कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

तृतीयं सामान्यकाण्डम् · विशेष्यनिघ्नवर्गः (1/2)

तृतीयं सामान्यकाण्डम् ।

अथ विशेष्यनिघ्नवर्गः

विशेष्यनिघ्नैः सङ्कीर्णैर्नानार्थैरव्ययैरपि ।लिङ्गादिसंग्रहैर्वर्गाः सामान्ये वर्गसंश्रयाः ॥ १ ॥
3.1.1
अनुष्टुप्

परिभाषा ।

स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः ।गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥ २ ॥
3.1.2
अनुष्टुप्

विशेष्यनिघ्नवर्गः

सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः ।
3.1.3
अनुष्टुप्
हृदयालुः सुहृदयो महोत्साहो महोद्यमः ॥ ३ ॥
3.1.3
अनुष्टुप्
प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः ।वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४ ॥
3.1.4
अनुष्टुप्
पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः ।
3.1.6
metre not recognisednearly अनुष्टुप्
दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि ॥ ५ ॥
3.1.5
metre not recognised
स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे ।
3.1.8
अनुष्टुप्
जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥ ६ ॥
3.1.6
अनुष्टुप्
परीक्षकः कारणिको वरदस्तु समर्धकः ।
3.1.10
अनुष्टुप्
हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ॥ ७ ॥
3.1.7
अनुष्टुप्
दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः ।
3.1.12
अनुष्टुप्
दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि ॥ ८ ॥
3.1.8
अनुष्टुप्
तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः ।
3.1.14
अनुष्टुप्
प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः ॥ ९ ॥
3.1.9
अनुष्टुप्
गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ ।
3.1.16
अनुष्टुप्
इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता ॥ १० ॥अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः ।
3.1.17
अनुष्टुप्
अधिकर्द्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः ॥ ११ ॥स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् ।
3.1.18
अनुष्टुप्
वराङ्गरूपोपेतो यः सिंहसंहननो हि सः ॥ १२ ॥
3.1.12
अनुष्टुप्
निवार्यः कार्यकर्ता यः सम्पन्नः सत्वसम्पदा ।
3.1.20
अनुष्टुप्
अवाचि मूकोऽथ मनोजवसः पितृसन्निभः ॥ १३ ॥
3.1.13
अनुष्टुप्
सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः ।
3.1.22
अनुष्टुप्
लक्ष्मीवान्लक्ष्मणः श्रीलः श्रीमान्स्निग्धस्तु वत्सलः ॥ १४ ॥
3.1.14
अनुष्टुप्
स्याद्दयालुः कारुणिकः कृपालुः सूरतः समाः ।
3.1.24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः ॥ १५ ॥
3.1.15
अनुष्टुप्metre not read in every line
परतन्त्रः पराधीनः परवान्नाथवानपि ।
3.1.26
अनुष्टुप्
अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ ॥ १६ ॥
3.1.16
अनुष्टुप्
खलपूः स्याद्बहुकरो दीर्घसूत्रश्चिरक्रियः ।
3.1.28
अनुष्टुप्
जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः ॥ १७ ॥
3.1.17
अनुष्टुप्
कर्मक्षमोऽलङ्कर्माणः क्रियावान्कर्मसूद्यतः ।
3.1.30
अनुष्टुप्
स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः ॥ १८ ॥
3.1.18
अनुष्टुप्
भरण्यभुक्कर्मकरः कर्मकारस्तु तत्क्रियः ।
3.1.32
अनुष्टुप्
अपस्नातो मृतस्नात आमिषाशी तु शौष्कुलः ॥ १९ ॥
3.1.19
अनुष्टुप्
बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः ।
3.1.34
अनुष्टुप्
परान्नः परपिण्डादो भक्षको घस्मरोऽद्भरः ॥ २० ॥
3.1.20
अनुष्टुप्
आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते ।
3.1.36
अनुष्टुप्
उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके ॥ २१ ॥
3.1.21
अनुष्टुप्
सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः ।लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभौ ॥ २२ ॥
3.1.22
अनुष्टुप्
सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः ।
3.1.39
अनुष्टुप्
मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः ॥ २३ ॥कम्रः कामयिताभीकः कमनः कामनोऽभिकः ।
3.1.40
