजयन्तो ध्वजोऽपि च ॥ ४४ ॥
1.44 · p. 12
अनुष्टुप्
धनुस्तस्य तु वाल्मीको वार्षिकं मेखरञ्जिनी ।पुलोमजा शचीन्द्राणी पौलोमी जयवाहिनी ॥ ४५ ॥
1.45 · p. 12
अनुष्टुप्
सर्वयज्ञफला नित्या देवाधिपतिसुन्दरी ।शतसारं सहस्रारं वज्रं वज्रायुधं पविः ॥ ४६ ॥
1.46 · p. 12
अनुष्टुप्
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ।रोहिताश्वो बृहद्भानुर्दहनो हव्यवाहनः ॥ ४७ ॥
1.47 · p. 12
अनुष्टुप्
कृपीडयोनिरर्चिष्मान् धूमकेतुर्दुरासदः ।आश्रयाशो वातसखः कृशानुर्वातसारथिः ॥ ४८ ॥
1.48 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
स्वाहादेवी महाग्नेयी पेचाधीना तु तत्प्रिया ।तुषाग्निर्मुमुरश्च स्यात्काष्ठाग्निः स्यात्सकन्दकः ॥ ४९ ॥
1.49 · p. 12
अनुष्टुप्
छागणस्तु करीषाग्निः क्रत्वग्निः स्यादपान्नपात् ।गार्हपत्यो ग्रहपतिः पवमानश्च पश्चिमे ॥ ५० ॥
1.50 · p. 12
अनुष्टुप्
शं स्यादाहवनीयश्च पूर्वाभिर्हव्यवाहनः ।ब्रह्मौदनाग्निर्भरतः यविष्ठः सवनाहुतौ ॥ ५१ ॥
1.51 · p. 12
अनुष्टुप्
महिमा तु विवाहाग्निर्वैश्वदेवाग्निरद्भुतः ।पाकयज्ञस्तु सुलभः अपसव्यस्तु सूतके ॥ ५२ ॥
1.52 · p. 12
अनुष्टुप्
धूमस्तरीर्मेघवाही यूपोसौगन्धवासितः ।झलका तु महाज्वाला प्रवर्गो नीलकोऽपि च ॥ ५३ ॥
1.53 · p. 12
अनुष्टुप्
अङ्गारस्तु प्रशान्तार्चिरिङ्गालः कलिकाग्निविट् ।वीरचूर्णं तु भसितं निर्गुरुर्भस्म इत्यपि ॥ ५४ ॥
1.54 · p. 12
अनुष्टुप्
गुरुभस्म महाभस्म वेधार्हं वादजीवितम् ।अग्नीन्द्रियं शातकुम्भं तपनीयं महोदयम् ॥ ५५ ॥
1.55 · p. 13
अनुष्टुप्
रुक्मं कार्तस्वरं स्वर्णं हिरण्यं जातरङ्गकम् ।दाक्षायणं श्रीमकुटं शुक्रं चिह्नं महोदरम् ॥ ५६ ॥
1.56 · p. 13
अनुष्टुप्
गारुडं तारुडं यक्षं रक्षगं नरजीवनम् ।अग्निशुक्लं लोहवरं किरीटं सर्वमङ्गलम् ॥ ५७ ॥
1.57 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable)
डाम्बरं वेधजं वेधा वेदार्हं रसवेधजम् ।निर्दुष्टकं च चामीरं श्रीघनं यक्षपोषितम् ॥ ५८ ॥
1.58 · p. 13
अनुष्टुप्
सिद्धवेद्यं महावर्णं पुण्डरीकं तु चन्द्रकम् ।दुर्वर्णं रजतं वैण्डि चन्द्रभीरु यमोदरम् ॥ ५९ ॥
1.59 · p. 13
अनुष्टुप्
अर्धोदयं सितं कुम्भं तारकं तु रसोदयम् ।तुषाग्निजं श्वेतचन्द्रं चान्द्रकं रसतारकम् ॥ ६० ॥
1.60 · p. 13
अनुष्टुप्
ताम्रं शुल्बं मर्कटाख्यं रक्तं व्यष्टं कनीयसम् ।म्लेच्छं वरिष्ठं म्लेच्छास्यं श्रेष्ठं रिष्टमुदुम्बरम् ॥ ६१ ॥
1.61 · p. 13
अनुष्टुप्
पिचलं त्वारकूटं च पीतलोहं घनोदरम् ।लघुवर्णं द्राविडकं द्राविडीभूषणं तथा ॥ ६२ ॥
1.62 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रा (wrong syllable)
