कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अण्डज

aṇḍajaपुं · masc.

In 16 kośas: 34 synonym verses, 7 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.138 · p. 50
विहगो विहंगमखगौ पतगो विहंगः शकुनिः शकुन्तिशकुनौ विवयः शकुन्ताः ।नभसंगमो विकिरपत्त्ररथौ विहायो द्विजपक्षिविष्किरपतत्रिपतत्पतङ्गाः ॥ १३१६ ॥पित्सन्नीडाण्डजोगौकाश्चञ्चुश्चञ्चू सृपाटिका ।त्रोटिश्च पत्त्रं पतत्रं पिच्छं वाजस्तनूरुहम् ॥ १३१७ ॥पक्षो गरुच्छदश्चापि पक्षमूलं तु पक्षतिः ।
metre not recognised
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1344 · p. 51
मत्स्यो मीनः पृथुरोमा झषो वैसारिणोऽण्डजः ॥ १३४३ ॥संघचारी स्थिरजिह्व आत्माशी स्वकुलक्षयः ।विसारः शकली शल्की शंबरोऽनिमिषस्तिमिः ॥ १३४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1355 · p. 51
अण्डजाः पक्षिसर्पाद्याः पोतजाः कुञ्जरादयः ॥ १३५५ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.17
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ।हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १६ ॥धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः ।स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः ॥नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः ।सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.17
पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः ।विसारः शकुली चाथ गडकः शकुलार्भकः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.48
खगे विहङ्गविहगविहङ्गमविहायसः ।शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ।नगौकोवाजिविकिरविविष्किरपतत्रयः ॥ ३३ ॥नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसङ्गमाः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.51
स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः ।उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् ॥ ५१ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.238 · p. 29
शकुनः खगो नगौकाः पक्षी विर्विष्किरस्तथा विकिरः ।अण्डजनीडजवाजिद्विजाश्च कथिताः समानार्थाः ॥ २३८ ॥
आर्या
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.98 · p. 225
दिव्योपपादुका देवा नृगवाद्या जरायुजाः ।स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः ॥ ९८ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.82 · p. 326
पुगः शकुन्तः कण्ठाग्निरण्डजो रसनारदः ।लोमकी कीकसमुखो नाडीचरण इत्यपि ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.73 · p. 351
पृथुरोमा झषो मीन आत्माश्यनिमिषोऽण्डजः ।कण्टकी शम्बरो मूको वल्कवान् शकली द्वयोः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.80 · p. 108
मत्स्यो मच्छो झषो मीनोऽण्डज आम्भसिकस्तिमिः ॥ ८० ॥
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.43 · p. 192
स्यादञ्जनाधिका चाञ्जनिका स्थूलाञ्जना पुनः ।ब्राह्मणी रक्तपुच्छा च ज्येष्ठाथ सरटोऽण्डजः ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.58 · p. 17
दिव्यो[169b]पपादुका देवा नृगवाद्या जरायुजाः ।स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः ॥ ५८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.218 · p. 79
शकुन्तिः शकुनिः [44] पत्ररथो द्विजविहंगमौ ।विष्किरो विर्वयः पित्सन्नीडजश्चाण्डजः स्मृतः ॥ २१८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.241 · p. 82
संघचारी झषो मस्त्यो मीनो वैसारिणोऽप्यसौ ।अण्डजः स्थिरजिह्वोऽपि विसारः स्वकुलक्षयः ॥ २४१ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.110 · p. 15
देवोत्तमः शुचिर्धाता लोकबन्धुर्द्विजोऽण्डजः ।भेनभातू च खद्योतो गभस्तिर्जूर्णिरित्यपि ॥ ११० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.66 · p. 33
पित्सन्विहायसः पक्षी नीडजोऽण्डज इत्यपि ।हारितो वनकाके स्यान्मद्गुः स्याज्जलवायसे ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.55 · p. 130
अण्डजः शकुनिः(लिः?) शारः पृथुरोमा झषोऽपि च ।वैसारिणो विसारश्च क्षुद्राण्डो रोहितोऽपि च ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.290 · p. 20