अनुष्टुप्
विधेयो विनयग्राही वचनेस्थित आश्रवः ॥ २४ ॥
3.1.24
अनुष्टुप्
वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः ।
3.1.42
अनुष्टुप्
धृष्टे धृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते ॥ २५ ॥
3.1.25
अनुष्टुप्
स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते ।
3.1.44
अनुष्टुप्
अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः ॥ २६ ॥
3.1.26
अनुष्टुप्
आशंसुराशंसितरि गृहयालुर्ग्रहीतरि ।
3.1.46
अनुष्टुप्
श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके ॥ २७ ॥
3.1.27
अनुष्टुप्
लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके ।
3.1.48
अनुष्टुप्
शरारुर्घातुको हिंस्रः स्याद्वर्धिष्णुस्तु वर्द्धनः ॥ २८ ॥
3.1.28
अनुष्टुप्
उत्पतिष्णुस्तूत्पतितालङ्करिष्णुस्तु मण्डनः ।
3.1.50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ ॥ २९ ॥
3.1.29
अनुष्टुप्metre not read in every line
निराकरिष्णुः क्षिप्नुः स्यात्सान्द्रस्निग्धस्तु मेदुरः ।
3.1.52
अनुष्टुप्
ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः ॥ ३० ॥
3.1.30
अनुष्टुप्
विसृत्वरो विसृमरः प्रसारी च विसारिणि ।
3.1.54
अनुष्टुप्
सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी ॥ ३१ ॥
3.1.31
अनुष्टुप्
क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः ।
3.1.56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
जागरूको जागरिता घूर्णितः प्रचलायितः ॥ ३२ ॥
3.1.32
अनुष्टुप्metre not read in every line
स्वप्नक्शयालुर्निद्रालुर्निद्राणशयितौ समौ ।
3.1.58
अनुष्टुप्
पराङ्मुखः पराचीनः स्यादवाङप्यधोमुखः ॥ ३३ ॥
3.1.33
अनुष्टुप्
देवानञ्चति देवद्र्यङ्विष्वद्र्यङ्विष्वगञ्चति ।
3.1.60
अनुष्टुप्
यस्सहाञ्चति सध्र्यङ्स स तिर्यङ्यस्तिरोऽञ्चति ॥ ३४ ॥
3.1.34
अनुष्टुप्
वदो वदावदो वक्ता वागीशो वाक्पतिः समौ ।
3.1.62
अनुष्टुप्
वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि ॥ ३५ ॥
3.1.35
अनुष्टुप्
स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् ।
3.1.64
अनुष्टुप्
दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियंवदे ॥ ३६ ॥
3.1.36
अनुष्टुप्
लोहलः स्यादस्फुटवाग्गर्ह्यवादी तु कद्वदः ।
3.1.66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः ॥ ३७ ॥
3.1.37
अनुष्टुप्metre not read in every line
रवणः शब्दनो नान्दीवादी नान्दीकरः समौ ।
3.1.68
अनुष्टुप्
जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते ॥ ३८ ॥
3.1.38
अनुष्टुप्
तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे ।
3.1.70
अनुष्टुप्
निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः ॥ ३९ ॥
3.1.39
अनुष्टुप्
आत्तगर्वोऽभिभूतः स्याद्दापितः साधितः समौ ।
3.1.72
अनुष्टुप्
प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः ॥ ४० ॥
3.1.40
अनुष्टुप्
निकृतः स्याद्विप्रकृतो विप्रलब्धस्तु वञ्चितः ।
3.1.74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वि (wrong syllable)
मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ ४१ ॥
3.1.41
अनुष्टुप्metre not read in every line
अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ ।
3.1.76
अनुष्टुप्
आपन्न आपत्प्राप्तः स्यात्कान्दिशीको भयद्रुतः ॥ ४२ ॥
3.1.42
अनुष्टुप्
आक्षारितः क्षारितोऽभिशस्ते सङ्कसुकोऽस्थिरे ।
3.1.78
अनुष्टुप्
व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ ॥ ४३ ॥
3.1.43
अनुष्टुप्
विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः ।
3.1.80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्हे (wrong syllable)
कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते ॥ ४४ ॥
3.1.44
अनुष्टुप्metre not read in every line
द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ ।
3.1.82
अनुष्टुप्
विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः ॥ ४५ ॥
3.1.45
अनुष्टुप्
शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ ।
3.1.84
अनुष्टुप्
दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः ॥ ४६ ॥
3.1.46
अनुष्टुप्
कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः ।
3.1.86
अनुष्टुप्
नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः ॥ ४७ ॥
3.1.47
अनुष्टुप्
अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः ।
3.1.88
अनुष्टुप्
कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः ॥ ४८ ॥
3.1.48
अनुष्टुप्
निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः ।
3.1.90
अनुष्टुप्
वनीयको याचनको मार्गणो याचकार्थिनौ ॥ ४९ ॥
3.1.49
अनुष्टुप्
अहङ्कारवानहंयुः शुभंयुस्तु शुभान्वितः ।
3.1.92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
दिव्योपपादुका देवा नृगवाद्या जरायुजाः ॥ ५० ॥
3.1.50
अनुष्टुप्metre not read in every line
स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः ।उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् ॥ ५१ ॥
3.1.51
अनुष्टुप्
सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् ।कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ ५२ ॥
3.1.52
अनुष्टुप्
तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् ।
3.1.96
अनुष्टुप्
अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५३ ॥
3.1.53
अनुष्टुप्
निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः ।कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः ॥ ५४ ॥
3.1.54
अनुष्टुप्
मलीमसं तु मलिनं कच्चरं मलदूषितम् ।
3.1.99
अनुष्टुप्
पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम् ॥ ५५ ॥
3.1.55
अनुष्टुप्
निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् ।
3.1.101
अनुष्टुप्
असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके ॥ ५६ ॥
3.1.56
अनुष्टुप्
क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः ।मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत् ॥ ५७ ॥परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम् ।
3.1.103
अनुष्टुप्
श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने ॥ ५८ ॥
3.1.58
अनुष्टुप्
स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ।सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥ ५९ ॥
3.1.59
अनुष्टुप्
अप्राग्र्यं द्वयहीने द्वे अप्रधानोपसर्जने ।
3.1.106
अनुष्टुप्
विशङ्कटं पृथु बृहद्विशालं पृथुलं महत् ॥ ६० ॥
3.1.60
अनुष्टुप्
वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे ।
3.1.108
अनुष्टुप्
स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु ॥ ६१ ॥स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः ।
3.1.109
अनुष्टुप्
अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि ॥ ६२ ॥
3.1.62
अनुष्टुप्
प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु ।पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च ॥ ६३ ॥
3.1.63
अनुष्टुप्
परःशताद्यास्ते येषां परा संख्या शतादिकात् ।
3.1.112
अनुष्टुप्metre not read in every line
गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम् ॥ ६४ ॥विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम् ।समग्रं सकलं पूर्णमखण्डं स्यादनूनके ॥ ६५ ॥
3.1.65
अनुष्टुप्metre not read in every line
घनं निरन्तरं सान्द्रं पेलवं विरलं तनु ।
3.1.114
अनुष्टुप्
समीपे निकटासन्नसन्निकृष्टसनीडवत् ॥ ६६ ॥सदेशाभ्याशसविधसमर्यादसवेशवत् ।उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ॥ ६७ ॥
3.1.67
अनुष्टुप्
संसक्ते त्वव्यवहितमपदान्तरमित्यपि ।
3.1.116
अनुष्टुप्
नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम् ॥ ६८ ॥
3.1.68
अनुष्टुप्
दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम् ।
3.1.118
अनुष्टुप्
वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम् ॥ ६९ ॥
3.1.69
अनुष्टुप्
उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने ।न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते ॥ ७० ॥
3.1.70
अनुष्टुप्