नीलिकायां तसरिधिर्निष्ठुरं दारुकण्टकम् ।गुरुज्येष्ठं सिह्मलं च पञ्चलोहान्यलोहके ॥ ६३ ॥
1.63 · p. 13
अनुष्टुप्
कांस्यं तु कृत्तिमं नाट्यं प्रभा… मसुराह्वयम् ।घण्टास्वनं भूरिलोहं रवणं लोहजं मलम् ॥ ६४ ॥
1.64 · p. 13
metre not recognisednearly अनुष्टुप्
सीसं वङ्गं च योगेष्टं लघुतारं भुजङ्गकम् ।सर्पं कुम्भीनसं वित्तं मृद्भवं सर्वतोमुखम् ॥ ६५ ॥
1.65 · p. 13
अनुष्टुप्
अयः कालायसं… शस्त्राख्यमिषमायसम् ।धीवरं भीमकं लोहं लोहकालदृढानि च ॥ ६६ ॥
1.66 · p. 14
अनुष्टुप्metre not read in every line
… ।हासन्तिका हसन्ती स्यात् शीतघ्नं हिमवारणम् ॥ ६७ ॥
1.67 · p. 14
अनुष्टुप्metre not read in every line
चूलिका गृहमेधिः स्यात्पाकाद्यं पूर्ववेदिका ।कुण्डिका कुम्भिका तस्य महामुख इतीर्यते ॥ ६८ ॥
1.68 · p. 14
अनुष्टुप्
इष्टका करणिर्मुग्धा स्थूला संवर्तदारुका ।चूर्णागः स्यात्करीषान्तः कोषिका खरधूपिका ॥ ६९ ॥
1.69 · p. 14
अनुष्टुप्
सुब्रह्मण्यो नागयन्त्रः स्फटिका धनुराख्यकः ।देववेदिर्जीवनदो हुताशार्हो महस्तपः ॥ ७० ॥
1.70 · p. 14
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 र्जी (wrong syllable)
शतघ्नी भाण्डिका तु स्यात्कृतघ्नी मेघनादिनी ।एकघ्नी तु तुपाकिः स्यात्काकनादानुनादिनी ॥ ७१ ॥
1.71 · p. 14
अनुष्टुप्
शोभाग्निश्च विधूमः स्यात्कालाग्निर्लोहबन्धनः ।तप्तमुद्रा श्वपदका चूटिका वातिकापि च ॥ ७२ ॥
1.72 · p. 14
अनुष्टुप्
जाठरस्त्वौदराग्निः स्या …… द्बाडवो बडवानलः ॥ ७३ ॥
1.73 · p. 14
अनुष्टुप्
वैणवो वेणुसम्भूतः शमनो दार्विकः स्मृतः ।पवित्रं च कराग्निः स्यात्पैतृकः कव्यवाहनः ॥ ७४ ॥
1.74 · p. 14
अनुष्टुप्
कारुर्जैवातृकः शुष्मा दवो वनहुताशनः ।यमः कालो दण्डधरः श्राद्धदेवोत्तरोद्यमः ॥ ७५ ॥
1.75 · p. 14
अनुष्टुप्
समवर्ती शीर्णकण्ठः कृतान्तो यमुनाग्रजः ।सूर्यपुत्रः सत्यधर्मः सर्वज्ञः सात्विकप्रियः ॥ ७६ ॥
1.76 · p. 14
अनुष्टुप्
आषाढनिलयो धर्मराजो रागविलोचनः ।धूमोर्नावल्लभः शम्भुः कृष्णाङ्गो महिषध्वजः ॥ ७७ ॥
1.77 · p. 15
अनुष्टुप्
परेतराजः शमनो धर्मगुप्धर्मवर्धनः ।लेखकश्चित्रगुप्ते स्यात्काणाची तु विलातिका ॥ ७८ ॥
1.78 · p. 15
अनुष्टुप्
विचारभूः पैतृवणं ग्रसन्नाली तु पञ्चिका ।नरको नारकोऽपि स्याद्दुर्गतिर्निरयोऽपि च ॥ ७९ ॥
1.79 · p. 15
अनुष्टुप्
वैतरण्यज्ञसुलभा प्रेतावासाग्निवाहिनी ।नारका जन्तवः प्रेता याम्या अप्यातिवाहिकाः ॥ ८० ॥
1.80 · p. 15
अनुष्टुप्
यातना कारणा दुःखमामनस्यं प्रसूतिजम् ।स्यात्कष्टं कृच्छमाभीलं क्लेशं दुःसहमित्यपि ॥ ८१ ॥
1.81 · p. 15
अनुष्टुप्
रक्षो निशाचरो यातु राक्षसो जाललोहितः ।रात्रिञ्चरो रात्रिचरः क्रव्यात्क्रव्याद इत्यपि ॥ ८२ ॥
