All kośas › Gīrvāṇabhāṣābhūṣaṇa
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa
204 verses · 1,626 words tagged · 466 marked doubtful (dashed)
अन्तरिक्षाधिकारो द्वितीयस्तरङ्गः
इति हनूमदीये स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः ॥
द्वितीयस्तरङ्गः ।
अन्तरिक्षं नभो व्योम गगनं सुरवर्त्म खम् ।वियद्विष्णुपदं दिव्यं वायुवर्त्म विहायसम् ॥ १ ॥
2.1 · p. 20
अनुष्टुप्
नक्षत्रमार्गं विपुलं भटाकं चान्तरात्मकम् ।अर्कः सूर्योऽर्यमा सूरो द्वादशात्मा दिवाकरः ॥ २ ॥
2.2 · p. 20
अनुष्टुप्
मार्ताण्डः सविता भानुर्भानुभूषो दिनप्रणिः ।द्युमणिर्हरिदश्वोद्रिः कर्मसाक्षी त्रयीतनुः ॥ ३ ॥
2.3 · p. 20
अनुष्टुप्
तुलाधारो जगत्कर्ता प्रभाकरविभाकरौ ।मेघसूः किरणश्चापि मयूखो घृष्टिरित्यपि ॥ ४ ॥
2.4 · p. 20
अनुष्टुप्
पादः करोंशुमाला च प्रभामालेति कथ्यते ।संज्ञा स्वरेणुका मायामयी चापि सुवर्चला ॥ ५ ॥
2.5 · p. 20
अनुष्टुप्
त्वाष्ट्रप्रभा च गतिका छायादेवी क्षुभा मही ।हिमद्युतिः शशिश्चन्द्रश्चन्द्रमाः शशभूर्विधुः ॥ ६ ॥
2.6 · p. 20
अनुष्टुप्
परिज्या रोहिणीकान्तो निशानाथो निशाकरः ।ओषधीशो निशाकेतुर्निशानाथस्तमापतिः ॥ ७ ॥
2.7 · p. 20
अनुष्टुप्
हृद्यांशुरंशुरब्जारिरमृतांशुः कलानिधिः ।जयन्तस्तपसः शीतभानुः स्वच्छो यथासुखः ॥ ८ ॥
2.8 · p. 20
अनुष्टुप्
प्राचीनतिलकः कर्णव्यस्तपादः सुखोदयः ।बन्धुः कुमुद्वतीनाथो वार्धिसूनं नभोम्बुजम् ॥ ९ ॥
2.9 · p. 20
अनुष्टुप्
चन्द्रपादास्तु संवालास्तुषारा वालका अपि ।अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ॥ १० ॥
2.10 · p. 20
अनुष्टुप्
संवालसम्भवोऽप्यल्पवृष्टिः पार्वतकोऽपि च ।प्रालेयं मिहिका चाथ हिमानी हिमसंहतम् ॥ ११ ॥
2.11 · p. 21
अनुष्टुप्
ज्योत्स्ना तु शशिनश्च्छाया चन्द्रमाना तु चन्द्रिका ।चन्द्रगोमी पुनश्चन्द्रगामीति च निगद्यते ॥ १२ ॥
2.12 · p. 21
अनुष्टुप्
तारा भं रात्रिजं भानुभीरु नक्षत्रमित्यपि ।नभोबीजं चन्द्रबिन्दुधिष्ण्यं सन्नुडुतारकम् ॥ १३ ॥
2.13 · p. 21
अनुष्टुप्
ध्वान्तं तिमिरमासक्तं तामिस्रं शार्वरं तमः ।आततिश्वान्धकारश्च गाढं सन्तमसं तमम् ॥ १४ ॥
2.14 · p. 21
अनुष्टुप्
रजनी यामिनी यम्या त्रियामा क्षणदा क्षपा ।तमा तमस्विनी रात्रिर्विभावरिरितीर्यते ।तमिस्रा क्षणमीक्षाणी शर्वरी च निशीथिनी ॥ १५ ॥
2.15 · p. 21
अनुष्टुप्