कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हिम

himaक्ली · neut.

In 21 kośas: 36 synonym verses, 7 as a nānārtha head word, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1072 · p. 42
अवश्यायस्तु तुहिनं प्रालेयं मिहिका हिमम् ।स्थान्नीहारस्तुषारश्च हिमानी तु महद्धिमम् ॥ १०७२ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1385 · p. 53
शीते तुषारः शिशिरः सुशीमः शीतलो जडः ।हिमोऽथोष्णे तिग्मस्तीक्ष्णस्तीव्रश्चण्डः खरः पटुः ॥ १३८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ति (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.18
अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ।प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.19
शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः ।तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ॥ १९ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.650 · p. 74
प्रालेयमवश्यायस्तुहिनं शिशिरं हिमं तुषारं च ।मिहिका स्यान्नीहारो हिमसंघातो हिमानी च ॥ ६५० ॥
आर्या
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर तृतीयोपदेशः Bālaprabodhikā 3.58 · p. 71
अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ।प्रालेयं तु परालेयं हिमानी हिमसंहतम् ॥ ५८ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम अन्तरिक्षाधिकारो द्वितीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 2.10 · p. 20
चन्द्रपादास्तु संवालास्तुषारा वालका अपि ।अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.376 · p. 62
अथ रक्तार्कक्षुद्रेभ्यश्चन्दनं रक्तसारकम् ।कुचन्दनं हिमं चाय? वर्वरं श्वेतवर्वरम् ॥ ३७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्क (wrong syllable)
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.533 · p. 191
चन्द्रमष्टापदं जाम्बूनदमेते नवास्त्रियाम् ।तपनीयं शातकुम्भं च द्वयोर्हिमहेमनी ॥ ५३३ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कल्पद्रुकोशः Kalpadrukośa · केशव पर्वतादिप्रकाण्डः Kalpadrukośa 1.13.7 · p. 341
श्वेताद्रिरथ नीहारस्तुषारस्तुहिनं हिमम् ।प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पर्वतादिप्रकाण्डः Kalpadrukośa 1.13.8 · p. 341
शीतं गुणे तद्वदर्थं सुषीमः शिशिरो जडः ।तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ॥ ८ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.171 · p. 480
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.69 · p. 34
अवश्या मिहिका च स्त्री प्रालेयं तुहिनं हिमम् ।**न स्त्री हिमानी तु धूमिका तु कुहेलिका ॥ ६९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.68 · p. 34
धूमरी धूममहिषी कुहरिर्दिग्वगुण्ठनम् ।शिशिरं शीतलं शीतं सुशीतमहिमास्त्रियाम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.71 · p. 34
तुषारं च जडं क्लीबे गुणे तद्वति भेद्यवत् ।अस्ति यत्र[23a] हिमं तत्र हिमं हिम्यं भवेत्त्रिषु ॥ ७१ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.42 · p. 147
श्वेतपुष्पः साधुवृक्षस्तिक्तशाकः कुमारकः ।पाश्चात्त्य उरुमानोऽसावथ श्लेष्मातको हिमः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.9 · p. 152
हिमं महार्हं मलयं श्वेतं स्याच्चन्द्रकान्तकः ।हरिचन्दनमस्त्री स्याद्गोशीर्षं तैलपर्णिकः ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.93 · p. 315
पाण्डुकं नवकं तुल्यलोहचूर्णं नवायसम् ।रसस्तु स्वरसोऽथासौ स्थितो रात्रिंदि( द्र )वे हिमः ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.55 · p. 113
धर्मः स्वभावे कमले तु पद्मःसंख्याविशेषेऽप्यथ कामलेऽसौ ।अर्माश्र[233a]मोद्यामललामहेमंक्षेमं हिमं कुट्टिमसंगमाश्च ॥ ५५ ॥
इन्द्रवज्राmetre not read in every line
genderपुंक्लीm. n.
प्राग्वंशशब्दः पुंसि भवति । अयं प्राग्वंशो यज्ञकुटी । शृङ्खलं त्रिषु लिङ्गेषु जानीहि । अयं शृङ्खलः इयं शृङ्खला इदं शृङ्खलम् । एते पुंसि कथिताः । अयं चमसः सोमपात्रम् । अयं स्तम्भः । निदाघो घर्मः । पशुर्गवादिः ।शूको धान्यादीनाम् । विटकः पिण्डकृतपरिमाणद्रव्यं शौण्डो वा ।वल्कलकुण्डलहिमचिह्नखलीनककुदगुह्यशुल्कशकलानि ।तीरोलूखलकवचानि च विद्यादितरजातौ ॥ ७७ ॥
metre not recognised
