कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जरायुज

jarāyujaवि · adj.

In 8 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.194 · p. 51
रसजा मद्यकीटाद्या नृगवाद्या जरायुजाः ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.50
दिव्योपपादुका देवा नृगवाद्या जरायुजाः ॥ ५० ॥
अनुष्टुप्metre not read in every line
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.98 · p. 225
दिव्योपपादुका देवा नृगवाद्या जरायुजाः ।स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः ॥ ९८ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.58 · p. 17
दिव्यो[169b]पपादुका देवा नृगवाद्या जरायुजाः ।स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः ॥ ५८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2462 · p. 397
रसजा मद्यकीटाद्यास्तथा जरायुजा अपि ।नरगवादयः प्रोक्ताः यूकाद्याः स्वेदजाः पुनः ॥ २४६२ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable); pāda 3, syllable 3 ग (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.68 · p. 163
दिव्योपपादुका देवा यस्मादयोनिजाश्च ते ।गोमनुष्यतुरङ्गाद्या स्नेहि सर्वे जज्ञयुजाः ॥
metre not recognised
genderविadj.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1677 · p. 201
निष्कासितोऽवकृष्टः स्यात् पक्षिसर्पादयोऽण्डजाः ।स्वेदजाः कृमिदंशाद्या नृगवाद्या जरायुजाः ॥ १६७७ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.2 · p. 173
स्वेदजा दंशयूकाद्या नृपश्वाद्या जरायुजाः ।अण्डजाः पक्षिसर्पाद्याः पुमांस्तु पुरुषो वृषः ॥ २ ॥
अनुष्टुप्
genderविadj.