कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdacandrikā

शब्दचन्द्रिका Śabdacandrikā

125 verses · 947 words tagged · 244 marked doubtful (dashed)

अन्तरिक्षाधिकारो द्वितीयस्सर्गः

इति बाणकविविरचितायां शब्दचन्द्रिकायां स्वर्गादिलोकपालाधिकारः प्रथमस्सर्गः ॥

द्वितीयः सर्गः

आकाशः शब्दगुणकं मेघद्वारं महापथम् ।तारापथोऽन्तरिक्षं च निराधारमितीरितम् ॥ १ ॥
2.1 · p. 36
अनुष्टुप्
सूर्यो भानुर्दिवाधीशः पद्मबन्धुर्विरोचनः ।वेदमूर्तिर्विश्वकर्मा कोकबन्धुर्नभश्वरः ॥ २ ॥
2.2 · p. 36
अनुष्टुप्
विश्वमूर्तिर्लोकसाक्षी दीप्तमूर्तिरनन्तगः ।नीरदो नीरदकरो हेलिरद्रिः प्रतापनः ॥ ३ ॥
2.3 · p. 36
अनुष्टुप्
भानोः करो मरीचिः स्यान्मयूखो विश्वविक्रमः ।मेघसूश्च जलग्राही वेदरश्मिः घृणिः करः ॥ ४ ॥
2.4 · p. 36
अनुष्टुप्
छाया कान्तिमती संज्ञा गतानुगतिकाऽपि च ।सुतस्तस्यास्तु रेवन्तोप्यरुणः सव्यसारथिः ॥ ५ ॥
2.5 · p. 36
अनुष्टुप्
चन्द्रः शशांकः शुभ्रांशुर्दिवाभीरुर्निशाटनः ।सर्वभद्रः काण्डनूनं समुद्रनवनीतकम् ॥ ६ ॥
2.6 · p. 36
अनुष्टुप्
उडुराजो निशाराजः कमलीति निगद्यते ।चन्द्रपादस्तु संवालः प्रवाल इति कथ्यते ॥ ७ ॥
2.7 · p. 37
अनुष्टुप्
चन्द्रिका गोमती ज्योत्स्ना बण्णला पथिकानलः ।नक्षत्रं रात्रिजं धिष्ण्यं तारकं रकमित्यपि ।आकाशकुसुमं बिन्दुर्भानुभीरुर्निगद्यते ॥ ८ ॥
2.8 · p. 37
अनुष्टुप्
रात्रिर्निशीथिनी काली तमा दीपवती मतिः ।नभच्छायावती वह्नितेजोवृद्धिकरीति च ॥ ९ ॥
2.9 · p. 37
अनुष्टुप्
ज्योत्स्नावती चन्द्रवती ज्योत्स्नी चन्द्रिकयान्विता ।अभ्रं मेघो वारिवाहो जलविड्घूमयोनयः ॥ १० ॥
2.10 · p. 37
अनुष्टुप्
ज्योतिर्गर्भः सदागामी कृतज्ञः प्रलयाधिपः ।तस्य भेदस्तु संवर्त इलावर्तस्तु पुष्करः ॥ ११ ॥
2.11 · p. 37
अनुष्टुप्
आवर्तनः पुष्पकश्च पर्जन्य इति कथ्यते ।वृष्टिश्च वर्षणं वर्षं प्रावृषः परिकीर्तितः ॥ १२ ॥
2.12 · p. 37
अनुष्टुप्
धारासारो धोरणिश्च सीकरोऽम्बुकणः स्मृतः ।घनोपलस्तु पार्जन्यः करका करकोऽपि च ॥ १३ ॥
2.13 · p. 37
अनुष्टुप्
तटित्सौदामनी विद्युत्कलावत्युन्नतप्रभा ।क्षणज्वालाग्रसुषमा केतकीसुमरञ्जना ॥ १४ ॥
2.14 · p. 37
अनुष्टुप्
निर्घोषो गर्जनं गर्जा घनघोष इतीर्यते ।हिमस्तुषारः पृषतः संवालज इतीयते ॥ १५ ॥
2.15 · p. 37
अनुष्टुप्