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 118 · p. 59
कर्पूरं घनसारं च हिमं सेवेत पुण्यवान् ।समालम्भोऽङ्गरागश्च प्रसाधनविलेपनम् ॥ ११८ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 179 · p. 85
अवश्यायं तुषारं च प्रालेयं तुहिनं हिमम् ।नीहारं तत्करं विद्धि मृगाङ्कं रोहिणीपतिम् ॥ १७९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.350 · p. 48
नीहारश्च तुषारश्च हिमं च मिहिका स्त्रियाम् ।घनोपलस्तु करको हिमानी तु हिमोच्चयः ॥ ३५० ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.278 · p. 87
तुषारः शीतलः शीतो हिमोऽपि कथितो बुधैः ।उष्णस्तीव्रः खरस्तीक्ष्णः पटुतिग्मौ मनागथ ॥ २७८ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.149 · p. 229
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वायुभानुः Pañcatattvaprakāśa 5.329 · p. 23
हिमं तुषारो मिहिका प्रालेयं रजनीजलम् ।घनोपलो मेघकफः करका वारिशर्करः ॥ ३२९ ॥
अनुष्टुप्
genderक्लीneut.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण अन्तरिक्षाधिकारो द्वितीयस्सर्गः Śabdacandrikā 2.15 · p. 37
निर्घोषो गर्जनं गर्जा घनघोष इतीर्यते ।हिमस्तुषारः पृषतः संवालज इतीयते ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.72 · p. 9
शोचिर्दीप्तिर्महो वर्चो रोचिर्भा रुग्रुचिर्वसुः ।शिशिरः शीतलः शीतस्तुषारश्च हिमो जडः ॥ ७२ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1863 · p. 304
अवश्यायस्तु प्रालेयं तुषारस्तुहिनं हिमम् ॥ १८६३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2516 · p. 408
तुषारः शीतलः शीतः सुषीमः सुषिमो हिमः ॥ २५१६ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.202 · p. 15
श्रीर्भासाभाश्च सान्तोऽयमादन्तोऽपि च कुत्रचित् ।निहारोऽपि च नीहारः प्रालेयं तुहिनं हिमम् ।अवश्यायस्तुषारः स्यान्मिहिका महिकापि च ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.205 · p. 15
शीतं गुणे तद्वदर्थाः सन्त्येते वाच्यलिङ्गकाः ।सुषीमः शीतलः शीतस्तुषारः शिशिरो हिमम् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.180 · p. 24
अथावश्यायनीहारतुषारास्तुहिनं हिमम् ।प्रालेयं मिहिकाथ स्यात्कुहेली हिमधूमिका ॥ १८० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.181 · p. 24
हिमानी हिमसंघाते शिशिरः शीतलो जडः ।हिमः शीतस्तुषारश्च षडमी तद्वदर्थकाः ॥ १८१ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश मेघाध्यायः Vaijayantī 2.2.9 · p. 25
अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ।प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश गुणाध्यायः Vaijayantī 5.3.7 · p. 196
तुषारः शिशिरः स्फीतः सेभ्यः सीमो हिमोऽपि च ।उष्णं ज्वलः खरः क्रूरो बालस्तिग्मः कृशश्चुपः ॥ ७ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास मार्धश्लोकः Dharaṇikośa 24.2.2 · p. 142
हि[68]मं चन्दनमाख्यातं हिमं शीततुषारयोः ।क्षेमं शुभे च गोरक्षे गन्धे लब्धानुरक्षणे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ मान्ताः Koṣakalpataru 6.25.57 · p. 279
योषाहिङ्गुलिनीषु योषिति मतः कामः स्मरेऽस्त्रीप्सितेक्लीबं शुक्रनिकामयोरथ रमः कान्ते स्त्रियां तु श्रियि ।तद्वत्सु त्रिषु पुंसि तु स्मरगतो रक्तेऽप्यशोकद्रुमेन स्त्री स्यान्मलयोद्भवे च शिशिरे तद्वत्तुषारे हिमम् ॥ ५७ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1592 · p. 178
स्त्री तु हाली कनिष्ठायां पत्न्यां स्वसरि सा पुनः ।हाला सुरायामथ नप् चन्दने तुहिने हिमम् ॥ १५९२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1593 · p. 178
कपूरे तु पुमान् शीतगुणेऽपि त्रि तु तद्वति ।हिमा तु स्त्री निशीथिन्यां मृडान्यां च हितं पुनः ॥ १५९३ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र मद्विः Śivakoṣa 20.1.334 · p. 31
सोमा ब्राह्मीसोमराजाकुण्डलीषु पुमाञ्जले ।कर्पूरसोमलतयोर्हिमं कर्पूरशीतयोः ॥ ३३४ ॥
अनुष्टुप्
meaningsशीत
शब्दरत्नावली Śabdaratnāvalī · मथुरेश मान्ताः Śabdaratnāvalī 7.25.29 · p. 255
कर्पूरवसुभिन्नीर कपि सोमलतासु च ।हिमं शीते मलयजे क्लीबं स्याच्छीतलेऽन्यवत् ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.318 · p. 197
सीमा वाटे स्थितौ क्षेत्रे हिमं शीतलशीतयोः ।
अनुष्टुप्

हिम as a meaning in nānārtha verses