1.82 · p. 15
अनुष्टुप्
नैकषेयो यातुधानः पुरुषादः प्रवाहिकः ।नैर्ऋतो हनुषोपि स्याद्विधुरो नीलविग्रहः ॥ ८३ ॥
1.83 · p. 15
अनुष्टुप्
अभाग्या निर्ऋतिज्येष्ठा त्वलक्ष्मीर्लोहभूषणे ।दशास्यो विंशतिभुजो रावणस्तु हरन्नतः ॥ ८४ ॥
1.84 · p. 15
अनुष्टुप्
लङ्केश्वरो विश्वमुखश्चतुराम्नायमन्दिरः ।चन्द्रहासस्तु खड्गोऽस्य क्रीडाभूस्त्वमरावलिः ॥ ८५ ॥
1.85 · p. 15
अनुष्टुप्
अशोकवनिकोद्यानं त्रिशिरः समनि … पदः ।इन्द्रजन्मेषुनाथः स्यात्प्रहस्तः स्यादलम्बुसः ॥ ८६ ॥
1.86 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
अतिकायश्चित्रदेहः सर्वभद्रास्य वल्लभा ।वरुणशीतलो वामो दुन्दुभिस्त्वंभसां पतिः ॥ ८७ ॥
1.87 · p. 15
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 ण (wrong syllable)
जलवासोम्बुकान्तारः पाशी मकरवाहनः ।तस्य प्रिया तु गौरी स्याद्वासभूमिस्तु शार्वरम् ॥ ८८ ॥
1.88 · p. 16
अनुष्टुप्
अभ्रो मेघो वारिवाहो जलदो धूमसम्भवः ।जलमुक् पुष्पदः कन्दो बलाहकवलाहकौ ॥ ८९ ॥
1.89 · p. 16
अनुष्टुप्
तडित्पतिर्महानादधीरः पर्जन्य इत्यपि ।आकालिका शतावर्ता चञ्चला चपला अपि ॥ ९० ॥
1.90 · p. 16
अनुष्टुप्
नागरोधी झलाका स्याद्विद्युन्माली महाह्रदा ।क्षणप्रभा वज्रकला जलदा घनवल्लभा ॥ ९१ ॥
1.91 · p. 16
अनुष्टुप्
गर्जितं स्तनितं जीर्णं गर्जा गर्जनमित्यपि ।निर्घोषो घनघातः स्यान्महाघात इतीर्यते ॥ ९२ ॥
1.92 · p. 16
अनुष्टुप्
वर्षो वृष्टिर्वर्षणं च घनाघनमणिर्मणिः ।वाटिका वटिकश्च स्यात्करकः पुञ्जिकापि च ॥ ९३ ॥
1.93 · p. 16
अनुष्टुप्
धाराधारस्तु सम्पातः सारणिर्धोरणीति च ।पुषस्तुपारो बिंदुश्व … ॥ ९४ ॥
1.94 · p. 16
अनुष्टुप्metre not read in every line
वर्षाङ्कः श्रीफलो बीजो बिन्दुपूरस्तुषारकः ।गिरेर्निर्गलितं वारि कोलाहल इतीर्यते ॥ ९५ ॥
1.95 · p. 16
अनुष्टुप्
तत्समूहे झरा तु स्याझ्झरीति परिकीर्तितः ।पयः कीलालममृतं पुष्करं सर्वतोमुखम् ॥ ९६ ॥
1.96 · p. 16
अनुष्टुप्
महामुखं मेघपुष्पं जीवनं जीवितं शरम् ।जीवनीयं शुचिः सारं शम्बरं चाप्यधोमुखम् ॥ ९७ ॥
1.97 · p. 16
अनुष्टुप्
तरङ्गिगी शैवलिनी तटिनी ह्रादिनी धुनी ।वाहिनी निम्नगा वाही निम्नोन्नवविचक्षणा ॥ ९८ ॥
1.98 · p. 16
अनुष्टुप्
समुद्रगामिनी धारा धरा वरुणवल्लभा ।द्योधुनी गङ्गिका गङ्गा विष्णुपादभवाभवा ॥ ९९ ॥
1.99 · p. 17
अनुष्टुप्
भागीरथी भीष्मसुता ब्रह्मवाहा सुरापगा ।कालिन्दी सूर्यतनया सावित्री नन्दना यमा ॥ १०० ॥
1.100 · p. 17
अनुष्टुप्
यमुना कृष्णवेणी स्यात नीलवेणीति कथ्यते ।रेवती नर्मदा सोमोद्भवा मेखलजा शिवा ॥ १०१ ॥
1.101 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
