कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdacandrikā

शब्दचन्द्रिका Śabdacandrikā

125 verses · 947 words tagged · 244 marked doubtful (dashed)

स्वर्गादिलोकपालाधिकारः प्रथमस्सर्गः

शब्दचन्द्रिका

प्रथमः सर्गः

विद्यारण्य गुरून् सार्वभौमाद्यखिलसत्कवीन् ।नमस्कृत्याथ बाणेन क्रियते शब्दचन्द्रिका ॥ १ ॥
1.1 · p. 34
अनुष्टुप्
स्वर्गे सारस्वतपुरी भोगभूमिस्तु सैरिकः ।गीर्वाणनगरी वीरसाधारणपुरीति च ॥ २ ॥
1.2 · p. 34
अनुष्टुप्
निलिम्पा मरुतो मर्त्याः गुरुशिष्या दिवौकसः ।इन्द्रो विद्याधरस्वामी परमन्युर्युधिष्ठिरः ॥ ३ ॥
1.3 · p. 34
अनुष्टुप्
विभीषण चित्ररथः शतमन्युर्महाविभुः ।तस्य प्रिया तु पौलोमी युगावर्ता पुलोमजा ॥ ४ ॥
1.4 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ण (wrong syllable)
सुतस्तस्य जयन्तः स्याज्जयोऽपि च निगद्यते ।अस्योद्यानं नन्दनं स्यात्प्रासादस्तु पताकिका ॥ ५ ॥
1.5 · p. 34
अनुष्टुप्
अनिर्वायुखः श्रीमान् प्रभावान्मेषवाहनः ।हिरण्यरेताः सर्वाशः कपर्दी तिलकः कविः ॥ ६ ॥
1.6 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तस्य प्रिया स्वधा स्वाहा पत्तनन्तु हविष्मती ।यमस्तु धर्मराजः स्यात्सावित्रेयः परेतराट् ॥ ७ ॥
1.7 · p. 34
अनुष्टुप्
आषाढभूतिः सर्वघ्नो दण्डकः सात्विकप्रियः ।तस्य जाया सत्यवती धूमोर्णेति निगद्यते ॥ ८ ॥
1.8 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
नैर्ऋती राक्षसस्वामी कोणपः कुणपायुधः ।ज्येष्ठास्यात्तस्य जाया तु सुतस्तस्य त्वभाग्यकः ॥ ९ ॥
1.9 · p. 34
अनुष्टुप्
वरुणः सारथिः स्वामी नदीनाथः प्रजापतिः ।समुद्रवल्लभः शंभुः पाशभृत्सर्वतोमुखः ॥ १० ॥
1.10 · p. 34
अनुष्टुप्
गौरी तस्य प्रियायां स्यात्परिघा तस्य पत्तने ।वायुर्महाजवो गन्धवाहो गन्धवतीप्रियः ॥ ११ ॥
1.11 · p. 35
अनुष्टुप्
भूतावासो घनारातिर्जगत्प्राणः समीरणः ।कुबेरः पद्मिनीकान्तो राजराजो धनाधिपः ॥ १२ ॥
1.12 · p. 35
अनुष्टुप्
कैलासनिलयो राजा किलासाधिपतिर्विभुः ।किलासमलकायां स्याद्वने चैत्ररथं स्मृतम् ॥ १३ ॥
1.13 · p. 35
अनुष्टुप्
मणिकर्णोऽस्य तनये नलकूबर इत्यपि ।ईशानः पार्वतीकान्तः कठोरस्त्रिपुरान्तकः ॥ १४ ॥
1.14 · p. 35
अनुष्टुप्
विश्वम्भरः पुरारातिः कटाटीरो महानटः ।जटाटीकः कङ्कटिको जटाझाटो जटीविटः ॥ १५ ॥
1.15 · p. 35
अनुष्टुप्
सामिमूर्तिश्चन्द्रमौलिः सन्धिचन्द्रकभाषणः ।शिवा भवानी रुद्राणी पार्वती भुवनेश्वरी ॥ १६ ॥
1.16 · p. 35
अनुष्टुप्
काली कोली कराली च लोकमाता मनोन्मणी ।प्रत्यूहाधिपतिः शुक्रः विष्णुर्विघ्नेश्वरोऽपि च ॥ १७ ॥
1.17 · p. 35
अनुष्टुप्
लेखिनीरदनो वेदलेखकस्तु गणाधिपः ।कुमारः पार्वतीसूनुः सेनानीरग्निभूर्गुहः ॥ १८ ॥
1.18 · p. 35
अनुष्टुप्
बाहुलेयः शक्तिधरः शूरः स्कन्दो बुधाधिपः ।विष्णु संकर्षणः कृष्णः पुरातनचिरन्तनौ ॥ १९ ॥
1.19 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
शतानन्दो मुरारातिः श्रीधरो यज्ञपूरुषः ।आदिदेवो हृषीकेशः केशवो माधवः स्वभूः ॥ २० ॥
1.20 · p. 35
अनुष्टुप्
महाराजश्चक्रवर्ती हरिः शौरिः सुरोत्तमः ।लक्ष्मीः पद्मालया पद्मा पद्माप्ता शुभवीक्षणा ॥ २१ ॥
1.21 · p. 35
अनुष्टुप्
चन्द्रा हिरण्मयी कान्ता कान्तकान्तारवासिनी ।मदनो मन्मथो वामो रामो रजकवाहनः ॥ २२ ॥
1.22 · p. 35
अनुष्टुप्
झषकेतुर्जराभीरुः कामः पञ्चशरः स्मरः ।ब्रह्मात्मभूः पत्रिरथः पद्मभूः पङ्कजासनः ॥ २३ ॥
1.23 · p. 36
अनुष्टुप्
शम्भुः स्वयंभूर्विश्वात्मा लोकपालस्त्रिलोकभृत् ।सत्यावासः सुरानन्दो रुक्मगर्भः प्रजापतिः ॥ २४ ॥
1.24 · p. 36
अनुष्टुप्
वेदगर्भो ललाटाङ्कलेखकः पूर्वजोग्रजः ।ब्राह्मी वराङ्गना भाषा वाग्देवी विश्वमातृका ॥ २५ ॥
1.25 · p. 36
अनुष्टुप्
भारती वाचका वाणी गीर्देवी परमेश्वरी ।आजिर्मनोजवो धीरो नारदः कलहाशनः ॥ २६ ॥
1.26 · p. 36
अनुष्टुप्