निर्निमेषोऽण्डजः प्रोष्ठः शफरः शकुलः कजः ।कच्छपः कमठो लोष्टो मण्डूको वारिवालकः ॥ २९० ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.365 · p. 26
पतङ्गः पतगः पक्षी खगः पत्ररथोऽण्डजः ॥ ३६५ ॥
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.99 · p. 11
विहायो विः पत्त्ररथो विकिरः पतगोऽण्डजः ।नगौका नीडनिलयः खचरो विष्किरो वयः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.122 · p. 14
पृथुरोमा संघचारी मत्स्यो मीनो झषोऽण्डजः ।वैसारिणो विसारी च शम्बरोऽनिमिषस्तिमिः ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2380 · p. 384
अगौकाश्चाऽण्डजो नाडीचरणो रसनारदः ।नीडोद्भवश्च कण्ठाग्निः नीडजो लोमकी पुनः ॥ २३८० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2440 · p. 394
अण्डजः स्थिरजिह्वश्च पृथुरोमा जलाशयः ।झषः वैसारिणः शेवः आत्माशी जलपिप्पकः ॥ २४४० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2461 · p. 397
अण्डजाः पक्षिसार्पाद्याः मन्यन्ते पण्डितैरिह ।पोतजाः कुञ्जराद्याश्च कथ्यन्ते कोविदैः खलु ॥ २४६१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.89 · p. 88
अण्डजो वाजि-विकिरौ व्योमचारी वि-विष्किरौ ।नाडीचरण-पित्सन्तौ नीडोद्भव-विहायसौ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.69 · p. 163
अण्डजाः पक्षिसर्पाद्या घर्मजा मशकादयः ।
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.298 · p. 40
सर्पः पृदाकुभुजगाहिभुजंगभोगि-कुम्भीनसोरगभुजंगमगूढपादाः ।व्यालद्विजिह्वफणिजिह्मगदन्तशूक-काकोदराण्डजसरीसृपकाद्रवेयाः ॥ २९८ ॥
वसन्ततिलका
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.332 · p. 44
मत्स्यझषानिमिषाण्डजपृथुलोमविसारशकुलिमीनाः स्युः ।वैसारिणोऽथ शकलं शल्कमुलूपं च तत्त्वचि त्रितयम् ॥ ३३२ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.786 · p. 100
विहगविहंगमद्विजविविष्किरपक्षिपतद्-विकिरपतत्रिपत्रिपतगाण्डजपत्ररथाः ।शकुनगरुत्मदंशुनभसंगमनीडभवाःशकुनिशकुन्तिवोजितरुधामशकुन्तखगाः ॥ ७८६ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1677 · p. 201
निष्कासितोऽवकृष्टः स्यात् पक्षिसर्पादयोऽण्डजाः ।स्वेदजाः कृमिदंशाद्या नृगवाद्या जरायुजाः ॥ १६७७ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.42 · p. 151
स्थिरजिह्वः संघचारी विसारः शंबरोऽण्डजः ।अथो सहस्रदंष्ट्रः स्याद्गलेवालोऽपदालकः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.2 · p. 173
स्वेदजा दंशयूकाद्या नृपश्वाद्या जरायुजाः ।अण्डजाः पक्षिसर्पाद्याः पुमांस्तु पुरुषो वृषः ॥ २ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास जार्धश्लोकः Dharaṇikośa 7.2.8 · p. 33
अङ्गजो मन्मथे पुत्रे अङ्गजं शोणितं विदुः ।अण्डजाः कृकलासादिसर्पमीनखगादिकाः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ जान्ताः Koṣakalpataru 6.7.40 · p. 177
अण्डजाः सरटमीनभुजंग-पक्षिणो मृगमदे तु भवेत्स्त्री ।तैलयन्त्रकरवालकफेन-खड्गधेनुफलकेषु परञ्जम् ॥ ४० ॥
स्वागता
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.69 · p. 52
अण्डजस्तु द्वयोर्मत्स्ये कृकलासपतत्त्रिणोः ।स्त्री त्वण्डजा स्यात् कस्तूर्यामण्डजाते पुनस्त्रिषु ॥ ६९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश जान्ताः Śabdaratnāvalī 7.8.19 · p. 198
अण्डजः स्यान्मृगमदे सरटे पक्षिमत्स्ययोः ।अङ्गजं रुधिरे ना तु कामे पुत्रे मदे कचे ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2042 · p. 248
अण्डजो ब्रह्मणि व्याले गोधायां सरटे खगे ।अशनिर्वज्रतटितोरनीकोऽस्त्री चमूयुधोः ॥ २०४२ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.81 · p. 119
पद्मधन्वन्तरी चाऽब्जावण्डजः खगमीनयोः ।निचुलेऽप्यम्बुजोऽजस्तु ब्रह्मविष्णुस्मरेष्वपि ॥ ८१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.11 · p. 257
लाजेष्वभ्योषमभ्योषाः साज्यांभःपेयसक्तवः ।कृकलासेंऽडजो मत्स्ये खगे कस्तूरिकाण्डजा ॥ ११ ॥
अनुष्टुप्

अण्डज as a meaning in nānārtha verses