भवावासा पद्मवती गर्भिणी शिवमातृका ।शयोद्भवा महानीरा मन्त्रजा शिवसम्भवा ॥ १०२ ॥
1.102 · p. 17
अनुष्टुप्
हिरण्यवाहः शोणः स्याद्द्रोणसिन्धुः प्रकीर्तितः ।मरुद्वृधा तु कावेर्यां नन्दिनी रोमहर्षिणी ॥ १०३ ॥
1.103 · p. 17
अनुष्टुप्
सुवर्णमुखरी स्वर्णवाहिनीति निगद्यते ।तमसायां पुत्रवती यज्ञवत्युवरावती ॥ १०४ ॥
1.104 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
पद्माकरस्तटाकः स्यात्कासारः सरसी सरः ।स्वस्तिकः पुष्करः सिन्धुर्जलाशय इतीर्यते ॥ १०५ ॥
1.105 · p. 17
अनुष्टुप्
पल्वलं स्वल्पकासारो नीलकण्ठाश्रयोपि च ।अन्धुरम्भाश्रयो वापी दीर्घिका जलयन्त्रिका ॥ १०६ ॥
1.106 · p. 17
अनुष्टुप्
कन्या कालविका स्वल्पवाहिनी कृत्रिमा सरित् ।समुद्रोब्धिरकूपारः सिन्धुः सागरसम्भवः ॥ १०७ ॥
1.107 · p. 17
अनुष्टुप्
रत्नाकरो नदीनाथः कन्धिः शरधिरुच्यते ।लावणो लवणाम्भोधिः मन्थाब्धिः कलशाम्बुधिः ॥ १०८ ॥
1.108 · p. 17
अनुष्टुप्
पृथुरोमा झषो मत्स्यो निलिम्पोण्डभवोम्बुभूः ।कुलीरः कर्कटस्तीक्ष्णमुखो मकर इत्यपि ॥ १०९ ॥
1.109 · p. 17
अनुष्टुप्
गजपादः कच्छपश्च कूर्मः कमठ इत्यपि ।मकरः शिंशुमारख महामुख इतीर्यते ॥ ११० ॥
1.110 · p. 18
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 र (wrong syllable)
वृत्तांतः शंखकंबू च महाशुक्तिरितीर्यते ।मुक्ता स्फोटो वक्रमुखः शुक्तिर्मुक्तामयोदरः ॥ १११ ॥
1.111 · p. 18
अनुष्टुप्
मुक्ताभवः शुक्तिभवश्चाणिः शौक्तिक इत्यपि ।मौक्तिकं शौक्तिकेयं च विमलस्तार इत्यपि ॥ ११२ ॥
1.112 · p. 18
अनुष्टुप्
पद्मरागोरविन्दः स्यान्मयूघास इतीर्यते ।गारुत्मतं मरकतं अश्मगर्भं हरिन्मणिः ॥ ११३ ॥
1.113 · p. 18
अनुष्टुप्
प्रवालो विद्रुमो वल्लिमणि … करभूषणम् ।रक्तमाला महारूपा कर्षणाङ्ग इतीर्यते ॥ ११४ ॥
1.114 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हीरस्तु चान्द्रकमणिर्वज्रो वज्रहतोपि च ।प्राविड्जं चापि वैडूर्यं विडूरजमितीर्यते ॥ ११५ ॥
1.115 · p. 18
अनुष्टुप्
कुरुविन्दस्तु कुल्माषो रोहितं रजनीति च ।इन्द्रनीलस्तमोरत्नं महोपल इतीर्यते ॥ ११६ ॥
1.116 · p. 18
अनुष्टुप्
श्रीपत्रं नलिनं पद्ममरविन्दं महोत्पलम् ।पद्मालयं पद्मभवं जलजं च कुशेशयम् ॥ ११७ ॥
1.117 · p. 18
अनुष्टुप्
किञ्जल्के त्वकरुश्च स्यात्केसरः परिकीर्तितः ।पद्मोदरो वराटः स्याद्बिसकोशस्तु कर्णिका ॥ ११८ ॥
1.118 · p. 18
अनुष्टुप्
बिसः कण्टकितो नालशतकीति निगद्यते ।स्यादुत्पलं कुत्रलयं रक्ते तस्य तु साध्यकम् ॥ ११९ ॥
1.119 · p. 18
अनुष्टुप्
इन्दीवरं च नीलेस्मिन् सिते कुमुदकैरवे ।जलनीली तु शैवालं शिवालं शेमवल्लिका ॥ १२० ॥
1.120 · p. 18
अनुष्टुप्